विष्णुरुवाच-
विश्वास-प्रस्तुतिः
क्रीडा सतीरूप धरा प्रभूत्वा गेहं गता चारु पतिव्रतायाः
तामागतां सत्यस्वरूपयुक्ता सा सादरं वाक्यमुवाच धन्या ॥ १ ॥
मूलम्

वाक्यैः सुपुण्यैः परिपूजिता सा उवाच क्रीडा सुकलां विहस्य
मायानुगं विश्वविमोहनं सती प्रत्युत्तरं सत्यप्रमेयुक्तम् ॥ २ ॥

ममापि भर्ता प्रबलो गुणज्ञो धीरः सविद्यो महिमाप्रयुक्तः
त्यक्त्वा गतः पापतरांसुपुण्यो मामेव नाथः शृणु पुण्यकीर्तिः ॥ ३ ॥

वाक्यैस्तु पुण्यैरबलास्वभावादाकर्ण्य सर्वं सुकला समुक्तम्
संशुद्धभावां च विचिन्त्य चाह कस्माद्गतः सुन्दरि तेऽद्य नाथः ॥ ४ ॥

विहाय ते रूपमतीव सत्यमाचक्ष्व सर्वं भवती सुभर्तुः
ध्यानोपयुक्ता सकलं करोति सखीस्वरूपा गृहमागता मे ॥ ५ ॥

क्रीडा बभाषे शृणु सत्यमेतं चरित्रभावं मम भर्त्तुरस्य
अहं प्रिये यस्य सदैव युक्ता यमिच्छते तं प्रतिसान्त्वयामि ॥ ६ ॥

कर्तुः सुपुण्यं वचनं सुभर्तुर्ध्यानोपयुक्ता सकलं करोमि
एकान्तशीला सगुणानुरूपा शुश्रूषयैकस्तमिहैव देवि ॥ ७ ॥

मम पूर्व विपाकोऽयं सम्प्रत्येव प्रवर्तते
यतस्त्यक्त्वा गतो भर्त्ता मामेवं मन्दभागिनीम् ॥ ८ ॥

सखे न धारये जीवं स्वकीय कायमेव च
पत्याहीनाः कथं नार्यः सुजीवन्ति च निर्घृणाः ॥ ९ ॥

रूपशृङ्गारसौभाग्यं सुखं सम्पच्च नान्यथा
नारीणां हि महाभागो भर्ता शास्त्रेषु गीयते ॥ १० ॥

तया सर्वं समाकर्ण्य यदुक्तं क्रीडया तदा
सत्यभावं विदित्वा सा मेने सम्भाषितं तदा ॥ ११ ॥

विश्वस्ता सा महाभागा सुकला पतिदेवता
तामुवाच पुनः सर्वमात्मचेष्टानुगं वचः ॥ १२ ॥

समासेन समाख्यातं पूर्ववृत्तान्तमात्मनः
यथा भर्ता गतो यात्रां पुण्यसाधनतत्परः ॥ १३ ॥

आत्मदुःखं सुसत्यं च तप एव मनस्विनि
बोधिता क्रीडया सा तु समाश्वास्य पतिव्रता ॥ १४ ॥

सूत उवाच-
एकदा तु तया प्रोक्तं क्रीडया सुकलां प्रति
सखे पश्य वनं सौम्यं दिव्यवृक्षैरलङ्कृतम् ॥ १५ ॥

तत्र तीर्थं परं पुण्यमस्ति पातकनाशनम्
नानावल्लीवितानैश्च सुपुष्पैः परिशोभितम् ॥ १६ ॥

आवाभ्यामपि गन्तव्यं पुण्यहेतोर्वरानने
समाकर्ण्य तया सार्द्धं सुकला मायया तदा ॥ १७ ॥

प्रविवेश वनं दिव्यं नन्दनोपममेव सा
सर्वर्तुकुसुमोपेतं कोकिलाशतनादितम् ॥ १८ ॥

गीयमानं सुमधुरैर्नादैर्मधुकरैरपि
कूजद्भिः पक्षिभिः पुण्यैः पुण्यध्वनिसमाकुलम् ॥ १९ ॥

चन्दनादिकवृक्षैश्च सौरभैश्च विराजितम्
सर्वभोगैः सुसम्पूर्णं माधव्या माधवेन वै ॥ २० ॥

रचितं मोहनायैव सुकलायाश्च कारणात्
तया सार्धं प्रविष्टा सा तद्वनं सर्वभावनम् ॥ २१ ॥

ददर्श सौख्यदं पुण्यं मायाभावं न विन्दति
वीक्षमाणा वनं दिव्यं तया सह जनेश्वर ॥ २२ ॥

शक्रोपि चाभ्ययात्तत्र देवमूर्तिविराजितः
तया दूत्या समं प्राप्तः कामस्तत्र समागतः ॥ २३ ॥

सर्वभोगपतिर्भूत्वा कामलीलासमाकुलः
काममाह समाभाष्य एषा सा सुकुला गता ॥ २४ ॥

प्रहरस्व महाभाग क्रीडायाः पुरतः स्थिताम्
मायां कृत्वा समानीता क्रीडया तव सन्निधौ ॥ २५ ॥

पौरुषं दर्शयाद्यैव यद्यस्ति कुरु निश्चितम्
काम उवाच-
आत्मरूपं दर्शयस्व चतुरं लीलयान्वितम् ॥ २६ ॥

येनाहं प्रहराम्येतां पञ्चबाणैः सहस्रदृक्
इन्द्र उवाच-
क्वास्ते ते पौरुषं मूढ येन लोकं विडम्बसे ॥ २७ ॥

ममाधारपरोभूत्वा योद्धुमिच्छसि साम्प्रतम्
काम उवाच-
तेनापि देवदेवेन महादेवेन शूलिना ॥ २८ ॥

पूर्वमेव हृतं रूपं ममकायो न विद्यते
इच्छाम्यहं यदा नारीं हन्तुं शृणुष्व साम्प्रतम् ॥ २९ ॥

पुंसां कायं समाश्रित्य आत्मरूपं प्रदर्शये
पुमांसं वा सहस्राक्ष नार्याः कार्यं समाश्रये ॥ ३० ॥

पूर्वदृष्टा यदा नारी तामेव परिचिन्तयेत्
चिन्त्यमानस्य पुंसस्तु नार्यारूपं पुनःपुनः ॥ ३१ ॥

अदृष्टं तु समाश्रित्य पुंसमुन्मादयाम्यहम्
तथाप्युन्मादयाम्येवं नारीरूपं न संशयः ॥ ३२ ॥

संस्मरणात्स्मरो नाम मम जातं सुरेश्वर
तां दृष्ट्वा तादृशोरङ्ग वस्तुरूपं समाश्रये ॥ ३३ ॥

आत्मतेजः प्रकाशेन बाध्यबाधकतां व्रजेत्
नारीरूपं समाश्रित्य धीरं पुरुषं प्रमोहयेत् ॥ ३४ ॥

पुरुषं तु समाश्रित्य भावयामि सुयोषितम्
रूपहीनोस्मि हे इन्द्र अस्मद्रूपं समाश्रयेत् ॥ ३५ ॥

तवरूपं समाश्रित्य तां साधये यथेप्सिताम्
एवमुक्त्वा स देवेन्द्रं कायं तस्य महात्मनः ॥ ३६ ॥

सखासौ माधवस्यापि समाश्रित्य सुमायुधः ॥ ३७ ॥

तामेव हन्तुं कुसुमायुधोपि साध्वीं सुपुण्यां कृकलस्य भार्याम्
समुत्सुकस्तिष्ठति बाणलक्षं तस्याश्च कायं नयनैर्विलोक्य ॥ ३८ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे सप्तपञ्चाशत्तमोऽध्यायः ५७