पिप्पलउवाच-
विश्वास-प्रस्तुतिः
पितुःप्रसादभावाद्वै यदुना सुखमुत्तमम्
कथं प्राप्तं सुभुक्तं च तन्मे विस्तरतो वद ॥ १ ॥
मूलम्
पितुःप्रसादभावाद्वै यदुना सुखमुत्तमम्
कथं प्राप्तं सुभुक्तं च तन्मे विस्तरतो वद ॥ १ ॥
विश्वास-प्रस्तुतिः
कस्मात्पापप्रभावं च रुरुर्भुङ्क्ते द्विजोत्तम
सकलं विस्तरेणापि वद मे कुण्डलात्मज ॥ २ ॥
मूलम्
कस्मात्पापप्रभावं च रुरुर्भुङ्क्ते द्विजोत्तम
सकलं विस्तरेणापि वद मे कुण्डलात्मज ॥ २ ॥
विश्वास-प्रस्तुतिः
सुकर्मोवाच-
श्रूयतामभिधास्यामि चरित्रं पापनाशनम्
नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः ॥ ३ ॥
मूलम्
सुकर्मोवाच-
श्रूयतामभिधास्यामि चरित्रं पापनाशनम्
नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः ॥ ३ ॥
विश्वास-प्रस्तुतिः
सोमवंशात्प्रभूतो हि नहुषो मेदिनीपतिः
दानधर्माननेकांश्च चका रह्यतुलानपि ॥ ४ ॥
मूलम्
सोमवंशात्प्रभूतो हि नहुषो मेदिनीपतिः
दानधर्माननेकांश्च चका रह्यतुलानपि ॥ ४ ॥
विश्वास-प्रस्तुतिः
मखानामश्वमेधानामियाज शतमुत्तमम्
वाजपेयशतं चापि अन्यान्यज्ञाननेकधा ॥ ५ ॥
मूलम्
मखानामश्वमेधानामियाज शतमुत्तमम्
वाजपेयशतं चापि अन्यान्यज्ञाननेकधा ॥ ५ ॥
विश्वास-प्रस्तुतिः
आत्मनः पुण्यभावेन इन्द्रलोकमवाप सः
पुत्रं धर्मगुणोपेतं प्रजापालं चकार सः ॥ ६ ॥
मूलम्
आत्मनः पुण्यभावेन इन्द्रलोकमवाप सः
पुत्रं धर्मगुणोपेतं प्रजापालं चकार सः ॥ ६ ॥
विश्वास-प्रस्तुतिः
ययातिं सत्यसम्पन्नं धर्मवीर्यं महामतिम्
एन्द्रं पदं गतो राजा तस्य पुत्रः पदे स्वके ॥ ७ ॥
मूलम्
ययातिं सत्यसम्पन्नं धर्मवीर्यं महामतिम्
एन्द्रं पदं गतो राजा तस्य पुत्रः पदे स्वके ॥ ७ ॥
विश्वास-प्रस्तुतिः
ययातिः सत्यसम्पन्नः प्रजा धर्मेण पालयेत्
स्वयमेव प्रपश्येत्स प्रजाकर्माणि तान्यपि ॥ ८ ॥
मूलम्
ययातिः सत्यसम्पन्नः प्रजा धर्मेण पालयेत्
स्वयमेव प्रपश्येत्स प्रजाकर्माणि तान्यपि ॥ ८ ॥
विश्वास-प्रस्तुतिः
याजयामास धर्मज्ञः श्रुत्वा धर्ममनुत्तमम्
यज्ञतीर्थादिकं सर्वं दानपुण्यं चकार सः ॥ ९ ॥
मूलम्
याजयामास धर्मज्ञः श्रुत्वा धर्ममनुत्तमम्
यज्ञतीर्थादिकं सर्वं दानपुण्यं चकार सः ॥ ९ ॥
विश्वास-प्रस्तुतिः
राज्यं चकार मेधावी सत्यधर्मेण वै तदा
यावदशीतिसहस्राणि वर्षाणां नृपनन्दनः ॥ १० ॥
मूलम्
राज्यं चकार मेधावी सत्यधर्मेण वै तदा
यावदशीतिसहस्राणि वर्षाणां नृपनन्दनः ॥ १० ॥
विश्वास-प्रस्तुतिः
तावत्कालं गतं तस्य ययातेस्तु महात्मनः
तस्य पुत्राश्च चत्वारस्तद्वीर्यबलविक्रमाः ॥ ११ ॥
मूलम्
तावत्कालं गतं तस्य ययातेस्तु महात्मनः
तस्य पुत्राश्च चत्वारस्तद्वीर्यबलविक्रमाः ॥ ११ ॥
विश्वास-प्रस्तुतिः
तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसः
तस्यासीज्ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलः ॥ १२ ॥
मूलम्
तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसः
तस्यासीज्ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलः ॥ १२ ॥
विश्वास-प्रस्तुतिः
पुरुर्नाम द्वितीयोऽभूत्कुरुश्चान्यस्तृतीयकः
यदुर्नाम स धर्मात्मा चतुर्थो नृपतेः सुतः ॥ १३ ॥
मूलम्
पुरुर्नाम द्वितीयोऽभूत्कुरुश्चान्यस्तृतीयकः
यदुर्नाम स धर्मात्मा चतुर्थो नृपतेः सुतः ॥ १३ ॥
विश्वास-प्रस्तुतिः
एवं चत्वारः पुत्राश्च ययातेस्तु महात्मनः
तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः ॥ १४ ॥
मूलम्
एवं चत्वारः पुत्राश्च ययातेस्तु महात्मनः
तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः ॥ १४ ॥
विश्वास-प्रस्तुतिः
एवं राज्यं कृतं तेन धर्मेणापि ययातिना
तस्य कीर्तिर्यशो भावस्त्रैलोक्ये प्रचुरोभवत् ॥ १५ ॥
मूलम्
एवं राज्यं कृतं तेन धर्मेणापि ययातिना
तस्य कीर्तिर्यशो भावस्त्रैलोक्ये प्रचुरोभवत् ॥ १५ ॥
विश्वास-प्रस्तुतिः
विष्णुरुवाच-
एकदा तु द्विजश्रेष्ठो नारदो ब्रह्मनन्दनः
एन्द्रं लोकं गतो राजन्द्रष्टुं चैव पुरन्दरम् ॥ १६ ॥
मूलम्
विष्णुरुवाच-
एकदा तु द्विजश्रेष्ठो नारदो ब्रह्मनन्दनः
एन्द्रं लोकं गतो राजन्द्रष्टुं चैव पुरन्दरम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
सहस्राक्षस्ततोपश्यद्धुताशनसमप्रभम्
देवो विप्रं समायान्तं सर्वज्ञं ज्ञानपण्डितम् ॥ १७ ॥
मूलम्
सहस्राक्षस्ततोपश्यद्धुताशनसमप्रभम्
देवो विप्रं समायान्तं सर्वज्ञं ज्ञानपण्डितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
पूजितं मधुपर्काद्यैर्भक्त्या नमितकन्धरः
निवेश्य चासने पुण्ये पप्रच्छ मुनिपुङ्गवम् ॥ १८ ॥
मूलम्
पूजितं मधुपर्काद्यैर्भक्त्या नमितकन्धरः
निवेश्य चासने पुण्ये पप्रच्छ मुनिपुङ्गवम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
इन्द्र उवाच-
कस्मादागमनं तेद्य किमर्थमिह चागतः
किं ते हि सुप्रियं विप्र करोम्यद्य महामुने ॥ १९ ॥
मूलम्
इन्द्र उवाच-
कस्मादागमनं तेद्य किमर्थमिह चागतः
किं ते हि सुप्रियं विप्र करोम्यद्य महामुने ॥ १९ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
देवराज कृतं सर्वं भक्त्या यच्च प्रभाषितम्
सन्तुष्टोस्मि महाप्राज्ञ प्रश्नोत्तरं वदाम्यहम् ॥ २० ॥
मूलम्
नारद उवाच-
देवराज कृतं सर्वं भक्त्या यच्च प्रभाषितम्
सन्तुष्टोस्मि महाप्राज्ञ प्रश्नोत्तरं वदाम्यहम् ॥ २० ॥
विश्वास-प्रस्तुतिः
महीलोकात्सुसम्प्राप्तः साम्प्रतं तव मन्दिरम्
त्वामन्वेष्टुं समायातो दृष्ट्वा नाहुषमेव च ॥ २१ ॥
मूलम्
महीलोकात्सुसम्प्राप्तः साम्प्रतं तव मन्दिरम्
त्वामन्वेष्टुं समायातो दृष्ट्वा नाहुषमेव च ॥ २१ ॥
विश्वास-प्रस्तुतिः
इन्द्र उवाच-
सत्यधर्मेण को राजा प्रजाः पालयते सदा
सर्वधर्मसमायुक्तः श्रुतवाञ्ज्ञानवान्गुणी ॥ २२ ॥
मूलम्
इन्द्र उवाच-
सत्यधर्मेण को राजा प्रजाः पालयते सदा
सर्वधर्मसमायुक्तः श्रुतवाञ्ज्ञानवान्गुणी ॥ २२ ॥
विश्वास-प्रस्तुतिः
पृथिव्यामस्ति को राजा वेदज्ञो ब्राह्मणप्रियः
ब्रह्मण्यो वेदविच्छूरो यज्वा दाता सुभक्तिमान् ॥ २३ ॥
मूलम्
पृथिव्यामस्ति को राजा वेदज्ञो ब्राह्मणप्रियः
ब्रह्मण्यो वेदविच्छूरो यज्वा दाता सुभक्तिमान् ॥ २३ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
एभिर्गुणैस्तु संयुक्तो नहुषस्यात्मजो बली
यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः ॥ २४ ॥
मूलम्
नारद उवाच-
एभिर्गुणैस्तु संयुक्तो नहुषस्यात्मजो बली
यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः ॥ २४ ॥
विश्वास-प्रस्तुतिः
भवादृशो हि भूर्लोके ययातिर्नहुषात्मजः
भवान्स्वर्गे स चैवास्ति भूतले भूतिवर्धनः ॥ २५ ॥
मूलम्
भवादृशो हि भूर्लोके ययातिर्नहुषात्मजः
भवान्स्वर्गे स चैवास्ति भूतले भूतिवर्धनः ॥ २५ ॥
विश्वास-प्रस्तुतिः
पितुः श्रेष्ठो महाराज ह्यश्वमेधशतं तथा
वाजपेयशतं चक्रे ययातिः पृथिवीपतिः ॥ २६ ॥
मूलम्
पितुः श्रेष्ठो महाराज ह्यश्वमेधशतं तथा
वाजपेयशतं चक्रे ययातिः पृथिवीपतिः ॥ २६ ॥
विश्वास-प्रस्तुतिः
दत्तान्यनेकरूपाणि दानानि तेन भक्तितः
गवां लक्षसहस्राणि गवां कोटिशतानि च ॥ २७ ॥
मूलम्
दत्तान्यनेकरूपाणि दानानि तेन भक्तितः
गवां लक्षसहस्राणि गवां कोटिशतानि च ॥ २७ ॥
विश्वास-प्रस्तुतिः
कोटिहोमांश्चकाराथ लक्षहोमांस्तथैव च
भूमिदानादि दानानि ब्राह्मणेभ्योददाच्च यः ॥ २८ ॥
मूलम्
कोटिहोमांश्चकाराथ लक्षहोमांस्तथैव च
भूमिदानादि दानानि ब्राह्मणेभ्योददाच्च यः ॥ २८ ॥
विश्वास-प्रस्तुतिः
सर्वं येन स्वरूपं हि धर्मस्य परिपालितम्
एवं गुणैः समायुक्तो ययातिर्नहुषात्मजः ॥ २९ ॥
मूलम्
सर्वं येन स्वरूपं हि धर्मस्य परिपालितम्
एवं गुणैः समायुक्तो ययातिर्नहुषात्मजः ॥ २९ ॥
विश्वास-प्रस्तुतिः
वर्षाणां तु सहस्राणि अशीतिर्नृपसत्तमः
राज्यं चकार सत्येन यथा दिवि भवानिह ॥ ३० ॥
मूलम्
वर्षाणां तु सहस्राणि अशीतिर्नृपसत्तमः
राज्यं चकार सत्येन यथा दिवि भवानिह ॥ ३० ॥
विश्वास-प्रस्तुतिः
सुकर्मोवाच-
एवमाकर्ण्य देवेन्द्रो नारदात्स मुनीश्वरात्
समालोच्य स मेधावी सम्भीतो धर्मपालनात् ॥ ३१ ॥
मूलम्
सुकर्मोवाच-
एवमाकर्ण्य देवेन्द्रो नारदात्स मुनीश्वरात्
समालोच्य स मेधावी सम्भीतो धर्मपालनात् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
शतयज्ञप्रभावेण नहुषो हि पुरा मम
एन्द्रं पदं गतो वीरो देवराजोभवत्पुरा ॥ ३२ ॥
मूलम्
शतयज्ञप्रभावेण नहुषो हि पुरा मम
एन्द्रं पदं गतो वीरो देवराजोभवत्पुरा ॥ ३२ ॥
विश्वास-प्रस्तुतिः
शची बुद्धिप्रभावेण पदभ्रष्टो व्यजायत
तादृशोयं महाराजः पितुस्तुल्यपराक्रमः ॥ ३३ ॥
मूलम्
शची बुद्धिप्रभावेण पदभ्रष्टो व्यजायत
तादृशोयं महाराजः पितुस्तुल्यपराक्रमः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
प्राप्स्यते नात्र सन्देहः पदमैन्द्रं न संशयः
येन केनाप्युपायेन तं भूपं दिवमानये ॥ ३४ ॥
मूलम्
प्राप्स्यते नात्र सन्देहः पदमैन्द्रं न संशयः
येन केनाप्युपायेन तं भूपं दिवमानये ॥ ३४ ॥
विश्वास-प्रस्तुतिः
इत्येवं चिन्तयामास तस्माद्भीतः सुरेश्वरः
भूपालस्य नृपश्रेष्ठ ययातेः सुमहद्भयात् ॥ ३५ ॥
मूलम्
इत्येवं चिन्तयामास तस्माद्भीतः सुरेश्वरः
भूपालस्य नृपश्रेष्ठ ययातेः सुमहद्भयात् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
तमानेतुं ततो दूतं प्रेषयामास देवराट्
नहुषस्य विमानं तु सर्वकामसमन्वितम् ॥ ३६ ॥
मूलम्
तमानेतुं ततो दूतं प्रेषयामास देवराट्
नहुषस्य विमानं तु सर्वकामसमन्वितम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सारथिं मातलिं नाम विमानेन समन्वितम्
गतो हि मातलिस्तत्र यत्रास्ते नहुषात्मजः ॥ ३७ ॥
मूलम्
सारथिं मातलिं नाम विमानेन समन्वितम्
गतो हि मातलिस्तत्र यत्रास्ते नहुषात्मजः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
प्रहितः सुरराजेन समानेतुं महामतिम्
सभायां वर्त्तमानस्तु यथा इन्द्र प्रःशोभते ॥ ३८ ॥
मूलम्
प्रहितः सुरराजेन समानेतुं महामतिम्
सभायां वर्त्तमानस्तु यथा इन्द्र प्रःशोभते ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तथा ययातिर्धर्मात्मा स्वसभायां विराजते
तमुवाच महात्मानं राजानं सत्यभूषणम् ॥ ३९ ॥
मूलम्
तथा ययातिर्धर्मात्मा स्वसभायां विराजते
तमुवाच महात्मानं राजानं सत्यभूषणम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सारथिर्देवराजस्य शृणु राजन्वचो मम
प्रहितो देवराजेन सकाशं तव साम्प्रतम् ॥ ४० ॥
मूलम्
सारथिर्देवराजस्य शृणु राजन्वचो मम
प्रहितो देवराजेन सकाशं तव साम्प्रतम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
यद्ब्रूते देवराजस्तु तत्सर्वं सुमनाः कुरु
आगन्तव्यं त्वया देव एन्द्रं लोकं हि नान्यथा ॥ ४१ ॥
मूलम्
यद्ब्रूते देवराजस्तु तत्सर्वं सुमनाः कुरु
आगन्तव्यं त्वया देव एन्द्रं लोकं हि नान्यथा ॥ ४१ ॥
विश्वास-प्रस्तुतिः
पुत्रे राज्यं विसृज्यैव कृत्वा चान्तेष्टिमुत्तमाम्
इलो राजा महातेजा वसते नहुषात्मज ॥ ४२ ॥
मूलम्
पुत्रे राज्यं विसृज्यैव कृत्वा चान्तेष्टिमुत्तमाम्
इलो राजा महातेजा वसते नहुषात्मज ॥ ४२ ॥
विश्वास-प्रस्तुतिः
पुरूरवा महावीर्यो विप्रचित्तिर्महामनाः
शिबिर्वसति तत्रैव मनुरिक्ष्वाकु भूपतिः ॥ ४३ ॥
मूलम्
पुरूरवा महावीर्यो विप्रचित्तिर्महामनाः
शिबिर्वसति तत्रैव मनुरिक्ष्वाकु भूपतिः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
सगरो नाम मेधावी नहुषश्च पिता तव
ऋतवीर्यः कृतज्ञश्च शन्तनुश्च महामनाः ॥ ४४ ॥
मूलम्
सगरो नाम मेधावी नहुषश्च पिता तव
ऋतवीर्यः कृतज्ञश्च शन्तनुश्च महामनाः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः
यज्ञानाहृत्य बहुधा मोदन्ते दिवि भूभृतः ॥ ४५ ॥
मूलम्
भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः
यज्ञानाहृत्य बहुधा मोदन्ते दिवि भूभृतः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
अन्ये चैव तु राजानो यज्ञकर्मसु तत्पराः
सर्वे ते दिवि चेन्द्रेण मोदन्ते स्वेन कर्मणा ॥ ४६ ॥
मूलम्
अन्ये चैव तु राजानो यज्ञकर्मसु तत्पराः
सर्वे ते दिवि चेन्द्रेण मोदन्ते स्वेन कर्मणा ॥ ४६ ॥
विश्वास-प्रस्तुतिः
त्वं पुनः सर्वधर्मज्ञः सर्वधर्मेषु संस्थितः
शक्रेण सह मोदस्व स्वर्गलोके महीपते ॥ ४७ ॥
मूलम्
त्वं पुनः सर्वधर्मज्ञः सर्वधर्मेषु संस्थितः
शक्रेण सह मोदस्व स्वर्गलोके महीपते ॥ ४७ ॥
विश्वास-प्रस्तुतिः
ययातिरुवाच-
किं मया तत्कृतं कर्म येन मय्यर्थिता तव
इन्द्रस्य देवराजस्य तत्सर्वं मे वदस्व च ॥ ४८ ॥
मूलम्
ययातिरुवाच-
किं मया तत्कृतं कर्म येन मय्यर्थिता तव
इन्द्रस्य देवराजस्य तत्सर्वं मे वदस्व च ॥ ४८ ॥
विश्वास-प्रस्तुतिः
मातलिरुवाच- मातलि उपरि टिप्पणी
यदशीतिसहस्राणि वर्षाणां हि त्वया नृप
दानपुण्यादिकं कर्म यज्ञैस्तु परिसाधितम् ॥ ४९ ॥
मूलम्
मातलिरुवाच- मातलि उपरि टिप्पणी
यदशीतिसहस्राणि वर्षाणां हि त्वया नृप
दानपुण्यादिकं कर्म यज्ञैस्तु परिसाधितम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
दिवं गच्छ महाराज कर्मणा स्वेन भूपते
सखित्वं देवराजेन कुरु गच्छ सुरालयम् ॥ ५० ॥
मूलम्
दिवं गच्छ महाराज कर्मणा स्वेन भूपते
सखित्वं देवराजेन कुरु गच्छ सुरालयम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
पञ्चात्मकं शरीरं च भूमौ त्यज महामते
दिव्यरूपं समास्थाय भुङ्क्ष्व भोगान्मनोनुगान् ॥ ५१ ॥
मूलम्
पञ्चात्मकं शरीरं च भूमौ त्यज महामते
दिव्यरूपं समास्थाय भुङ्क्ष्व भोगान्मनोनुगान् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
यथायथा कृता भूमौ यज्ञा दानं तपश्च ते
तथातथा स्वर्गभोगाः प्रार्थयन्ते नरेश्वर ॥ ५२ ॥
मूलम्
यथायथा कृता भूमौ यज्ञा दानं तपश्च ते
तथातथा स्वर्गभोगाः प्रार्थयन्ते नरेश्वर ॥ ५२ ॥
विश्वास-प्रस्तुतिः
ययातिरुवाच-
येन कायेन सिध्येत सुकृतं दुष्कृतं भुवि
मातले तत्कथं त्यक्त्वा गच्छेल्लोकमुपार्जितम् ॥ ५३ ॥
मूलम्
ययातिरुवाच-
येन कायेन सिध्येत सुकृतं दुष्कृतं भुवि
मातले तत्कथं त्यक्त्वा गच्छेल्लोकमुपार्जितम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
मातलिरुवाच-
यत्रैवोपार्जितं कायं पञ्चात्मकमिदं नृप
तत्तत्रैव परित्यज्य दिव्येनैव व्रजन्ति तम् ॥ ५४ ॥
मूलम्
मातलिरुवाच-
यत्रैवोपार्जितं कायं पञ्चात्मकमिदं नृप
तत्तत्रैव परित्यज्य दिव्येनैव व्रजन्ति तम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
इतरे मानवाः सर्वे पापपुण्यप्रसाधकाः
तेऽपि कायं परित्यज्य अधऊर्ध्वं व्रजन्ति वै ॥ ५५ ॥
मूलम्
इतरे मानवाः सर्वे पापपुण्यप्रसाधकाः
तेऽपि कायं परित्यज्य अधऊर्ध्वं व्रजन्ति वै ॥ ५५ ॥
विश्वास-प्रस्तुतिः
ययातिरुवाच-
पञ्चात्मकेन कायेन सुकृतं दुष्कृतं नराः
उत्पाद्यैव प्रयान्त्येव अधऊर्ध्वं तु मातले ॥ ५६ ॥
मूलम्
ययातिरुवाच-
पञ्चात्मकेन कायेन सुकृतं दुष्कृतं नराः
उत्पाद्यैव प्रयान्त्येव अधऊर्ध्वं तु मातले ॥ ५६ ॥
विश्वास-प्रस्तुतिः
को विशेषो हि धर्मज्ञ भूमौ कायं परित्यजेत्
पापपुण्यप्रभावाद्वै कायस्य पतनं भवेत् ॥ ५७ ॥
मूलम्
को विशेषो हि धर्मज्ञ भूमौ कायं परित्यजेत्
पापपुण्यप्रभावाद्वै कायस्य पतनं भवेत् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
दृष्टान्तो दृश्यते सूत प्रत्यक्षं मर्त्यमण्डले
विशेषं नैव पश्यामि पापपुण्यस्य चाधिकम् ॥ ५८ ॥
मूलम्
दृष्टान्तो दृश्यते सूत प्रत्यक्षं मर्त्यमण्डले
विशेषं नैव पश्यामि पापपुण्यस्य चाधिकम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
सत्यधर्मादिकं कर्म येन कायेन मानवः
समर्जयति वै मर्त्यस्तं कस्माद्विप्रसर्जयेत् ॥ ५९ ॥
मूलम्
सत्यधर्मादिकं कर्म येन कायेन मानवः
समर्जयति वै मर्त्यस्तं कस्माद्विप्रसर्जयेत् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि
कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितः ॥ ६० ॥
मूलम्
आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि
कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितः ॥ ६० ॥
विश्वास-प्रस्तुतिः
मातलिरुवाच-
सत्यमुक्तं त्वया राजन्कायं त्यक्त्वा प्रयाति सः
सम्बन्धो नास्ति तेनापि समं कायेन चात्मनः ॥ ६१ ॥
मूलम्
मातलिरुवाच-
सत्यमुक्तं त्वया राजन्कायं त्यक्त्वा प्रयाति सः
सम्बन्धो नास्ति तेनापि समं कायेन चात्मनः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
यस्मात्पञ्चत्वरूपोऽयं सन्धिजर्जरितः सदा
जरया पीड्यमानस्तु व्याधिभिर्दूषितः सदा ॥ ६२ ॥
मूलम्
यस्मात्पञ्चत्वरूपोऽयं सन्धिजर्जरितः सदा
जरया पीड्यमानस्तु व्याधिभिर्दूषितः सदा ॥ ६२ ॥
विश्वास-प्रस्तुतिः
जरादोषैः प्रभग्नोऽसौ अत्र स्थातुं स नेच्छति
आकुलव्याकुलो भूत्वा जीवस्त्यक्त्वा प्रयाति सः ॥ ६३ ॥
मूलम्
जरादोषैः प्रभग्नोऽसौ अत्र स्थातुं स नेच्छति
आकुलव्याकुलो भूत्वा जीवस्त्यक्त्वा प्रयाति सः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
सत्येन धर्मपुण्यैश्च दानैर्नियमसंयमैः
अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा ॥ ६४ ॥
मूलम्
सत्येन धर्मपुण्यैश्च दानैर्नियमसंयमैः
अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा ॥ ६४ ॥
विश्वास-प्रस्तुतिः
सुपुण्यैः सुकृतैश्चान्यैर्जरा नैव प्रधार्यते
पातकैश्च महाराज द्रवते कायमेव सा ॥ ६५ ॥
मूलम्
सुपुण्यैः सुकृतैश्चान्यैर्जरा नैव प्रधार्यते
पातकैश्च महाराज द्रवते कायमेव सा ॥ ६५ ॥
विश्वास-प्रस्तुतिः
ययातिरुवाच-
कस्माज्जरा समुत्पन्ना कस्मात्कायं प्रपीडयेत्
मम विस्तरतस्त्वं च वक्तुमर्हसि सत्तम ॥ ६६ ॥
मूलम्
ययातिरुवाच-
कस्माज्जरा समुत्पन्ना कस्मात्कायं प्रपीडयेत्
मम विस्तरतस्त्वं च वक्तुमर्हसि सत्तम ॥ ६६ ॥
विश्वास-प्रस्तुतिः
मातलिरुवाच-
हन्त ते वर्णयिष्यामि जरायाः परिकारणम्
यस्माच्चेयं समुद्भूता कायमध्ये नृपोत्तम ॥ ६७ ॥
मूलम्
मातलिरुवाच-
हन्त ते वर्णयिष्यामि जरायाः परिकारणम्
यस्माच्चेयं समुद्भूता कायमध्ये नृपोत्तम ॥ ६७ ॥
विश्वास-प्रस्तुतिः
पञ्चभूतात्मकः कायो विषयैः पञ्चभिः श्रितः
यदात्मा त्यजते राजन्स कायः परिधक्ष्यते ॥ ६८ ॥
मूलम्
पञ्चभूतात्मकः कायो विषयैः पञ्चभिः श्रितः
यदात्मा त्यजते राजन्स कायः परिधक्ष्यते ॥ ६८ ॥
विश्वास-प्रस्तुतिः
वह्निना दीप्यमानस्तु सरसो ज्वलते नृप
तस्माद्विजायते धूमो धूमान्मेघाश्च जज्ञिरे ॥ ६९ ॥
मूलम्
वह्निना दीप्यमानस्तु सरसो ज्वलते नृप
तस्माद्विजायते धूमो धूमान्मेघाश्च जज्ञिरे ॥ ६९ ॥
विश्वास-प्रस्तुतिः
मेघादापः प्रवर्तन्ते अद्भ्यः पृथ्वी प्रकल्पते
जलमायाति साध्वी सा यथा नारी रजस्वला ॥ ७० ॥
मूलम्
मेघादापः प्रवर्तन्ते अद्भ्यः पृथ्वी प्रकल्पते
जलमायाति साध्वी सा यथा नारी रजस्वला ॥ ७० ॥
विश्वास-प्रस्तुतिः
तस्मात्प्रजायते गन्धो गन्धाद्रसो नृपोत्तम
रसात्प्रभवते चान्नमन्नाच्छुक्रं न संशयः ॥ ७१ ॥
मूलम्
तस्मात्प्रजायते गन्धो गन्धाद्रसो नृपोत्तम
रसात्प्रभवते चान्नमन्नाच्छुक्रं न संशयः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
शुक्राद्धि जायते कायः कुरूपः काय एव च
यथा पृथ्वी सृजेद्गन्धान्रसैश्चरति भूतले ॥ ७२ ॥
मूलम्
शुक्राद्धि जायते कायः कुरूपः काय एव च
यथा पृथ्वी सृजेद्गन्धान्रसैश्चरति भूतले ॥ ७२ ॥
विश्वास-प्रस्तुतिः
तथा कायश्चरेन्नित्यं रसाधारो हि सर्वशः
गन्धश्च जायते तस्माद्गन्धाद्रसो भवेत्पुनः ॥ ७३ ॥
मूलम्
तथा कायश्चरेन्नित्यं रसाधारो हि सर्वशः
गन्धश्च जायते तस्माद्गन्धाद्रसो भवेत्पुनः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
तस्माज्जज्ञे महावह्निर्दृष्टान्तं पश्य भूपते
यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत् ॥ ७४ ॥
मूलम्
तस्माज्जज्ञे महावह्निर्दृष्टान्तं पश्य भूपते
यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
कायमध्ये रसादग्निस्तद्वदेव प्रजायते
तत्र सञ्चरते नित्यं कायं पुष्णाति भूपते ॥ ७५ ॥
मूलम्
कायमध्ये रसादग्निस्तद्वदेव प्रजायते
तत्र सञ्चरते नित्यं कायं पुष्णाति भूपते ॥ ७५ ॥
विश्वास-प्रस्तुतिः
यावद्रसस्य चाधिक्यं तावज्जीवः प्रशान्तिमान्
चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते ॥ ७६ ॥
मूलम्
यावद्रसस्य चाधिक्यं तावज्जीवः प्रशान्तिमान्
चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते ॥ ७६ ॥
विश्वास-प्रस्तुतिः
अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम्
प्रदानं लभते चान्नमुदकं चापि भूपते ॥ ७७ ॥
मूलम्
अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम्
प्रदानं लभते चान्नमुदकं चापि भूपते ॥ ७७ ॥
विश्वास-प्रस्तुतिः
शोणितं चरते वह्निस्तद्वद्वीर्यं न संशयः
यक्ष्मरोगो भवेत्तस्मात्सर्वकायप्रणाशकः ॥ ७८ ॥
मूलम्
शोणितं चरते वह्निस्तद्वद्वीर्यं न संशयः
यक्ष्मरोगो भवेत्तस्मात्सर्वकायप्रणाशकः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति
रसेन पीड्यमानस्तु ज्वररूपोभिजायते ॥ ७९ ॥
मूलम्
रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति
रसेन पीड्यमानस्तु ज्वररूपोभिजायते ॥ ७९ ॥
विश्वास-प्रस्तुतिः
ग्रीवा पृष्ठं कटिं पायुं सर्वास्वेव तु सन्धिषु
आरुध्य तिष्ठते वह्निः काये वह्निः प्रवर्तते ॥ ८० ॥
मूलम्
ग्रीवा पृष्ठं कटिं पायुं सर्वास्वेव तु सन्धिषु
आरुध्य तिष्ठते वह्निः काये वह्निः प्रवर्तते ॥ ८० ॥
विश्वास-प्रस्तुतिः
तस्याऽधिक्यं चरेन्नित्यं कायं पुष्णाति सर्वतः
रसस्तु बन्धमायाति बलरूपो भवेत्तदा ॥ ८१ ॥
मूलम्
तस्याऽधिक्यं चरेन्नित्यं कायं पुष्णाति सर्वतः
रसस्तु बन्धमायाति बलरूपो भवेत्तदा ॥ ८१ ॥
विश्वास-प्रस्तुतिः
अतिरिक्तो बलेनैव वीर्यान्मर्माणि चालयेत्
तेनैव जायते कामः शल्यरूपो भवेन्नृप ॥ ८२ ॥
मूलम्
अतिरिक्तो बलेनैव वीर्यान्मर्माणि चालयेत्
तेनैव जायते कामः शल्यरूपो भवेन्नृप ॥ ८२ ॥
विश्वास-प्रस्तुतिः
सकामाग्निः समाख्यातो बलनाशकरो नृप
मैथुनस्य प्रसङ्गेन विनाशत्वं कलेवरे ॥ ८३ ॥
मूलम्
सकामाग्निः समाख्यातो बलनाशकरो नृप
मैथुनस्य प्रसङ्गेन विनाशत्वं कलेवरे ॥ ८३ ॥
विश्वास-प्रस्तुतिः
नारीं च संश्रयेत्प्राणी पीडितः कामवह्निना
मैथुनस्य प्रसङ्गेन मूर्छितः कामकर्शितः ॥ ८४ ॥
मूलम्
नारीं च संश्रयेत्प्राणी पीडितः कामवह्निना
मैथुनस्य प्रसङ्गेन मूर्छितः कामकर्शितः ॥ ८४ ॥
विश्वास-प्रस्तुतिः
तेजोहीनो भवेत्कायो बलहानिश्च जायते
बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः ॥ ८५ ॥
मूलम्
तेजोहीनो भवेत्कायो बलहानिश्च जायते
बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
स वह्निः प्रचरेत्काये शोणितं शुक्रमेव च
शुक्रशोणितयोर्नाशाच्छून्यदेहोभिजायते ॥ ८६ ॥
मूलम्
स वह्निः प्रचरेत्काये शोणितं शुक्रमेव च
शुक्रशोणितयोर्नाशाच्छून्यदेहोभिजायते ॥ ८६ ॥
विश्वास-प्रस्तुतिः
अतीव जायते वायुः प्रचण्डो दारुणाकृतिः
विवर्णो दुःखसन्तप्तः शून्यबुद्धिस्ततो भवेत् ॥ ८७ ॥
मूलम्
अतीव जायते वायुः प्रचण्डो दारुणाकृतिः
विवर्णो दुःखसन्तप्तः शून्यबुद्धिस्ततो भवेत् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
दृष्टा श्रुता तु या नारी तच्चित्तो भ्रमते सदा
तृप्तिर्न जायते काये लोलुपे चित्तवर्त्मनि ॥ ८८ ॥
मूलम्
दृष्टा श्रुता तु या नारी तच्चित्तो भ्रमते सदा
तृप्तिर्न जायते काये लोलुपे चित्तवर्त्मनि ॥ ८८ ॥
विश्वास-प्रस्तुतिः
विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते
बलहीनो यदा कामी मांसशोणितसङ्क्षयात् ॥ ८९ ॥
मूलम्
विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते
बलहीनो यदा कामी मांसशोणितसङ्क्षयात् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
पलितं जायते काये नाशिते कामवह्निना
तस्मात्सञ्जायते कामी वृद्धो भूत्वा दिनेदिने ॥ ९० ॥
मूलम्
पलितं जायते काये नाशिते कामवह्निना
तस्मात्सञ्जायते कामी वृद्धो भूत्वा दिनेदिने ॥ ९० ॥
विश्वास-प्रस्तुतिः
सुरते चिन्तते नारीं यथा वार्द्धुषिको नरः
तथातथा भवेद्धानिस्तेजसोऽस्य नरेश्वर ॥ ९१ ॥
मूलम्
सुरते चिन्तते नारीं यथा वार्द्धुषिको नरः
तथातथा भवेद्धानिस्तेजसोऽस्य नरेश्वर ॥ ९१ ॥
विश्वास-प्रस्तुतिः
तस्मात्प्रजायते कायो नाशरूपं समृच्छति
अग्निः प्रजायते भूयो जरारूपो न संशयः ॥ ९२ ॥
मूलम्
तस्मात्प्रजायते कायो नाशरूपं समृच्छति
अग्निः प्रजायते भूयो जरारूपो न संशयः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
प्राणिनां क्षयरूपेण ज्वरो भवति दारुणः
स्थावरा जङ्गमाः सर्वे ज्वरेण परिपीडिताः ॥ ९३ ॥
मूलम्
प्राणिनां क्षयरूपेण ज्वरो भवति दारुणः
स्थावरा जङ्गमाः सर्वे ज्वरेण परिपीडिताः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
नाशमायान्ति ते सर्वे बहुपीडा प्रपीडिताः
एतत्ते सर्वमाख्यातमन्यत्किं ते वदाम्यहम् ॥ ९४ ॥
मूलम्
नाशमायान्ति ते सर्वे बहुपीडा प्रपीडिताः
एतत्ते सर्वमाख्यातमन्यत्किं ते वदाम्यहम् ॥ ९४ ॥
एवमुक्तो महाराजो मातलिं वाक्यमब्रवीत् ९५