वेन उवाच-
विश्वास-प्रस्तुतिः
भार्यातीर्थं समाख्यातं सर्वतीर्थोत्तमोत्तमम्
पितृतीर्थं समाख्याहि पुत्राणां तारणं परम् ॥ १ ॥
मूलम्

विष्णुरुवाच-
कुरुक्षेत्रे महाक्षेत्रे कुण्डलो नाम ब्राह्मणः
सुकर्मा नाम सत्पुत्रः कुण्डलस्य महात्मनः ॥ २ ॥

गुरू तस्य महावृद्धौ धर्मज्ञौ शास्त्रकोविदौ
द्वावेतौ तु महात्मानौ जरया परिपीडितौ ॥ ३ ॥

तयोः शुश्रूषणं चक्रे भक्त्या च परया ततः
धर्मज्ञो भावसंयुक्तो अहर्निशमनारतम् ॥ ४ ॥

तस्माद्वेदानधीते स पितुः शास्त्राण्यनेकशः
सर्वाचारपरो दक्षो धर्मज्ञो ज्ञानवत्सलः ॥ ५ ॥

अङ्गसंवाहनं चक्रे गुर्वोश्च स्वयमेव सः
पादप्रक्षालनं चैव स्नानभोजनकीं क्रियाम् ॥ ६ ॥

भक्त्या चैव स्वभावेन तद्ध्याने तन्मयो भवेत्
मातापित्रोश्च राजेन्द्र उपचर्यां प्रकारयेत् ॥ ७ ॥

सूत उवाच-
तद्वर्तमानकाले तु बभूव नृपसत्तम
पिप्पलो नाम वै विप्रः कश्यपस्य महात्मनः ॥ ८ ॥

तपस्तेपे निराहारो जितात्मा जितमत्सरः
दयादानदमोपेतः कामं क्रोधं विजित्य सः ॥ ९ ॥

दशारण्यगतो धीमाञ्ज्ञानशान्तिपरायणः
सर्वेन्द्रियाणि संयम्य तपस्तेपे महामनाः ॥ १० ॥

तपःप्रभावतस्तस्य जन्तवो गतविग्रहाः
वसन्ति सुयुगे तत्र एकोदरगता इव ॥ ११ ॥
मूलम्
तपःप्रभावतस्तस्य जन्तवो गतविग्रहाः
वसन्ति सुयुगे तत्र एकोदरगता इव ॥ ११ ॥
विश्वास-प्रस्तुतिः
तत्तपस्तस्य मुनयो दृष्ट्वा विस्मयमाययुः
नेदृशं केनचित्तप्तं यथासौ तप्यते मुनिः ॥ १२ ॥

देवाश्च इन्द्रप्रमुखाः परं विस्मयमाययुः
अहो अस्य तपस्तीव्रं शमश्चेन्द्रियसंयमः ॥ १३ ॥

निर्विकारो निरुद्वेगः कामक्रोधविवर्जितः
शीतवातातपसहो धराधर इवस्थितः ॥ १४ ॥
मूलम्
निर्विकारो निरुद्वेगः कामक्रोधविवर्जितः
शीतवातातपसहो धराधर इवस्थितः ॥ १४ ॥
विश्वास-प्रस्तुतिः
विषये विमुखो धीरो मनसोतीतसङ्ग्रहम्
न शृणोति यथा शब्दं कस्यचिद्द्विजसत्तमः ॥ १५ ॥

संस्थानं तादृशं गत्वा स्थित्वा एकाग्रमानसः
ब्रह्मध्यानमयो भूत्वा सानन्दमुखपङ्कजः ॥ १६ ॥

अश्मकाष्ठमयो भूत्वा निश्चेष्टो गिरिवत्स्थितः
स्थाणुवद्दृश्यते चासौ सुस्थिरो धर्मवत्सलः ॥ १७ ॥

तपःक्लिष्टशरीरोति श्रद्धावाननसूयकः
एवं वर्षसहस्रैकं सञ्जातं तस्य धीमतः ॥ १८ ॥

पिपीलिकाभिर्बह्वीभिः कृतं मृद्भारसञ्चयम्
तस्योपरि महाकायं वल्मीकं निजमन्दिरम् ॥ १९ ॥

वल्मीकोदरमध्यस्थो जडीभूत इवस्थितः
स एवं पिप्पलो विप्रस्तपते सुमहत्तपः ॥ २० ॥

कृष्णसर्पैस्तु सर्वत्र वेष्टितो द्विजसत्तमः
तमुग्रतेजसं विप्रं प्रदशन्ति विषोल्बणाः ॥ २१ ॥

सम्प्राप्य गात्रमर्माणि विषं तस्य न भेदयेत्
तेजसा तस्य विप्रस्य नागाः शान्तिमथागमन् ॥ २२ ॥

तस्य कायात्समुद्भूता अर्चिषो दीप्ततेजसः
नानारूपाः सुबहुशो दृश्यन्ते च पृथक्पृथक् ॥ २३ ॥

यथा वह्नेः खरतरास्तथाविधा नरोत्तम
यथामेघोदरे सूर्यः प्रविष्टो भाति रश्मिभिः ॥ २४ ॥

वल्मीकस्थस्तथाविप्रः पिप्पलो भाति तेजसा
सर्पा दशन्ति विप्रं तं सक्रोधा दशनैरपि ॥ २५ ॥

न भिन्दन्ति च दंष्ट्राग्राच्चर्म भित्त्वा नृपोत्तम
एवं वर्षसहस्रैकं तप आचरतस्ततः ॥ २६ ॥

गतं तु राजराजेन्द्र मुनेस्तस्य महात्मनः
त्रिकालं साध्यमानस्य शीतवर्षातपान्वितः ॥ २७ ॥

गतः कालो महाराज पिप्पलस्य महात्मनः
तद्वच्च वायुभक्षं तु कृतं तेन महात्मना ॥ २८ ॥

त्रीणि वर्षसहस्राणि गतानि तस्य तप्यतः
तस्य मूर्ध्नि ततो देवैः पुष्पवृष्टिः कृता पुरा ॥ २९ ॥

ब्रह्मज्ञोसि महाभाग धर्मज्ञोसि न संशयः
सर्वज्ञानमयोऽसि त्वं सञ्जातः स्वेनकर्मणा ॥ ३० ॥

यं यं त्वं वाञ्छसे कामं तं तं प्राप्स्यसि नान्यथा
सर्वकामप्रसिद्धस्त्वं स्वत एव भविष्यसि ॥ ३१ ॥

समाकर्ण्य महद्वाक्यं पिप्पलोपि महामनाः
प्रणम्य देवताः सर्वा भक्त्या नमितकन्धरः ॥ ३२ ॥

हर्षेण महताविष्टो वचनं प्रत्युवाच सः
इदं विश्वं जगत्सर्वं ममवश्यं यथा भवेत् ॥ ३३ ॥

तथा कुरुध्वं देवेन्द्रा विद्याधरो भवाम्यहम्
एवमुक्त्वा स मेधावी विरराम नृपोत्तम ॥ ३४ ॥

एवमस्त्विति ते प्रोचुर्द्विजश्रेष्ठं सुरास्तदा
दत्वा वरं महाभाग जग्मुस्तस्मै महात्मने ॥ ३५ ॥

गतेषु तेषु देवेषु पिप्पलो द्विजसत्तमः
ब्रह्मण्यं साधयेन्नित्यं विश्ववश्यं प्रचिन्तयेत् ॥ ३६ ॥

तदाप्रभृति राजेन्द्र पिप्पलो द्विजसत्तमः
विद्याधरपदं लब्ध्वा कामगामी महीयते ॥ ३७ ॥

एवं स पिप्पलो विप्रो विद्याधरपदं गतः
सञ्जातो देवलोकेशः सर्वशास्त्रविशारदः ॥ ३८ ॥

एकदा तु महातेजाः पिप्पलः पर्यचिन्तयत्
विश्ववश्यं भवेत्सर्वं मम दत्तो वरोत्तमः ॥ ३९ ॥

तदर्थं प्रत्ययं कर्तुमुद्यतो द्विजपुङ्गवः
यं यं चिन्तयते कर्तुं तं तं हि वशमानयेत् ॥ ४० ॥

एवं स प्रत्यये जाते मनसा पर्यकल्पयत्
द्वितीयो नास्ति वै लोके मत्समः पुरुषोत्तमः ॥ ४१ ॥

एवं हि कल्पमानस्य पिप्पलस्य महात्मनः
ज्ञात्वा मानसिकं भावं सारसस्तमुवाच ह ॥ ४२ ॥

सरस्तीरगतो राजन्सुस्वरं व्यञ्जनान्वितम्
स्वनं सौष्ठवसंयुक्तमुक्तवान्पिप्पलं प्रति ॥ ४३ ॥

कस्मादुद्वहसे गर्वमेवं त्वं परमात्मकम्
सर्ववश्यात्मिकीं सिद्धिं नाहं मन्ये तवैव हि ॥ ४४ ॥

वश्यावश्यमिदं कर्म अर्वाचीनं प्रशस्यते
पराचीनं न जानासि पिप्पल त्वं हि मूढधीः ॥ ४५ ॥

वर्षाणां तु सहस्राणि यावत्त्रीणि त्वया तपः
समाचीर्णं ततो गर्वं कुरुषे किं मुधा द्विज ॥ ४६ ॥

कुण्डलस्य सुतो धीरः सुकर्मानाम यः सुधीः
वश्यावश्यं जगत्सर्वं तस्यासीच्छृणु साम्प्रतम् ॥ ४७ ॥

अर्वाचीनं पराचीनं स वै जानाति बुद्धिमान्
लोके नास्ति महाज्ञानी तत्समः शृणु पिप्पल ॥ ४८ ॥

न कुण्डलस्य पुत्रेण सदृशस्त्वं सुकर्मणा
न दत्तं तेन वै दानं न ज्ञानं परिचिन्तितम् ॥ ४९ ॥

हुतयज्ञादिकं कर्म न कृतं तेन वै कदा
न गतस्तीर्थयात्रायां न च वह्नेरुपासनम् ॥ ५० ॥

स कदा कृतवान्विप्र धर्मसेवार्थमुत्तमम्
स्वच्छन्दचारी ज्ञानात्मा पितृमातृसुहृत्सदा ॥ ५१ ॥

वेदाध्ययनसम्पन्नः सर्वशास्त्रार्थकोविदः
यादृशं तस्य वै ज्ञानं बालस्यापि सुकर्मणः ॥ ५२ ॥

तादृशं नास्ति ते ज्ञानं वृथा त्वं गर्वमुद्वहेः
पिप्पल उवाच-
को भवान्पक्षिरूपेण मामेवं परिकुत्सयेत् ॥ ५३ ॥

कस्मान्निन्दसि मे ज्ञानं पराचीनं तु कीदृशम्
तन्मे विस्तरतो ब्रूहि त्वयि ज्ञानं कथं भवेत् ॥ ५४ ॥

अर्वाचीनगतिं सर्वां पराचीनस्य साम्प्रतम्
वद त्वमण्डजश्रेष्ठ ज्ञानपूर्वं सुविस्तरम् ॥ ५५ ॥

किं वा ब्रह्मा च विष्णुश्च किं वा रुद्रो भविष्यसि
सारस उवाच-
नास्ति ते तपसो भावः फलं नास्ति च तस्य तु ॥ ५६ ॥

त्वया न परितप्तस्य तपसः साम्प्रतं शृणु
कुण्डलस्यापि पुत्रस्य बालस्यापि यथा गुणः ॥ ५७ ॥

तथा ते नास्ति वै ज्ञानं परिज्ञातं न तत्पदम्
इतो गत्वापि पृच्छ त्वं मम रूपं द्विजोत्तम ॥ ५८ ॥

स वदिष्यति धर्मात्मा सर्वं ज्ञानं तवैव हि
विष्णुरुवाच-
एवमाकर्ण्य तत्सर्वं सारसेन प्रभाषितम् ॥ ५९ ॥

निर्जगाम स वेगेन दशारण्यं महाश्रमम् ॥ ६० ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने एकषष्टितमोऽध्यायः ६१