०५९

विष्णुरुवाच-

विश्वास-प्रस्तुतिः

कृकलः सर्वतीर्थानि साधयित्वा गृहं प्रति
प्रस्थितः सार्थवाहेन महानन्दसमन्वितः ॥ १ ॥

मूलम्

एवं चिन्तयते नित्यं संसारः सफलो मम
तृप्ताः स्वर्गं प्रयास्यन्ति पितरो मम नान्यथा ॥ २ ॥

तावत्प्रत्यक्षरूपेण बद्ध्वा तस्य पितामहान्
पुरतस्तस्य सम्ब्रूते नहि ते पुण्यमुत्तमम् ॥ ३ ॥

दिव्यरूपो महाकायः कृकलं वाक्यमब्रवीत्
तव तीर्थफलं नास्ति श्रममेव वृथा कृथाः ॥ ४ ॥

स्वयं सन्तोषमाप्नोषि नहि ते पुण्यमुत्तमम्
एवं श्रुत्वा ततो वैश्यः कृकलो दुःखपीडितः ॥ ५ ॥

भवान्कः संवदस्येवं कस्माद्बद्धाः पितामहाः
केन दोषप्रभावेण तन्मेत्वं कारणं वद ॥ ६ ॥

कस्मात्तीर्थफलं नास्ति मम यात्रा कथं नहि
सर्वमेव समाचक्ष्व यदि जानासि संस्फुटम् ॥ ७ ॥

धर्म उवाच-
पूतां पुण्यतमां स्वीयां भार्यां त्यक्त्वा प्रयाति यः
तस्य पुण्यफलं सर्वं वृथा भवति नान्यथा ॥ ८ ॥

धर्माचारपरां पुण्यां साधुव्रतपरायणाम्
पतिव्रतरतां भार्यां सुगुणां पुण्यवत्सलाम् ॥ ९ ॥

तामेवापि परित्यज्य धर्मकार्यं प्रयाति यः
वृथा तस्य कृतः सर्वो धर्मो भवति नान्यथा ॥ १० ॥

सर्वाचारपरा भव्या धर्मसाधनतत्परा
पतिव्रतरता नित्यं सर्वदा ज्ञानवत्सला ॥ ११ ॥

एवं गुणा भवेद्भार्या यस्य पुण्या महासती
तस्य गेहे सदा देवास्तिष्ठन्ति च महौजसः ॥ १२ ॥

पितरो गेहमध्यस्थाः श्रेयो वाञ्छन्ति तस्य च
गङ्गाद्याः पुण्यनद्यश्च सागरास्तत्र नान्यथा ॥ १३ ॥

पुण्या सती यस्य गेहे वर्तते सत्यतत्परा
तत्र यज्ञाश्च गावश्च ऋषयस्तत्र नान्यथा ॥ १४ ॥

तत्र सर्वाणि तीर्थानि पुण्यानि विविधानि च
भार्यायोगेन तिष्ठन्ति सर्वाण्येतानि नान्यथा ॥ १५ ॥

पुण्यभार्याप्रयोगेण गार्हस्थ्यं सम्प्रजायते
गार्हस्थ्यात्परमो धर्मो द्वितीयो नास्ति भूतले ॥ १६ ॥

गृहस्थस्य गृहः पुण्यः सत्यपुण्यसमन्वितः
सर्वतीर्थमयो वैश्य सर्वदेवसमन्वितः ॥ १७ ॥

गार्हस्थ्यं च समाश्रित्य सर्वे जीवन्ति जन्तवः
तादृशं नैव पश्यामि अन्यमाश्रममुत्तमम् ॥ १८ ॥

मन्त्राग्निहोत्रं देवाश्च सर्वे धर्माः सनातनाः
दानाचाराः प्रवर्तन्ते यस्य पुंसश्च वै गृहे ॥ १९ ॥

एवं यो भार्यया हीनस्तस्यगेहं वनायते
यज्ञाश्च वै न सिध्यन्ति दानानि विविधानि च ॥ २० ॥

भार्याहीनस्य पुंसोपि न सिध्यति महाव्रतम्
धर्मकर्माणि सर्वाणि पुण्यानि विविधानि च ॥ २१ ॥

नास्ति भार्यासमं तीर्थं धर्मसाधनहेतवे
शृणुष्व त्वं गृहस्थस्य नान्यो धर्मो जगत्त्रये ॥ २२ ॥

यत्र भार्या गृहं तत्र पुरुषस्यापि नान्यथा
ग्रामे वाप्यथवारण्ये सर्वधर्मस्य साधनम् ॥ २३ ॥

नास्ति भार्यासमं तीर्थं नास्ति भार्यासमं सुखम्
नास्ति भार्यासमं पुण्यं तारणाय हिताय च ॥ २४ ॥

धर्मयुक्तां सतीं भार्यां त्यक्त्वा यासि नराधम
गृहं धर्मं परित्यज्य क्वास्ते धर्मस्य ते फलम् ॥ २५ ॥

तया विना यदा तीर्थे श्राद्धदानं कृतं त्वया
तेन दोषेण वै बद्धास्तव पूर्वपितामहाः ॥ २६ ॥

भवांश्चौरो ह्यमी चौरा यैस्तु भुक्तं सुलोलुपैः
त्वया दत्तस्य श्राद्धस्य अन्नमेवं तया विना ॥ २७ ॥

सुपुत्रः श्रद्धया युक्तः श्राद्धदानं ददाति यः
भार्या दत्तेन पिण्डेन तस्य पुण्यं वदाम्यहम् ॥ २८ ॥

यथाऽमृतस्य पानेन नृणां तृप्तिर्हि जायते
तथा पितॄणां श्राद्धेन सत्यंसत्यं वदाम्यहम् ॥ २९ ॥

गार्हस्थ्यस्य च धर्मस्य भार्या भवति स्वामिनी
त्वयैषा वञ्चिता मूढ चौरकर्मकृतं वृथा ॥ ३० ॥

अमी पितामहाश्चौरा यैर्भुक्तं तु तया विना
भार्या पचति चेदन्नं स्वहस्तेनामृतोपमम् ॥ ३१ ॥

तदन्नमेवभुञ्जन्ति पितरो हृष्टमानसाः
तेनैव तृप्तिमायान्ति सन्तुष्टाश्च भवन्ति ते ॥ ३२ ॥

तस्माद्भार्यां विना धर्मः पुरुषस्य न सिध्यति
नास्ति भार्यासमं तीर्थं पुंसां सुगतिदायकम् ॥ ३३ ॥

भार्यां विना च यो धर्मः स एव विफलो भवेत् ॥ ३४ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे एकोनषष्टितमोऽध्यायः ५९