ययातिरुवाच-
विश्वास-प्रस्तुतिः
अस्मद्भाग्यप्रसङ्गेन भवतो दर्शनं मम
सञ्जातं शक्रसंवाह एतच्छ्रेयो ममातुलम् ॥ १ ॥
मूलम्

मानवा मर्त्यलोके च पापं कुर्वन्ति दारुणम्
तेषां कर्मविपाकं च मातले वद साम्प्रतम् ॥ २ ॥

मातलिरुवाच-
श्रूयतामभिधास्यामि पापाचारस्य लक्षणम्
श्रुते सति महज्ज्ञानमत्रलोके प्रजायते ॥ ३ ॥

वेदनिन्दां प्रकुर्वन्ति ब्रह्माचारस्य कुत्सनम्
महापातकमेवापि ज्ञातव्यं ज्ञानपण्डितैः ॥ ४ ॥

साधूनामपि सर्वेषां यः पीडां हि समाचरेत्
महापातकमेवापि प्रायश्चित्ते न हि व्रजेत् ॥ ५ ॥

कुलाचारं परित्यज्य अन्याचारं व्रजन्ति च
एतच्च पातकं घोरं कथितं कृत्यवेदिभिः ॥ ६ ॥

मातापित्रोश्च यो निन्दां ताडनं भगिनीषु च
पितृस्वसृनिन्दनं च तदेव पातकं ध्रुवम् ॥ ७ ॥

सम्प्राप्ते श्राद्धकालेपि पञ्चक्रोशान्तरेस्थितम्
जामातरं परित्यज्य तथा च दुहितुः सुतम् ॥ ८ ॥

स्वसारं चैव स्वस्रीयं परित्यज्य प्रवर्तते
कामात्क्रोधाद्भयाद्वापि अन्यं भोजयते यदा ॥ ९ ॥

पितरो नैव भुञ्जन्ति देवाश्चैव न भुञ्जते
एतच्च पातकं तस्य पितृघातसमं कृतम् ॥ १० ॥

दानकालेपि सम्प्राप्ते आगते ब्राह्मणे किल
भूरिदानं परित्यज्य कतिभ्यो हि प्रदीयते ॥ ११ ॥

एकस्मै दीयते दानमन्येभ्योपि न दीयते
एतच्च पातकं घोरं दानभ्रंशकरं स्मृतम् ॥ १२ ॥

यजमानगृहे सेवा संस्थितान्ब्राह्मणान्निजान्
परित्यज्य हि यद्दानं न दानस्य च लक्षणम् ॥ १३ ॥

समाश्रितं हि यं विप्रं धर्माचारसमन्वितम्
सर्वोपायैः सुपुष्येत्तं सुदानैर्बहुभिर्नृप ॥ १४ ॥

न गणयेन्मूर्खं विद्वांसं पोष्यो विप्रः सदा भवेत्
सर्वैः पुण्यैः समायुक्तं सुदानैर्बहुभिर्नृप ॥ १५ ॥

तं समभ्यर्च्य विद्वांसं प्राप्तं विप्रं सदार्हयेत्
तं हि त्यक्त्वा ददेद्दानमन्यस्मै ब्राह्मणाय वै ॥ १६ ॥

दत्तं हुतं भवेत्तस्य निष्फलं नात्र संशयः
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चापि चतुर्थकः ॥ १७ ॥

पुण्यकालेषु सर्वेषु संश्रितं पूजयेद्द्विजम्
मूर्खं वापि हि विद्वांसं तस्य पुण्यफलं शृणु ॥ १८ ॥

अश्वमेधस्य यज्ञस्य फलं तस्य प्रजायते
कस्माद्धिकारणाद्राजञ्छक्यं प्राप्य न कारयेत् ॥ १९ ॥

अन्यो विप्रः समायातस्तत्कालं श्राद्धकर्मणि
उभौ तौ पूजयेत्तत्र भोजनाच्छादनैस्ततः ॥ २० ॥

ताम्बूलदक्षिणाभिश्च पितरस्तस्य हर्षिताः
श्राद्धभुक्ताय दातव्यं सदा दानं च दक्षिणा ॥ २१ ॥

न ददेच्छ्राद्धकर्ता यो गोहत्यादि समं भवेत्
द्वावेतौ पूजयेत्तस्माच्छ्रद्धया नृपसत्तम ॥ २२ ॥

निर्द्धनत्व प्रभावाद्वै तमेकं हि प्रपूजयेत्
व्यतीपातेपि सम्प्राप्ते वैधृतौ च नृपोत्तम ॥ २३ ॥

अमावास्यां तथा राजन्क्षयाहे परपक्षके
श्राद्धमेवं प्रकर्तव्यं ब्राह्मणादि त्रिवर्णकैः ॥ २४ ॥

यज्ञे तथा महाराज ऋत्विजश्च प्रकारयेत्
तथा विप्राः प्रकर्तव्याः श्राद्धदानाय सर्वदा ॥ २५ ॥

अविज्ञातः प्रकर्तव्यो ब्राह्मणो नैव जानता
यस्यापि ज्ञायते वंशः कुलं त्रिपुरुषं तथा ॥ २६ ॥

आचारश्च तथा राजंस्तं विप्रं सन्निमन्त्रयेत्
कुलं न ज्ञायते यस्य आचारेण विचारयेत् ॥ २७ ॥

श्राद्धदाने प्रकर्तव्ये विशुद्धो मूर्ख एव हि
अविज्ञातो भवेद्विप्रो वेदवेदाङ्गपारगः ॥ २८ ॥

श्राद्धदानं प्रकर्तव्यं तस्माद्विप्रं निमन्त्रयेत्
आतिथ्यं तु प्रकर्तव्यमपूर्वं नृपसत्तम ॥ २९ ॥

अन्यथा कुरुते पापी स याति नरकं ध्रुवम्
तस्माद्विप्रः प्रकर्तव्यो दाने श्राद्धे च पर्वसु ॥ ३० ॥

आदौ परीक्षयेद्विप्रं श्राद्धे दाने प्रकारयेत्
नाश्नन्ति तस्य वै गेहे पितरो विप्रवर्जिताः ॥ ३१ ॥

शापं दत्त्वा ततो यान्ति श्राद्धाद्विप्रविवर्जितात्
महापापी भवेत्सोपि ब्रह्मणः सदृशो यदि ॥ ३२ ॥

पैत्राचारं परित्यज्य यो वर्तेत नरोत्तम
महापापी स विज्ञेयः सर्वधर्मबहिष्कृतः ॥ ३३ ॥

ये त्यजन्ति शिवाचारं वैष्णवं भोगदायकम्
निन्दन्ति ब्राह्मणं धर्मं विज्ञेयाः पापवर्द्धनाः ॥ ३४ ॥

ये त्यजन्ति शिवाचारं शिवभक्तान्द्विषन्ति च
हरिं निन्दन्ति ये पापा ब्रह्मद्वेषकराः सदा ॥ ३५ ॥

आचारनिन्दका ये ते महापातककृत्तमाः
आद्यं पूज्यं परं ज्ञानं पुण्यं भागवतं तथा ॥ ३६ ॥

वैष्णवं हरिवंशं वा मत्स्यं वा कूर्ममेव च
पाद्मं वा ये पूजयन्ति तेषां श्रेयो वदाम्यहम् ॥ ३७ ॥

प्रत्यक्षं तेन वै देवः पूजितो मधुसूदनः
तस्मात्प्रपूजयेज्ज्ञानं वैष्णवं विष्णुवल्लभम् ॥ ३८ ॥

देवस्थाने च नित्यं वै वैष्णवं पुस्तकं नृप
तस्मिन्प्रपूजिते विप्र पूजितः कमलापतिः ॥ ३९ ॥

असम्पूज्य हरेर्ज्ञानं ये गायन्ति लिखन्ति च
अज्ञाय तत्प्रयच्छन्ति शृण्वन्त्युच्चारयन्ति च ॥ ४० ॥

विक्रीडन्ति च लोभेन कुज्ञान नियमेन च
असंस्कृतप्रदेशेषु यथेष्टं स्थापयन्ति च ॥ ४१ ॥

हरिज्ञानं यथाक्षेमं प्रत्यक्षाच्च प्रकाशयेत्
अधीते च समर्थश्च यः प्रमादं करोति च ॥ ४२ ॥

अशुचिश्चाशुचौ स्थाने यः प्रवक्ति शृणोति च
इति सर्वं समासेन ज्ञाननिन्दा समं स्मृतम् ॥ ४३ ॥

गुरुपूजामकृत्वैव यः शास्त्रं श्रोतुमिच्छति
न करोति च शुश्रूषामाज्ञाभङ्गं च भावतः ॥ ४४ ॥

नाभिनन्दति तद्वाक्यमुत्तरं सम्प्रयच्छति
गुरुकर्मणि साध्ये च तदुपेक्षां करोति च ॥ ४५ ॥

गुरुमार्तमशक्तं च विदेशं प्रस्थितं तथा
अरिभिः परिभूतं वा यः सन्त्यजति पापकृत् ॥ ४६ ॥

पठमानं पुराणं तु तस्य पापं वदाम्यहम्
कुम्भीपाके वसेत्तावद्यावदिन्द्राश्चतुर्दश ॥ ४७ ॥

पठमानं गुरुं यो हि उपेक्षयति पापधीः
तस्यापि पातकं घोरं चिरं नरकदायकम् ॥ ४८ ॥

भार्यापुत्रेषु मित्रेषु यश्चावज्ञां करोति च
इत्येतत्पातकं ज्ञेयं गुरुनिन्दासमं महत् ॥ ४९ ॥

ब्रह्महा स्वर्णस्तेयी च सुरापी गुरुतल्पगः
महापातकिनश्चैते तत्संयोगी च पञ्चमः ॥ ५० ॥

क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य विशेषतः
मर्मातिकृन्तको यश्च ब्रह्मघ्नः स प्रकीर्तितः ॥ ५१ ॥

ब्राह्मणं यः समाहूय याचमानमकिञ्चनम्
पश्चान्नास्तीति यो ब्रूयात्स च वै ब्रह्महा नृप ॥ ५२ ॥

यस्तु विद्याभिमानेन निस्तेजयति वै द्विजम्
उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ॥ ५३ ॥

मिथ्यागुणैरथात्मानं नयत्युत्कर्षतां पुनः
गुरुं विरोधयेद्यस्तु स च वै ब्रह्महा स्मृतः ॥ ५४ ॥

क्षुत्तृषातप्तदेहानामन्नभोजनमिच्छताम्
यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् ॥ ५५ ॥

पिशुनः सर्वलोकानां रन्ध्रान्वेषणतत्परः
उद्वेजनकरः क्रूरः स च वै ब्रह्महा स्मृतः ॥ ५६ ॥

देवद्विज गवां भूमिं पूर्वदत्तां हरेत्तु यः
प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ॥ ५७ ॥

द्विजवित्तापहरणं न्यासेन समुपार्जितम्
ब्रह्महत्यासमं ज्ञेयं तस्य पातकमुत्तमम् ॥ ५८ ॥

अग्निहोत्रं परित्यज्य पञ्चयज्ञीयकर्मणि
मातापित्रोर्गुरूणां च कूटसाक्ष्यं च यश्चरेत् ॥ ५९ ॥

अप्रियं शिवभक्तानामभक्ष्याणां च भक्षणम्
वने निरपराधानां प्राणिनां च प्रमारणम् ॥ ६० ॥

गवां गोष्ठे वने चाग्नेः पुरे ग्रामे च दीपनम्
इति पापानि घोराणि सुरापानसमानि तु ॥ ६१ ॥

दीनसर्वस्वहरणं परस्त्रीगजवाजिनाम्
गोभूरजतवस्त्राणामोषधीनां रसस्य च ॥ ६२ ॥
मूलम्
दीनसर्वस्वहरणं परस्त्रीगजवाजिनाम्
गोभूरजतवस्त्राणामोषधीनां रसस्य च ॥ ६२ ॥
विश्वास-प्रस्तुतिः
चन्दनागुरुकर्पूर कस्तूरी पट्ट वाससाम्
परन्यासापहरणं रुक्मस्तेयसमं स्मृतम् ॥ ६३ ॥

कन्याया वरयोग्याया अदानं सदृशे वरे
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ॥ ६४ ॥

कुमारीसाहसं घोरमन्त्यजस्त्रीनिषेवणम्
सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम् ॥ ६५ ॥

महापातकतुल्यानि पापान्युक्तानि यानि तु
तानि पातकसञ्ज्ञानि तन्न्यूनमुपपातकम् ॥ ६६ ॥

द्विजायार्थं प्रतिज्ञाय न प्रयच्छति यः पुनः
तत्र विस्मरते विप्रस्तुल्यं तदुपपातकम् ॥ ६७ ॥

द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमम्
अतिमानातिकोपश्च दाम्भिकत्वं कृतघ्नता ॥ ६८ ॥

अन्यत्र विषयासक्तिः कार्पर्ण्यं शाठ्यमत्सरम्
परदाराभिगमनं साध्वीकन्याभिदूषणम् ॥ ६९ ॥

परिवित्तिः परिवेत्ता यया च परिविद्यते
तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ७० ॥

पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा
भार्याणां च परित्यागः साधूनां च तपस्विनाम् ॥ ७१ ॥

गवां क्षत्रियवैश्यानां स्त्रीशूद्राणां च घातनम्
शिवायतनवृक्षाणां पुण्याराम विनाशनम् ॥ ७२ ॥

यः पीडामाश्रमस्थानामाचरेदल्पिकामपि
तद्भृत्यपरिवर्गस्य पशुधान्यवनस्य च ॥ ७३ ॥

कर्ष धान्य पशुस्तेयमयाज्यानां च याजनम्
यज्ञारामतडागानां दारापत्यस्य विक्रयः ॥ ७४ ॥

तीर्थयात्रोपवासानां व्रतानां च सुकर्मणाम्
स्त्रीधनान्युपजीवन्ति स्त्रीभगात्यन्तजीविता ॥ ७५ ॥

स्वधर्मं विक्रयेद्यस्तु अधर्मं वर्णते नरः
परदोषप्रवादी च परच्छिद्रावलोककः ॥ ७६ ॥

परद्रव्याभिलाषी च परदारावलोककः
एते गोघ्नसमानाश्च ज्ञातव्या नृपनन्दन ॥ ७७ ॥

यः कर्ता सर्वशास्त्राणां गोहर्ता गोश्च विक्रयी
निर्दयोऽतीव भृत्येषु पशूनां दमकश्च यः ॥ ७८ ॥

मिथ्या प्रवदते वाचमाकर्णयति यः परैः
स्वामिद्रोही गुरुद्रोही मायावी चपलः शठः ॥ ७९ ॥

यो भार्यापुत्रमित्राणि बालवृद्धकृशातुरान्
भृत्यानतिथिबन्धूंश्च त्यक्त्वाश्नाति बुभुक्षितान् ॥ ८० ॥

ये तु मृष्टं समश्नन्ति नो वाञ्च्छन्तं ददन्ति च
पृथक्पाकी स विज्ञेयो ब्रह्मवादिषु गर्हितः ॥ ८१ ॥

नियमान्स्वयमादाय ये त्यजन्त्यजितेन्द्रियाः
प्रव्रज्यागमिता यैश्च संयुक्ता ये च मद्यपैः ॥ ८२ ॥

ये चापि क्षयरोगार्तां गां पिपासा क्षुधातुराम्
न पालयन्ति यत्नेन ते गोघ्ना नारकाः स्मृताः ॥ ८३ ॥

सर्वपापरता ये च चतुष्पात्क्षेत्रभेदकाः
साधून्विप्रान्गुरूंश्चैव यश्च गां हि प्रताडयेत् ॥ ८४ ॥

ये ताडयन्त्यदोषां च नारीं साधुपदेस्थिताम्
आलस्यबद्धसर्वाङ्गो यः स्वपिति मुहुर्मुहुः ॥ ८५ ॥

दुर्बलांश्च न पुष्णन्ति नष्टान्नान्वेषयन्ति च
पीडयन्त्यतिभारेण सक्षतान्वाहयन्ति च ॥ ८६ ॥

सर्वपापरता ये च संयुक्ता ये च भुञ्जते
भग्नाङ्गीं क्षतरोगार्तां गोरूपां च क्षुधातुराम् ॥ ८७ ॥

न पालयन्ति यत्नेन ते जना नारकाः स्मृताः
वृषाणां वृषणौ ये च पापिष्ठा घातयन्ति च ॥ ८८ ॥

बाधयन्ति च गोवत्सान्महानारकिणो नराः
आशया समनुप्राप्तं क्षुत्तृषाश्रमपीडितम् ॥ ८९ ॥

ये चातिथिं न मन्यन्ते ते वै निरयगामिनः
अनाथं विकलं दीनं बालं वृद्धं भृशातुरम् ॥ ९० ॥

नानुकम्पन्ति ये मूढास्ते यान्ति नरकार्णवम्
अजाविको माहिषिको यः शूद्रा वृषलीपतिः ॥ ९१ ॥

शूद्रो विप्रस्य क्षत्रस्य य आचारेण वर्तते
शिल्पिनः कारवो वैद्यास्तथा देवलका नराः ॥ ९२ ॥

भृतकामात्यकर्माणः सर्वे निरयगामिनः
यश्चोदितमतिक्रम्य स्वेच्छया आहरेत्करम् ॥ ९३ ॥

नरकेषु स पच्येत यश्च दण्डं वृथा नयेत्
उत्कोचकैरधिकृतैस्तस्करैश्च प्रपीड्यते ॥ ९४ ॥

यस्य राज्ञः प्रजा राज्ये पच्यते नरकेषु सः
ये द्विजाः प्रतिगृह्णन्ति नृपस्य पापवर्तिनः ॥ ९५ ॥

प्रयान्ति तेपि घोरेषु नरकेषु न संशयः
पारदारिकचौराणां यत्पापं पार्थिवस्य च ॥ ९६ ॥

भवत्यरक्षतो घोरो राज्ञस्तस्य परिग्रहः
अचौरं चौरवद्यश्च चौरं चाचौरवत्पुनः ॥ ९७ ॥

अविचार्य नृपः कुर्यात्सोऽपि वै नरकं व्रजेत्
घृततैलान्नपानादि मधुमांस सुरासवम् ॥ ९८ ॥

गुडेक्षुक्षीरशाकादि दधिमूलफलानि च
तृणकाष्ठं पुष्पपत्रं कांस्यभाजनमेव च ॥ ९९ ॥

उपानच्छत्रकटक शिबिकामासनं मृदु
ताम्रं सीसं त्रपुकांस्यं शङ्खाद्यं च जलोद्भवम् १००
वादित्रं वेणुवंशाद्यं गृहोपस्करणानि च
ऊर्णाकार्पासकौशेय रङ्गपद्मोद्भवानि च १०१
तूलं सूक्ष्माणिवस्त्राणि ये लोभेन हरन्ति च
एवमादीनि चान्यानि द्रव्याणि विविधानि च १०२
नरकेषु द्रुतं गच्छेदपहृत्याल्पकान्यपि
यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम् १०३
अपहृत्य नरो याति नरके नात्र संशयः
बह्वल्पकाद्यपि तथा परस्य ममताकृतम् १०४
अपहृत्य नरो याति नरके नात्र संशयः
एवमाद्यैर्नरः पापैरुत्क्रान्तिसमनन्तरम् १०५
शरीरघातनार्थाय पूर्वाकारमवाप्नुयात्
यमलोकं व्रजन्त्येते शरीरस्था यमाज्ञया १०६
यमदूतैर्महाघोरैर्नीयमानाः सुदुःखिताः
देवतिर्यङ्मनुष्याणामधर्मनियतात्मनाम् १०७
धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः
विनयाचारयुक्तानां प्रमादान्मलिनात्मनाम् १०८
प्रायश्चित्तैर्गुरुः शास्ता न च तैरीक्ष्यते यमः
पारदारिकचौराणामन्यायव्यवहारिणाम् १०९
नृपतिः शासकः प्रोक्तः प्रच्छन्नानां च धर्मराट्
तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ११०
नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि
यः करोति स्वयं कर्म कारयेद्वानुमोदयेत् १११
कायेन मनसा वाचा तस्य चाधोगतिः फलम्
इति सङ्क्षेपतः प्रोक्ताः पापभेदास्त्रिधाधुना ११२
कथ्यन्ते गतयश्चित्रा नराणां पापकर्मणाम्
एतत्ते नृपते धर्म फलं प्रोक्तं सुविस्तरात् ११३
अन्यत्किन्ते प्रवक्ष्यामि तन्मे ब्रूहि नरोत्तम
अधर्मस्य फलं प्रोक्तं धर्मस्यापि वदाम्यहम् ११४
इत्युक्त्वा मातलिस्तत्र राजानं सर्ववत्सलम्
तस्मिन्धर्मप्रसङ्गेन इत्याख्यातं महात्मना ११५
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरित्रे
सप्तषष्टितमोऽध्यायः ६७