विष्णुरुवाच-
विश्वास-प्रस्तुतिः
क्रीडाप्रयुक्तासु वनं प्रविष्टा वैश्यस्य भार्या सुकला सुतन्वी
ददर्श सर्वं गहनं मनोरमं तामेव पप्रच्छ सखीं सती सा ॥ १ ॥
मूलम्

अरण्यमेतत्प्रवरं सुपुण्यं दिव्यं सखे कस्य मनोभिरामम्
सिद्धंसुकामैः प्रवरैः समस्तैः पप्रच्छ हर्षात्सुकला सखीं ताम् ॥ २ ॥

क्रीडोवाच-
एतद्वनं दिव्यगुणैः प्रयुक्तं सिद्धस्वभावैः परिभावनेन
पुष्पाकुलं कामफलोपयुक्तं विपश्य सर्वं मकरध्वजस्य ॥ ३ ॥

एवं वाक्यं ततः श्रुत्वा हर्षेण महतान्विता
समालोक्य महद्वृत्तं कामस्य च दुरात्मनः ॥ ४ ॥

वायुना नीयमानं तं समाघ्राति न सौरभम्
वाति वायुः स्वभावेन सौरभेण समन्वितः ॥ ५ ॥

तद्बाणो विशतेनासां यथा तथा सुलीलया
सा गन्धं नैव गृह्णाति पुष्पाणां च वरानना ॥ ६ ॥

न चास्वादयते सा तु सुरसान्सा महासती
स सखा कामदेवस्य रममाणो विनिर्जितः ॥ ७ ॥
मूलम्
न चास्वादयते सा तु सुरसान्सा महासती
स सखा कामदेवस्य रममाणो विनिर्जितः ॥ ७ ॥
विश्वास-प्रस्तुतिः
लज्जितः पराङ्मुखो भूत्वा भूं पपात लवच्छदैः
फलेभ्यो हि सुपक्वेभ्यः पुष्पमञ्जरिसंस्कृतः ॥ ८ ॥

लवरूपोपतद्भूमौ रसस्त्वेष तया जितः
मकरन्दः सुदीनात्मा फलाद्भूमिं ततः पुनः ॥ ९ ॥

भक्ष्यते मक्षिकाभिश्च यथामृतो रणे तथा
मक्षिकाभक्ष्यमाणस्तु प्रवाहेन प्रयाति सः ॥ १० ॥

मन्दम्मन्दं प्रयात्येव तं हसन्ति च पक्षिणः
नानारुतैः प्रचलन्ति सुखमानन्दनिर्भरैः ॥ ११ ॥

प्रीत्या शकुनयस्तत्र वनमध्यनगस्थिताः
सुकलया जितो ह्येष निम्नं पन्थानमाश्रितः ॥ १२ ॥

प्रीत्या समेता रतिः कामभार्या गत्वाब्रवीत्सा सुकलां विहस्य
स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्व प्रीत्या नयनाभिरामम् ॥ १३ ॥

ते रूपमिष्टममलमिन्द्रस्यापि महात्मनः
यदेष्टं ते तदा ब्रूहि समानेष्ये न संशयः ॥ १४ ॥

सूत उवाच-
वदन्त्यौ ते स्त्रियौ दृष्ट्वा श्रुत्वोवाच सुभाषितम्
रतिं प्रतिगृहीत्वा मे गतो भर्त्ता महामतिः ॥ १५ ॥

यत्र मे तिष्ठते भर्त्ता तत्राहं पतिसंयुता
तत्र कामश्च मे प्रीतिरयं कायो निराश्रयः ॥ १६ ॥

द्वे अप्युक्तं समाकर्ण्य रतिप्रीती विलज्जिते
व्रीडमाने गते ते द्वे यत्र कामो महाबलः ॥ १७ ॥

ऊचतुस्तं महावीरमिन्द्रकाय समाश्रितम्
चापमाकर्षमाणं तं नेत्रलक्ष्यं महाबलम् ॥ १८ ॥

दुर्जयेयं महाप्राज्ञ त्यज पौरुषमात्मनः
पतिकामा महाभागा पतिव्रता सदैव सा ॥ १९ ॥
मूलम्
दुर्जयेयं महाप्राज्ञ त्यज पौरुषमात्मनः
पतिकामा महाभागा पतिव्रता सदैव सा ॥ १९ ॥
विश्वास-प्रस्तुतिः
काम उवाच-
अनया लोक्यते रूपमिन्द्रस्यास्य महात्मनः
यदि देवि तदा चाहं हनिष्यामि न संशयः ॥ २० ॥

अथ वेषधरो देवो महारूपः सुराधिपः
स तयानुगतस्तूर्णं परया लीलया तदा ॥ २१ ॥
मूलम्
अथ वेषधरो देवो महारूपः सुराधिपः
स तयानुगतस्तूर्णं परया लीलया तदा ॥ २१ ॥
विश्वास-प्रस्तुतिः
सर्वभोगसमाकीर्णः सर्वाभरणशोभितः
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥ २२ ॥

तया रत्या समायातो यत्रास्ते पतिदेवता
प्रत्युवाच महाभागां सुकलां सत्यचारिणीम् ॥ २३ ॥

पूर्वं दूती समक्षं ते प्रीत्या च प्रहिता मया
कस्मान्न मन्यसे भद्रे भजन्तं त्वामिहागतम् ॥ २४ ॥

सुकलोवाच-
रक्षायुक्तास्मि भद्रं ते भर्तुः पुत्रैर्महात्मभिः
एकाकिनीसहायैश्च नैव कस्य भयं मम ॥ २५ ॥

शूरैश्च पुरुषाकारैः सर्वत्र परिरक्षिता
नाति प्रस्तावये वक्तुं व्यग्रा कर्मणि तस्य च ॥ २६ ॥

यावत्प्रस्यन्दते नेत्रं तावत्कालं महामते
भवान्न लज्जते कस्माद्रममाणो मया सह ॥ २७ ॥

भवान्को हि समायातो निर्भयो मरणादपि
इन्द्र उवाच-
त्वामेवं हि प्रपश्यामि वनमध्ये समागताम् ॥ २८ ॥

समाख्यातास्त्वया शूरा भर्तुश्च तनयाः पुनः
कथं पश्याम्यहं तावद्दर्शयस्व ममाग्रतः ॥ २९ ॥

सनिजसकलवर्गस्याधिपत्ये निवेश्य धृतिमतिगतिबुद्ध्य्ख्यैस्तु सन्न्यस्य सत्यम्
अचलसकलधर्मो नित्ययुक्तो महात्मा मदनसबलधर्मात्मा सदामां जुगोप ॥ ३० ॥

मामेवं परिरक्षते दमगुणैः शौचैस्तु धर्मः सदा सत्यं पश्य समागतं मम पुरः शान्तिक्षमाभ्यांयुतम्
बोधश्चातिमहाबलः पृथुयशा यो मां न मुञ्चेत्कदा बद्धाहं दृढबन्धनैः स्वगुणजैः सान्निध्यमेवं गतः ॥ ३१ ॥

रक्षायुक्ताः कृताः सर्वे सत्याद्या मम साम्प्रतम्
धर्मलाभादिकाः सर्वे दमबुद्धिपराक्रमाः ॥ ३२ ॥

मामेवं हि प्ररक्षन्ति किं मां प्रार्थयसे बलात्
को भवान्निर्भयो भूत्वा दूत्या सार्धं समागतः ॥ ३३ ॥

सत्यं धर्मस्तथा पुण्यं ज्ञानाद्याः प्रबलास्तथा
मम भर्तुः सहायाश्च ते मां रक्षन्ति वेश्मनि ॥ ३४ ॥

अहं रक्षायुता नित्यं दमशान्तिपरायणा
न मां जेतुं समर्थश्च अपि साक्षाच्छचीपतिः ॥ ३५ ॥

यदि वा मन्मथो वापि समागच्छति वीर्यवान्
दंशिताहं सदा सत्यं सत्यकेनैव नान्यथा ॥ ३६ ॥

निरर्थकास्तस्य बाणा भविष्यन्ति न संशयः
त्वामेवं हि हनिष्यन्ति धर्मादयो महाभटाः ॥ ३७ ॥

दूरं गच्छ पलायत्वमत्र मा तिष्ठ साम्प्रतम्
वार्यमाणो यदा तिष्ठेर्भस्मीभूतो भविष्यसि ॥ ३८ ॥

भर्त्रा विना निरीक्षेत मम रूपं यदा भवान्
यथा दारु दहेदग्निस्तथा धक्ष्यामि नान्यथा ॥ ३९ ॥

एवं श्रुत्वा सहस्राक्षो मन्मथस्यापि सम्मुखम्
पश्य पौरुषमेतस्या युध्यस्व निजपौरुषैः ॥ ४० ॥

यथागतास्तथा सर्वे महाशापभयातुराः
स्वंस्वं स्थानं महाराज इन्द्राद्याः प्रययुस्तदा ॥ ४१ ॥

गतेषु तेषु सर्वेषु सुकला सा पतिव्रता
स्वगृहं पुण्यसंयुक्ता पतिध्यानेन चागता ॥ ४२ ॥

स्वगृहं पुण्यसंयुक्तं सर्वतीर्थमयं तदा
सर्वयज्ञमयं राजन्सम्प्राप्ता पतिदेवता ॥ ४३ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रेष्टपञ्चाशत्तमोऽध्यायः ५८