विष्णुरुवाच-
विश्वास-प्रस्तुतिः
कुण्डलस्याश्रमं गत्वा सत्यधर्म समाकुलम्
सुकर्माणं ततो दृष्ट्वा पितृमातृपरायणम् ॥ १ ॥
मूलम्

शुश्रूषन्तं महात्मानं गुरूसत्यपराक्रमम्
महारूपं महातेजं महाज्ञानसमाकुलम् ॥ २ ॥
मूलम्
शुश्रूषन्तं महात्मानं गुरूसत्यपराक्रमम्
महारूपं महातेजं महाज्ञानसमाकुलम् ॥ २ ॥
विश्वास-प्रस्तुतिः
मातापित्रोः पदान्ते तमुपविष्टं ददर्श सः
महाभक्त्यान्वितं शान्तं सर्वज्ञानमहानिधिम् ॥ ३ ॥

कुण्डलस्यापि पुत्रेण सुकर्मणा महात्मना
आगतं पिप्पलं दृष्ट्वा द्वारदेशे महामतिम् ॥ ४ ॥

आसनात्तूर्णमुत्थाय अभ्युत्थानं कृतं पुनः
आगच्छ त्वं महाभाग विद्याधर महामते ॥ ५ ॥

आसनं पाद्यमर्घं च ददौ तस्मै महामतिः
निर्विघ्नोऽसि महाप्राज्ञ कुशलेन प्रवर्त्तसे ॥ ६ ॥

निरामयं च पप्रच्छ पिप्पलं तं समागतम्
यस्मादागमनं तेद्य तत्सर्वं प्रवदाम्यहम् ॥ ७ ॥

वर्षाणां च सहस्राणि त्रीणि यावत्त्वया तपः
तप्तमेव महाभाग सुरेभ्यः प्राप्तवान्वरम् ॥ ८ ॥

वश्यत्वं च त्वया प्राप्तं कामचारस्तथैव च
तेन मत्तो न जानासि गर्वमुद्वहसे वृथा ॥ ९ ॥

दृष्ट्वा ते चेष्टितं सर्वं सारसेन महात्मना
ममाभिधानं कथितं मम ज्ञानमनुत्तमम् ॥ १० ॥

पिप्पल उवाच-
योसौ मां सारसो विप्र सरित्तीरे प्रयुक्तवान्
सर्वं ज्ञानं वदेन्मां हि स तु कः प्रभुरीश्वरः ॥ ११ ॥

सुकर्मोवाच-
भवन्तमुक्तवान्यो वै सरित्तीरे तु सारसः
ब्रह्माणं त्वं महाज्ञानं तं विद्धि परमेश्वरम् ॥ १२ ॥

अन्यत्किं पृच्छसे ब्रूहि तमेवं प्रवदाम्यहम्
विष्णुरुवाच-
एवमुक्तः स धर्मात्मा सुकर्मा नृपनन्दन ॥ १३ ॥

त्वयि वश्यं जगत्सर्वमिति शुश्रुम भूतले
तन्मे त्वं कौतुकं विप्र दर्शयस्व प्रयत्नतः ॥ १४ ॥

पश्य कौतुकमेवाद्य त्वं वश्यावश्यकारणम्
तमुवाच स धर्मात्मा सुकर्मा पिप्पलं प्रति ॥ १५ ॥

अथ सस्मार वै देवान्सुकर्मा प्रत्ययाय वै
इन्द्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः ॥ १६ ॥

समागताः समाहूता नाना विद्याधरास्तथा
सुकर्माणं ततः प्रोचुर्देवाश्चाग्निपुरोगमाः ॥ १७ ॥

कस्मात्स्मृतास्त्वया विप्र ततोर्थकारणं वद
सुकर्मोवाच-
अयमेष सुसम्प्राप्तो विद्याधरो हि पिप्पलः ॥ १८ ॥

मामेवं भाषते विप्र वश्यावश्यत्वकारणम्
प्रत्ययार्थं समाहूता अस्यैव च महात्मनः ॥ १९ ॥

स्वंस्वं स्थानं प्रगच्छध्वमित्युवाच सुरान्प्रति
तमूचुस्ते ततो देवाः सुकर्माणं महामतिम् ॥ २० ॥

अस्माकं दर्शनं व्रिप्र न मोघं जायते वरम्
वरं वरय भद्रं ते मनसा यद्धिरोचते ॥ २१ ॥

तत्ते दद्मो न सन्देहस्त्वेवमूचुः सुरोत्तमाः
भक्त्या प्रणम्य तान्देवान्ययाचे स द्विजोत्तमः ॥ २२ ॥

अचलां दत्त देवेन्द्रा सुःभक्तिं भावसंयुताम्
मातापित्रोश्च मे नित्यं तद्वै वरमनुत्तमम् ॥ २३ ॥

पिता मे वैष्णवं लोकं प्रयात्वेतद्वरोत्तमम्
तद्वन्माता च देवेशा वरमन्यं न याचये ॥ २४ ॥

देवा ऊचुः-
पितृभक्तोसि विप्रेन्द्र भक्त्या तव वयं द्विज
सुकर्मञ्छ्रूयतां वाक्यं प्रीत्या युक्ता सदैव ते ॥ २५ ॥

एवमुक्त्वा गता देवाः स्वर्लोकं नृपनन्दन
सर्वमैश्वर्यमेतेन तस्याग्रे परिदर्शितम् ॥ २६ ॥

दृष्टं तु पिप्पलेनापि कौतुकं च महाद्भुतम्
तमुवाच स धर्मात्मा पिप्पलं कुण्डलात्मजम् ॥ २७ ॥

अर्वाचीनं त्विदं रूपं पराचीनं च कीदृशम्
प्रभावमुभयोश्चैव वदस्व वदतां वर ॥ २८ ॥
मूलम्
अर्वाचीनं त्विदं रूपं पराचीनं च कीदृशम्
प्रभावमुभयोश्चैव वदस्व वदतां वर ॥ २८ ॥
विश्वास-प्रस्तुतिः
सुकर्मोवाच-
पराचीनस्य रूपस्य लिङ्गमेव वदामि ते
येनलोकाः प्रमोदन्ते इन्द्राद्याः सचराचराः ॥ २९ ॥

अयमेव जगन्नाथः सर्वगो व्यापकः प्रभुः
अस्य रूपं न दृष्टं हि केनाप्येव हि योगिना ॥ ३० ॥

श्रुतिरेव वदत्येवं तं वक्तुं शङ्कितेव सा
अपाणिपादनासश्च अकर्णो मुखवर्जितः ॥ ३१ ॥

सर्वं पश्यति वै कर्म कृतं त्रैलोक्यवासिनाम्
तेषामुक्तमकर्णश्च स शृणोति सुसाक्ष्यदः ॥ ३२ ॥

गतिहीनो व्रजेत्सोपि स हि सर्वत्र दृश्यते
पाणिहीनोपि गृह्णाति पादहीनः प्रधावति ॥ ३३ ॥

सर्वत्र दृश्यते विप्र व्यापकः पादवर्जितः
यं न पश्यन्ति देवेन्द्रा मुनयस्तत्त्वदर्शिनः ॥ ३४ ॥

स च पश्यति तान्सर्वान्सत्यासत्यपदे स्थितान्
व्यापकं विमलं सिद्धं सिद्धिदं सर्वनायकम् ॥ ३५ ॥

यं जानाति महायोगी व्यासो धर्मार्थकोविदः
तेजोमूर्तिः स चाकाशमेकवर्णमनन्तकम् ॥ ३६ ॥

तदेतन्निर्मलं रूपं श्रुतिराख्याति निश्चितम्
व्यासश्चैव हि जानाति मार्कण्डेयश्च तत्पदम् ॥ ३७ ॥

अर्वाचीनं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः
यदा संहृत्य भूतात्मा स्वयमेकः प्रगच्छति ॥ ३८ ॥

अप्सु शय्यां समास्थाय शेषभोगासनस्थितः
तमाश्रित्य स्वपित्येको बहुकालं जनार्दनः ॥ ३९ ॥

जलान्धकारसन्तप्तो मार्कण्डेयो महामुनिः
स्थानमिच्छन्स योगात्मा निर्विण्णो भ्रमणेन सः ॥ ४० ॥

भ्रममाणः स ददृशे शेषपर्यङ्कशायिनम्
सूर्यकोटिप्रतीकाशं दिव्याभरणभूषितम् ॥ ४१ ॥

दिव्यमाल्याम्बरधरं सर्वव्यापिनमीश्वरम्
योगनिद्रा गतं कान्तं शङ्खचक्रगदाधरम् ॥ ४२ ॥

एका नारी महाभागा कृष्णाञ्जनचयोपमा
दंष्ट्राकरालवदना भीमरूपा द्विजोत्तम ॥ ४३ ॥

तयोक्तोसौ मुनिश्रेष्ठो मा भैरिति महामुनिः
पद्मपत्रं सुविस्तीर्णं पञ्चयोजनमायतम् ॥ ४४ ॥

तस्मिन्पत्रे महादेव्या मार्कण्डेयो निवेशितः
केशवे सति सुप्तेपि नास्त्यत्र च भयं तव ॥ ४५ ॥

तामुवाच स योगीन्द्र का त्वं भवसि भामिनि
अस्मिन्विनिर्जिते चैका भवती परिबृंहिता ॥ ४६ ॥

पृष्टैवं मुनिना देवी सादरं प्राह भूसुर
नागभोगाङ्कपर्यङ्के स यः स्वपिति केशवः ॥ ४७ ॥

अस्याहं वैष्णवी शक्तिः कालरात्रिरिहोच्यते
मामेवं विद्धि विप्रेन्द्र सर्वमायासमन्विताम् ॥ ४८ ॥

महामाया पुराणेषु जगन्मोहाय कथ्यते
इत्युक्त्वा सा गता देवी अन्तर्धानं हि पिप्पलः ॥ ४९ ॥

देव्यामनुगतायां तु मार्कण्डेयस्य पश्यतः
तस्य नाभ्यां समुत्पन्नं पङ्कजं हाटकप्रभम् ॥ ५० ॥

तस्माज्जज्ञे महातेजा ब्रह्मा लोकपितामहः
तस्माद्विजज्ञिरे लोकाः सर्वे स्थावरजङ्गमाः ॥ ५१ ॥

इन्द्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः
अर्वाचीनं स्वरूपं तु दर्शितं हि मया नृप ॥ ५२ ॥

अर्वाचीनस्वरूपोयं पराचीनो निराश्रयः
यदा स दर्शयेत्कायं कायरूपा भवन्ति ते ॥ ५३ ॥

ब्रह्माद्याः सर्वलोकाश्च अर्वाचीना हि पिप्पल
अर्वाचीना अमी लोका ये भवन्ति जगत्त्रये ॥ ५४ ॥

पराचीनः स भूतात्मा यं सुपश्यन्ति योगिनः
मोक्षरूपं परं स्थानं परब्रह्मस्वरूपकम् ॥ ५५ ॥

अव्यक्तमक्षरं हंसं शुद्धं सिद्धिसमन्वितम्
पराचीनस्य यद्रूपं विद्याधर तवाग्रतः ॥ ५६ ॥

सर्वमेव मया ख्यातमन्यत्किं ते वदाम्यहम्
पिप्पल उवाच-
कस्मादेतन्महाज्ञानमुद्भूतं तव सुव्रत ॥ ५७ ॥

अर्वाचीनगतिं विद्वान्पराचीनगतिं तथा
त्रैलोक्यस्य परं ज्ञानं त्वय्येवं परिवर्तते ॥ ५८ ॥

तपसो नैव पश्यामि परां निष्ठां हि सुव्रत
यजनंयाजनन्तीर्थन्तपोवाकृतवानसि ॥ ५९ ॥
मूलम्
तपसो नैव पश्यामि परां निष्ठां हि सुव्रत
यजनंयाजनन्तीर्थन्तपोवाकृतवानसि ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तत्प्रभावं वदस्वैवं केन ज्ञानं तवाखिलम्
सुकर्मोवाच-
तप एव न जानामि न कृतं कायशोषणम् ॥ ६० ॥
मूलम्
तत्प्रभावं वदस्वैवं केन ज्ञानं तवाखिलम्
सुकर्मोवाच-
तप एव न जानामि न कृतं कायशोषणम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
यजनं याजनं वापि न जाने तीर्थसाधनम्
न मया साधितं ध्यानं पुण्यकालं सुकर्मजम् ॥ ६१ ॥

स्फुटमेकं प्रजानामि पितृमातृप्रपूजनम्
उभयोरपि हस्तेन मातापित्रोस्तु नित्यशः ॥ ६२ ॥

पादप्रक्षालनं पुण्यं स्वयमेव करोम्यहम्
अङ्गसंवाहनं स्नानं भोजनादिकमेव च ॥ ६३ ॥
मूलम्
पादप्रक्षालनं पुण्यं स्वयमेव करोम्यहम्
अङ्गसंवाहनं स्नानं भोजनादिकमेव च ॥ ६३ ॥
विश्वास-प्रस्तुतिः
त्रिकालेध्यानसंलीनः साधयामि दिनेदिने
पादोदकं तयोश्चैव मातापित्रोर्दिनेदिने ॥ ६४ ॥

भक्तिभावेन विन्दामि पूजयामि सुभावतः
गुरू मे जीवमानौ तु यावत्कालं हि पिप्पल ॥ ६५ ॥

तावत्कालं हि मे लाभो ह्यतुलश्च प्रजायते
त्रिकालं पूजयाम्येतौ शुद्धभावेन चेतसा ॥ ६६ ॥

स्वच्छन्दलीलासञ्चारी वर्ताम्येव हि पिप्पल
किं मे चान्येन तपसा किं मे कायस्य शोषणैः ॥ ६७ ॥

किं मे सुतीर्थयात्राभिरन्यैः पुण्यैश्च साम्प्रतम्
मखानामेव सर्वेषां यत्फलं प्राप्यते द्विज ॥ ६८ ॥

तत्फलं तु मया दृष्टं पितुः शुश्रूषणादपि
मातुः शुश्रूषणं तद्वत्पुत्राणां गतिदायकम् ॥ ६९ ॥

सर्वकर्मसुसर्वस्वं सारभूतं जगत्रये
पुत्रस्य जायते लोको मातुः शुश्रूषणादपि ॥ ७० ॥

पितुः शुश्रूषणे तद्वन्महत्पुण्यं प्रजायते
तत्र गङ्गा गयातीर्थं तत्र पुष्करमेव च ॥ ७१ ॥

यत्र मातापिता तिष्ठेत्पुत्रस्यापि न संशयः
अन्यानि तत्र तीर्थानि पुण्यानि विविधानि च ॥ ७२ ॥

भवन्त्येतानि पुत्रस्य पितुः शुश्रूषणादपि
पितुः शुश्रूषणात्तस्य दानस्य तपसः फलम् ॥ ७३ ॥

सत्पुत्रस्य भवेद्विप्र अन्य धर्मः श्रमायते
पितुः शुश्रूषणात्पुण्यं पुत्रः प्राप्नोत्यनुत्तमम् ॥ ७४ ॥

स्वकर्मणस्तु सर्वस्वमिहैव च परत्र च
जीवमानौ गुरूत्वेतौ स्वमातापितरौ तथा ॥ ७५ ॥

शुश्रूषते सुतो भूत्वा तस्य पुण्यफलं शृणु
देवास्तस्यापि तुष्यन्ति ऋषयः पुण्यवत्सलाः ॥ ७६ ॥

त्रयोलोकास्तु तुष्यन्ति पितुः शुश्रूषणादिह
मातापित्रोस्तु यः पादौ नित्यमेव हि क्षालयेत् ॥ ७७ ॥

तस्य भागीरथीस्नानमहन्यहनि जायते
पुण्यैर्मिष्टान्नपानैर्यः पितरं मातरं तथा ॥ ७८ ॥

भक्त्या भोजयते नित्यं तस्य पुण्यं वदाम्यहम्
अश्वमेधस्य यज्ञस्य फलं पुत्रस्य जायते ॥ ७९ ॥

ताम्बूलैश्छादनैश्चैव पानैश्चाशनकैस्तथा
भक्त्या चान्नेन पुण्येन गुरू येनाभिपूजितौ ॥ ८० ॥

सर्वज्ञानी भवेत्सोपि यशःकीर्तिमवाप्नुयात्
मातरं पितरं दृष्ट्वा हर्षात्सम्भाषयेत्सुतः ॥ ८१ ॥

निधयस्तस्य सन्तुष्टास्तस्य गेहे वसन्ति ते
गावः सौहृद्यमायान्ति पुत्रस्य सुखदाः सदा ॥ ८२ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातृपितृतीर्थ-
माहात्म्ये द्विषष्टितमोऽध्यायः ६२