०७१

ययातिरुवाच-

विश्वास-प्रस्तुतिः

यत्त्वया सर्वमाख्यातं धर्माधर्ममनुत्तमम्
शृण्वतोऽथ मम श्रद्धा पुनरेव प्रवर्तते ॥ १ ॥

मूलम्

देवानां लोकसंस्थानां वद सङ्ख्याः प्रकीर्तिताः
यस्य पुण्यप्रसङ्गेन येन प्राप्तं च मातले ॥ २ ॥

मातलिरुवाच-
योगयुक्तं प्रवक्ष्यामि तपसा यदुपार्जितम्
देवानां लोकसंस्थानं सुखभोगप्रदायकम् ॥ ३ ॥

धर्मभावं प्रवक्ष्यामि आयासैरर्जितं पृथक्
उपरिष्टाच्च लोकानां स्वरूपं चाप्यनुक्रमात् ॥ ४ ॥

तत्राष्टगुणमैश्वर्यं पार्थिवं पिशिताशिनाम्
तस्मात्सद्यो गतानां च नराणां तत्समं स्मृतम् ॥ ५ ॥

रक्षसां षोडशगुणं पार्थिवानां च तद्विधम्
एवं निरवशेषं च यच्छेषं कुलतेजसाम् ॥ ६ ॥

मूलम्

रक्षसां षोडशगुणं पार्थिवानां च तद्विधम्
एवं निरवशेषं च यच्छेषं कुलतेजसाम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

गन्धर्वाणां च वायव्यं याक्षं च सकलं स्मृतम्
पाञ्चभौतिकमिन्द्रस्य चत्वारिंशद्गुणं महत् ॥ ७ ॥

सोमस्य मानसं दिव्यं विश्वेशं पाञ्चभौतिकम्
सौम्यं प्रजापतीशानामहङ्कारगुणाधिकम् ॥ ८ ॥

चतुष्षष्टिगुणं ब्राह्मं बौधमैश्वर्यमुत्तमम्
विष्णोः प्राधानिकं तन्त्रमैश्वर्यं ब्रह्मणः पदम् ॥ ९ ॥

श्रीमच्छिवपुरे दिव्ये ऐश्वर्यं सर्वकामिकम्
अनन्तगुणमैश्वर्यं शिवस्यात्मगुणं महत् ॥ १० ॥

आदिमध्यान्तरहितं विशुद्धं तत्त्वलक्षणम्
सर्वावभासकं सूक्ष्ममनौपम्यं परात्परम् ॥ ११ ॥

सुसम्पूर्णं जगद्वेषं पशुपाशाविमोक्षणम्
यो यत्स्थानमनुप्राप्तस्तस्य भोगस्तदात्मकः ॥ १२ ॥

विमानं तत्समानं च भवेदीशप्रसादतः
नानारूपाणि ताराणां दृश्यन्ते कोटयस्त्विमा ॥ १३ ॥

अष्टविंशतिरेवं ते सन्दीप्ताः सुकृतात्मनाम्
ये कुर्वन्ति नमस्कारमीश्वराय क्वचित्क्वचित् ॥ १४ ॥

सम्पर्कात्कौतुकाल्लोभात्तद्विमानं लभन्ति ते
नामसङ्कीर्तनाद्वापि प्रसङ्गेन शिवस्य यः ॥ १५ ॥

कुर्याद्वापि नमस्कारं न तस्य विलयो भवेत्
इत्येता गतयस्तत्र महत्यः शिवकर्मणि ॥ १६ ॥

कर्मणाभ्यन्तरेणापि पुंसामीशानभावतः
प्रसङ्गेनापि ये कुर्युः शङ्करस्मरणं नराः ॥ १७ ॥

तैर्लभ्यं त्वतुलं सौख्यं किं पुनस्तत्परायणैः
विष्णुचिन्तां प्रकुर्वन्ति ध्यानेन गतमानसाः ॥ १८ ॥

ते यान्ति परमं स्थानं तद्विष्णोः परमं पदम्
शैवं च वैष्णवं रूपमेकरूपं नरोत्तम ॥ १९ ॥

द्वयोश्च अन्तरं नास्ति एकरूपमहात्मनोः
शिवाय विष्णुरूपाय शिवरूपाय विष्णवे ॥ २० ॥

शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः
एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥ २१ ॥

त्रयाणामन्तरं नास्ति गुणभेदाः प्रकीर्तिताः
शिवभक्तोसि राजेन्द्र तथा भागवतोसि वै ॥ २२ ॥

तेन देवाः प्रसन्नास्ते ब्रह्मविष्णुमहेश्वराः
सुप्रीता वरदा राजन्कर्मणस्तव सुव्रत ॥ २३ ॥

इन्द्रादेशात्समायातः सन्निधौ तव मानद
ऐन्द्रमेनं पदं याहि पश्चाद्ब्राह्मं महेश्वरम् ॥ २४ ॥

वैष्णवं च प्रयाहि त्वं दाहप्रलयवर्जितम्
अनेनापि विमानेन दिव्येन सर्वगामिना ॥ २५ ॥

दिव्यमूर्तिरतो भुङ्क्ष्व दिव्यभोगान्मनोरमान्
समारुह्य विमानं त्वं पुष्पकं सुखगामिनम् ॥ २६ ॥

सुकर्मोवाच-
एवमुक्त्वा द्विजश्रेष्ठ मौनवान्मातलिस्तदा
राजानं धर्मतत्त्वज्ञं ययातिं नहुषात्मजम् ॥ २७ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे एकसप्ततितमोऽध्यायः ७१