सुकर्मोवाच-
विश्वास-प्रस्तुतिः
तयोश्चापि द्विजश्रेष्ठ मातापित्रोश्च स्नातयोः
पुत्रस्यापि हि सर्वाङ्गे पतन्त्यम्बुकणा यदा ॥ १ ॥
मूलम्

सर्वतीर्थसमं स्नानं पुत्रस्यापि सुजायते
पतितं विकलं वृद्धमशक्तं सर्वकर्मसु ॥ २ ॥

व्याधितं कुष्ठिनं तातं मातरं च तथाविधाम्
उपाचरति यः पुत्रस्तस्य पुण्यं वदाम्यहम् ॥ ३ ॥

विष्णुस्तस्य प्रसन्नात्मा जायते नात्र संशयः
प्रयाति वैष्णवं लोकं यदप्राप्यं हि योगिभिः ॥ ४ ॥

पितरौ विकलौ दीनौ वृद्धावेतौ गुरू सुतः
महागदेन सम्प्राप्तौ परित्यजति पापधीः ॥ ५ ॥

पुत्रो नरकमाप्नोति दारुणं कृमिसङ्कुलम्
वृद्धाभ्यां च समाहूतो गुरूभ्यामिह साम्प्रतम् ॥ ६ ॥

न प्रयाति सुतो भूत्वा तस्य पापं वदाम्यहम्
विष्ठाशी जायते मूढो ग्रामघ्रोणी न संशयः ॥ ७ ॥

यावज्जन्मसहस्रं तु पुनः श्वा चाभिजायते
पुत्रगेहेस्थितौ वृद्धौ माता च जनकस्तथा ॥ ८ ॥

अभोजयित्वा तावन्नं स्वयमत्ति च यः सुतः
मूत्रं विष्ठां स भुञ्जीत यावज्जन्मसहस्रकम् ॥ ९ ॥

कृष्णसर्पो भवेत्पापी यावज्जन्मशतद्वयम्
मातरम्पितरं वृद्धमवज्ञाय प्रवर्त्तते ॥ १० ॥

ग्राहोपि जायते दुष्टो जन्मकोटिशतैरपि
तावेतौ कुत्सते पुत्रः कटुकैर्वचनैरपि ॥ ११ ॥

स च पापी भवेद्व्याघ्रः पश्चादृक्षः प्रजायते
मातरम्पितरं पुत्रो यो न मन्येत दुष्टधीः ॥ १२ ॥

कुम्भीपाके वसेत्तावद्यावद्युगसहस्रकम्
नास्ति मातृसमं तीर्थं पुत्राणां च पितुः समम् ॥ १३ ॥

तारणाय हितायैव इहैव च परत्र च
तस्मादहं महाप्राज्ञ पितृदेवं प्रपूजये ॥ १४ ॥

मातृदेवं सर्वदेव योगयोगी तथाभवम्
मातृपितृप्रसादेन सञ्जातं ज्ञानमुत्तमम् ॥ १५ ॥

त्रिलोकीयं समस्ता तु संयाता मम वश्यताम्
अर्वाचीनगतिं जाने देवस्यास्य महात्मनः ॥ १६ ॥

वासुदेवस्य तस्यैव पराचीनां महामते
सर्वं ज्ञानं समुद्भूतं पितृमातृप्रसादतः ॥ १७ ॥

को न पूजयते विद्वान्पितरं मातरं तथा
साङ्गोपाङ्गैरधीतैस्तैः श्रुतिशास्त्रसमन्वितैः ॥ १८ ॥

वेदैरपि च किं विप्रा पिता येन न पूजितः
माता न पूजिता येन तस्य वेदा निरर्थकाः ॥ १९ ॥

यज्ञैश्च तपसा विप्र किं दानैः किं च पूजनैः
प्रयाति तस्य वैफल्यं न माता येन पूजिता ॥ २० ॥

न पिता पूजितो येन जीवमानो गृहे स्थितः
एष पुत्रस्य वै धर्मस्तथा तीर्थं नरेष्विह ॥ २१ ॥

एष पुत्रस्य वै मोक्षस्तथा जन्मफलं शुभम्
एष पुत्रस्य वै यज्ञो दानमेव न संशयः ॥ २२ ॥

पितरं पूजयेन्नित्यं भक्त्या भावेन तत्परः
तस्य जातं समस्तं तद्यदुक्तं पूर्वमेव हि ॥ २३ ॥

दानस्यापि फलं तेन तीर्थस्यापि न संशयः
यज्ञस्यापि फलं प्राप्तं माता येनाप्युपासिता ॥ २४ ॥

पिता येन सुभक्त्या च नित्यमेवाप्युपासितः
तस्य सर्वा सुसंसिद्धा यज्ञाद्याः पुण्यदाः क्रियाः ॥ २५ ॥

एतदर्थं समाज्ञातं धर्मशास्त्रं श्रुतं मया
पितृभक्तिपरो नित्यं भवेत्पुत्रो हि पिप्पल ॥ २६ ॥

तुष्टे पितरि सम्प्राप्तं यदुराज्ञा पुरा सुखम्
रुष्टे पितरि च प्राप्तं महत्पापं पुरा शृणु ॥ २७ ॥

रुरुणा पौरवेणापि पित्रा शप्तेन भूतले
एवं ज्ञानं मया चाप्तं द्वावेतौ यदुपासितौ ॥ २८ ॥

एतयोश्च प्रसादेन प्राप्तं फलमनुत्तमम् ॥ २९ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थ-माहात्म्ये त्रिषष्टितमोऽध्यायः ६३