मातलिरुवाच-
विश्वास-प्रस्तुतिः
अथ धर्माः शिवेनोक्ताः शिवधर्मागमोत्तमाः
ज्ञेया बहुविधास्ते च कर्मयोगप्रभेदतः ॥ १ ॥
मूलम्

हिंसादिदोषनिर्मुक्ताः क्लेशायासविवर्जिताः
सर्वभूतहिताः शुद्धाः सूक्ष्मायासा महत्फलाः ॥ २ ॥

अनन्तशाखाकलिताः शिवमूलैकसंश्रिताः
ज्ञानध्यानसुपुष्पाढ्याः शिवधर्माः सनातनाः ॥ ३ ॥

धारयन्ति शिवं यस्माद्धार्यते शिवभाषितैः
शिवधर्माः स्मृतास्तस्मात्संसारार्णवतारकाः ॥ ४ ॥

तथाऽहि सा क्षमा सत्यं ह्रीः श्रद्धेन्द्रियसंयमः
दानमिज्यातपोदानं दशकं धर्मसाधनम् ॥ ५ ॥

अथ व्यस्तैः समस्तैर्वा शिवधर्मैरनुष्ठितैः
शिवैकरस्य सम्प्राप्तैर्गतिरेकैव कल्पिता ॥ ६ ॥

यथा भूः सर्वभूतानां स्थानं साधारणं स्मृतम्
तत्तथा शिवभक्तानां तुल्यं शिवपुरंस्मृतम् ॥ ७ ॥

यथेह सर्वभूतानां भोगाः सातिशयाः स्मृताः
नानापुण्यविशेषेण भोगाः शिवपुरे तथा ॥ ८ ॥

शुभाशुभफलं चापि भुज्यते सर्वदेहिभिः
शिवधर्मस्य चैकस्य फलं तत्रोपभुज्यते ॥ ९ ॥

यस्य यादृग्भवेत्पुण्यं श्रद्धापात्रविशेषतः
भोगाः शिवपुरे तस्य ज्ञेयाः सातिशयाः शुभाः ॥ १० ॥

स्थानप्राप्तिः परं तुल्या भोगाः शान्तिमयाः स्थिताः
कुर्यात्पुण्यं महत्तस्मान्महाभोगजिगीषया ॥ ११ ॥

सर्वातिशयमेवैकं भावितं च सुरोत्तमैः
आत्मभोगाधिपत्यं स्याच्छिवः सर्वजगत्पतिः ॥ १२ ॥

केचित्तत्रैव मुच्यन्ते ज्ञानयोगरता नराः
आवर्तन्ते पुनश्चान्ये संसारे भोगतत्पराः ॥ १३ ॥

तस्माद्विमुक्तिमिच्छंस्तु भोगासक्तिं च वर्जयेत्
विरक्तः शान्तचित्तात्मा शिवज्ञानमवाप्नुयात् ॥ १४ ॥

ये चापीशान्यहृदया यजन्तीशं प्रसङ्गतः
तेषामपि ददातीशः स्थानं भावानुरूपतः ॥ १५ ॥

तत्रार्चयन्ति ये रुद्रं सकृदुच्छिन्नकल्मषाः
तेषां पिशाचलोकेषु भोगानीशः प्रयच्छति ॥ १६ ॥

सन्तप्ता दुःखभारेण म्रियन्ते सर्वदेहिनः
अन्नदः पुण्यदः प्रोक्तः प्राणदश्चापि सर्वदः ॥ १७ ॥

तस्मादन्नप्रदानेन सर्वदानफलं लभेत्
त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च ॥ १८ ॥

अन्नदानप्रदः सर्वमिहामुत्र फलं लभेत्
यस्यान्नपानपुष्टाङ्गः कुरुते पुण्यसञ्चयम् ॥ १९ ॥

अन्नप्रदातुस्तस्यार्धं कर्तुश्चार्धं न संशयः
धर्मार्थकाममोक्षाणां देहः परमसाधनम् ॥ २० ॥

स्थितिस्तस्यान्नपानाभ्यामतस्तत्सर्वसाधनम्
अन्नं प्रजापतिः साक्षादन्नं विष्णुः शिवः स्वयम् ॥ २१ ॥

तस्मादन्नसमं दानं न भूतं न भविष्यति
त्रयाणामपि लोकानामुदकं जीवनं स्मृतम् ॥ २२ ॥

पवित्रमुदकं दिव्यं शुद्धं सर्वरसायनम्
अन्नपानाश्व गो वस्त्र शय्या सूत्रासनानि च ॥ २३ ॥

प्रेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः
एवं दानविशेषेण धर्मराजपुरं नरः ॥ २४ ॥

यस्माद्याति सुखेनैव तस्माद्धर्मं समाचरेत्
ये पुनः क्रूरकर्माणः पापादानविवर्जिताः ॥ २५ ॥

भुञ्जते दारुणं दुःखं नरके नृपनन्दन
तथा सुखं प्रभुञ्जन्ति दानकर्तार एव तु ॥ २६ ॥

तेषां तु सम्भवेत्सौख्यं कर्मयोगरतात्मनाम्
अप्रमेयगुणैर्दिव्यैर्विमानैः सर्वकामकैः ॥ २७ ॥

असङ्ख्यैस्तत्पुरं व्याप्तं प्राणिनामुपकारकैः
सहस्रसोमदिव्यं वा सूर्यतेजः समप्रभम् ॥ २८ ॥

रुद्रलोकमिति प्रोक्तमशेषगुणसंयुतम्
सर्वेषां शिवभक्तानां तत्पुरं परिकीर्तितम् ॥ २९ ॥

रुद्रक्षेत्रे मृतानां च जङ्गमस्थावरात्मनाम्
अप्येकदिवसं भक्त्या यः पूजयति शङ्करम् ॥ ३० ॥

सोपि याति शिवस्थानं किं पुनर्बहुशोर्चयन्
वैष्णवा विष्णुभक्ताश्च विष्णुध्यानपरायणाः ॥ ३१ ॥

तेपि गच्छन्ति वैकुण्ठे समीपं देवचक्रिणः
ब्रह्मवादी च धर्मात्मा ब्रह्मलोकं प्रयाति सः ॥ ३२ ॥

पुण्यकर्ता सुपुण्येन पुण्यलोकं प्रयाति च
तस्मादीशे सदा भक्तिं भावयेदात्मनात्मनि ॥ ३३ ॥

हरौ वापि महाराज युक्तात्मा ज्ञानवान्स्वयम्
तस्मात्सर्वविचारेण भावदोषविचारतः ॥ ३४ ॥

एवं विष्णुप्रभावेण विशिष्टेनापि कर्मणा
नरः स्थानमवाप्येतदेशभावानुरूपतः ॥ ३५ ॥
मूलम्
एवं विष्णुप्रभावेण विशिष्टेनापि कर्मणा
नरः स्थानमवाप्येतदेशभावानुरूपतः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
इत्येतदपरं प्रोक्तं श्रीमच्छिवपुरं महत्
देहिनां कर्मनिष्ठानां पुनरावर्त्तकं स्मृतम् ॥ ३६ ॥

ऊर्ध्वं शिवपुराज्ज्ञेयं वैष्णवं लोकमुत्तमम्
वैष्णवा मानवा यान्ति विष्णुध्यानपरायणाः ॥ ३७ ॥

ब्राह्मणा ब्रह्मलोकं तु सदाचारा नरोत्तमाः
प्रयान्ति यज्विनः सर्वे पुरीं तां तत्त्वकोविदाः ॥ ३८ ॥

ऐन्द्रं लोकं तथा यान्ति क्षत्रिया युद्धशालिनः
अन्ये च पुण्यकर्त्तारः पुण्यलोकान्प्रयान्ति ते ॥ ३९ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने पितृतीर्थे ययाति-
चरिते एकोनसप्ततितमोऽध्यायः ६९