मातलिरुवाच-
विश्वास-प्रस्तुतिः
यमपीडां प्रवक्ष्यामि महातीव्रां सुदारुणाम्
भुञ्जन्ति पापिनः सर्वे क्रूरास्ते ब्रह्मघातकाः ॥ १ ॥
मूलम्
यमपीडां प्रवक्ष्यामि महातीव्रां सुदारुणाम्
भुञ्जन्ति पापिनः सर्वे क्रूरास्ते ब्रह्मघातकाः ॥ १ ॥
विश्वास-प्रस्तुतिः
क्वचित्पापाः प्रपच्यन्ते तीव्रेण करिषाग्निना
क्वचित्सिंहैर्वृकैर्व्याघ्रैर्दंशैः कीटैश्च दारुणैः ॥ २ ॥
मूलम्
क्वचित्पापाः प्रपच्यन्ते तीव्रेण करिषाग्निना
क्वचित्सिंहैर्वृकैर्व्याघ्रैर्दंशैः कीटैश्च दारुणैः ॥ २ ॥
विश्वास-प्रस्तुतिः
क्वचिन्महाजलौकोभिः क्वचिदाजगरैः पुनः
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ॥ ३ ॥
मूलम्
क्वचिन्महाजलौकोभिः क्वचिदाजगरैः पुनः
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ॥ ३ ॥
विश्वास-प्रस्तुतिः
मत्तमातङ्गयूथैश्च बलोत्कृष्टैः प्रमाथिभिः
पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गमहावृषैः ॥ ४ ॥
मूलम्
मत्तमातङ्गयूथैश्च बलोत्कृष्टैः प्रमाथिभिः
पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गमहावृषैः ॥ ४ ॥
विश्वास-प्रस्तुतिः
महाशृङ्गैश्च महिषैर्दुष्टगात्रप्रबाधकैः
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ॥ ५ ॥
मूलम्
महाशृङ्गैश्च महिषैर्दुष्टगात्रप्रबाधकैः
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ॥ ५ ॥
विश्वास-प्रस्तुतिः
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजन्ति ते
महातुलां समारूढा दह्यमाना दवानले ॥ ६ ॥
मूलम्
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजन्ति ते
महातुलां समारूढा दह्यमाना दवानले ॥ ६ ॥
विश्वास-प्रस्तुतिः
महावेगप्रधूतास्ते महाचण्डेन वायुना
महापाषाणवर्षेण भिद्यमानाश्च सर्वतः ॥ ७ ॥
मूलम्
महावेगप्रधूतास्ते महाचण्डेन वायुना
महापाषाणवर्षेण भिद्यमानाश्च सर्वतः ॥ ७ ॥
विश्वास-प्रस्तुतिः
पतद्भिर्वज्रनिर्घोषैरुल्कापातैश्च दारुणैः
प्रदीप्ताङ्गारवर्षेण हन्यमाना व्रजन्ति ते ॥ ८ ॥
मूलम्
पतद्भिर्वज्रनिर्घोषैरुल्कापातैश्च दारुणैः
प्रदीप्ताङ्गारवर्षेण हन्यमाना व्रजन्ति ते ॥ ८ ॥
विश्वास-प्रस्तुतिः
महता पांसुवर्षेण पूर्यमाणा यमं गताः
ये नराः पापकर्माणः पापं भुञ्जन्ति दारुणम् ॥ ९ ॥
मूलम्
महता पांसुवर्षेण पूर्यमाणा यमं गताः
ये नराः पापकर्माणः पापं भुञ्जन्ति दारुणम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
एवं पापविशेषेण पापिष्ठाः पापकारकाः
नरकं प्रतिभुञ्जन्ति बहुपीडासमाकुलम् ॥ १० ॥
मूलम्
एवं पापविशेषेण पापिष्ठाः पापकारकाः
नरकं प्रतिभुञ्जन्ति बहुपीडासमाकुलम् ॥ १० ॥
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं विवेकं पुण्यपापयोः
अन्यत्किं ते प्रवक्ष्यामि धर्मशास्त्रमनुत्तमम् ॥ ११ ॥
मूलम्
एतत्ते सर्वमाख्यातं विवेकं पुण्यपापयोः
अन्यत्किं ते प्रवक्ष्यामि धर्मशास्त्रमनुत्तमम् ॥ ११ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने पितृतीर्थवर्णने ययाति-
चरिते सप्ततितमोऽध्यायः ७०