०५६

विष्णुरुवाच-

विश्वास-प्रस्तुतिः

तस्याः सत्यविनाशाय मन्मथः ससुराधिपः
प्रस्थितः सुकलां तर्हि सत्यो धर्ममथाब्रवीत् ॥ १ ॥

मूलम्

तस्याः सत्यविनाशाय मन्मथः ससुराधिपः
प्रस्थितः सुकलां तर्हि सत्यो धर्ममथाब्रवीत् ॥ १ ॥

विश्वास-प्रस्तुतिः

पश्य धर्म महाप्राज्ञ मन्मथस्य विचेष्टितम्
तवार्थमात्मनश्चैव पुण्यस्यापि महात्मनः ॥ २ ॥

मूलम्

पश्य धर्म महाप्राज्ञ मन्मथस्य विचेष्टितम्
तवार्थमात्मनश्चैव पुण्यस्यापि महात्मनः ॥ २ ॥

विश्वास-प्रस्तुतिः

विसृजामि महास्थानं वास्तुरूपं सुखोदयम्
सत्याख्यं च सुप्रियाख्यं सुदेवाख्यं गृहोत्तमम् ॥ ३ ॥

मूलम्

विसृजामि महास्थानं वास्तुरूपं सुखोदयम्
सत्याख्यं च सुप्रियाख्यं सुदेवाख्यं गृहोत्तमम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

तमेव नाशयेद्गत्वा काम एष प्रमत्तधीः
रिपुरूपः सुदुष्टात्मा अस्माकं हि न संशयः ॥ ४ ॥

मूलम्

तमेव नाशयेद्गत्वा काम एष प्रमत्तधीः
रिपुरूपः सुदुष्टात्मा अस्माकं हि न संशयः ॥ ४ ॥

विश्वास-प्रस्तुतिः

पतिस्तपोधनो विप्रः सुसती या पतिव्रता
सुसत्यो भूपतिर्धर्मममगेहानसंशयः ॥ ५ ॥

मूलम्

पतिस्तपोधनो विप्रः सुसती या पतिव्रता
सुसत्यो भूपतिर्धर्मममगेहानसंशयः ॥ ५ ॥

विश्वास-प्रस्तुतिः

यत्राहं वृद्धिसम्पुष्टस्तत्र वासो हि ते भवेत्
तत्र पुण्यं समायाति श्रद्धया सह क्रीडते ॥ ६ ॥

मूलम्

यत्राहं वृद्धिसम्पुष्टस्तत्र वासो हि ते भवेत्
तत्र पुण्यं समायाति श्रद्धया सह क्रीडते ॥ ६ ॥

विश्वास-प्रस्तुतिः

क्षमा शान्त्या समायुक्ता आयाति मम मन्दिरम्
यथा सत्यो दमश्चैव दया सौहृदमेव च ॥ ७ ॥

मूलम्

क्षमा शान्त्या समायुक्ता आयाति मम मन्दिरम्
यथा सत्यो दमश्चैव दया सौहृदमेव च ॥ ७ ॥

विश्वास-प्रस्तुतिः

प्रज्ञायुक्तः स निर्लोभो यत्राहं तत्र संस्थितः
शुचिः स्वभावस्तत्रैव अमी च मम बान्धवाः ॥ ८ ॥

मूलम्

प्रज्ञायुक्तः स निर्लोभो यत्राहं तत्र संस्थितः
शुचिः स्वभावस्तत्रैव अमी च मम बान्धवाः ॥ ८ ॥

विश्वास-प्रस्तुतिः

अस्तेयमप्यहिंसा च तितिक्षा वृद्धिरेव च
मम गेहे समायाता धन्यतां शृणु धर्मराट् ॥ ९ ॥

मूलम्

अस्तेयमप्यहिंसा च तितिक्षा वृद्धिरेव च
मम गेहे समायाता धन्यतां शृणु धर्मराट् ॥ ९ ॥

विश्वास-प्रस्तुतिः

गुरूणां चापि शुश्रूषा विष्णुर्लक्ष्म्या समावृतः
मद्गेहं तु समायान्ति देवाश्चाग्निपुरोगमाः ॥ १० ॥

मूलम्

गुरूणां चापि शुश्रूषा विष्णुर्लक्ष्म्या समावृतः
मद्गेहं तु समायान्ति देवाश्चाग्निपुरोगमाः ॥ १० ॥

विश्वास-प्रस्तुतिः

मोक्षमार्गं प्रकाशेद्यो ज्ञानोदीप्त्या समन्वितः
एतैः सार्धं वसाम्येव सतीषु धर्मवत्सु च ॥ ११ ॥

मूलम्

मोक्षमार्गं प्रकाशेद्यो ज्ञानोदीप्त्या समन्वितः
एतैः सार्धं वसाम्येव सतीषु धर्मवत्सु च ॥ ११ ॥

विश्वास-प्रस्तुतिः

साधुष्वेतेषु सर्वेषु गृहरूपेषु मे सदा
उक्तेनापि कुटुम्बेन वसाम्येव त्वया सह ॥ १२ ॥

मूलम्

साधुष्वेतेषु सर्वेषु गृहरूपेषु मे सदा
उक्तेनापि कुटुम्बेन वसाम्येव त्वया सह ॥ १२ ॥

विश्वास-प्रस्तुतिः

ससत्वाः साधुरूपास्ते वेधसा मे गृहीकृताः
सञ्चरामि महाभाग स्वच्छन्देन च लीलया ॥ १३ ॥

मूलम्

ससत्वाः साधुरूपास्ते वेधसा मे गृहीकृताः
सञ्चरामि महाभाग स्वच्छन्देन च लीलया ॥ १३ ॥

विश्वास-प्रस्तुतिः

ईश्वरश्च जगत्स्वामी त्रिनेत्रो वृषवाहनः
मम गेहे स्वरूपेण वर्तते शिवया युतः ॥ १४ ॥

मूलम्

ईश्वरश्च जगत्स्वामी त्रिनेत्रो वृषवाहनः
मम गेहे स्वरूपेण वर्तते शिवया युतः ॥ १४ ॥

विश्वास-प्रस्तुतिः

तदिदं संसृतेः सारं गृहरूपं महेश्वरम्
सदनं शङ्करेत्याख्यं नाशितं मन्मथेन वै ॥ १५ ॥

मूलम्

तदिदं संसृतेः सारं गृहरूपं महेश्वरम्
सदनं शङ्करेत्याख्यं नाशितं मन्मथेन वै ॥ १५ ॥

विश्वास-प्रस्तुतिः

विश्वामित्रं महात्मानं तपन्तं तप उत्तमम्
मेनकां हि समाश्रित्य कामोयं जितवान्पुरा ॥ १६ ॥

मूलम्

विश्वामित्रं महात्मानं तपन्तं तप उत्तमम्
मेनकां हि समाश्रित्य कामोयं जितवान्पुरा ॥ १६ ॥

विश्वास-प्रस्तुतिः

सती पतिव्रताहल्या गौतमस्य प्रिया शुभा
सुसत्याच्चालिता तेन मन्मथेन दुरात्मना ॥ १७ ॥

मूलम्

सती पतिव्रताहल्या गौतमस्य प्रिया शुभा
सुसत्याच्चालिता तेन मन्मथेन दुरात्मना ॥ १७ ॥

विश्वास-प्रस्तुतिः

मुनयः सत्यधर्मज्ञा नानास्त्रियः पतिव्रताः
मद्गृहास्ता इमाः सर्वा दीपिताः कामवह्निना ॥ १८ ॥

मूलम्

मुनयः सत्यधर्मज्ञा नानास्त्रियः पतिव्रताः
मद्गृहास्ता इमाः सर्वा दीपिताः कामवह्निना ॥ १८ ॥

विश्वास-प्रस्तुतिः

दुर्धरो दुःसहो व्यापी योतिसत्येषु निष्ठुरः
मामेवं पश्यते नित्यं क्व सत्यः परितिष्ठति ॥ १९ ॥

मूलम्

दुर्धरो दुःसहो व्यापी योतिसत्येषु निष्ठुरः
मामेवं पश्यते नित्यं क्व सत्यः परितिष्ठति ॥ १९ ॥

विश्वास-प्रस्तुतिः

समां ज्ञात्वा समायाति बाणपाणिर्धनुर्धरः
नाशयेन्मद्गृहं पापो वीतिहोत्रैश्च नामकैः ॥ २० ॥

मूलम्

समां ज्ञात्वा समायाति बाणपाणिर्धनुर्धरः
नाशयेन्मद्गृहं पापो वीतिहोत्रैश्च नामकैः ॥ २० ॥

विश्वास-प्रस्तुतिः

पापलेशाश्च ये क्रूरा अन्ये पाखण्डसंश्रयाः
ते तु बुद्ध्याऽहिताः सर्वे सत्यगेहं विशन्ति हि ॥ २१ ॥

मूलम्

पापलेशाश्च ये क्रूरा अन्ये पाखण्डसंश्रयाः
ते तु बुद्ध्याऽहिताः सर्वे सत्यगेहं विशन्ति हि ॥ २१ ॥

विश्वास-प्रस्तुतिः

सेनाध्यक्षैरसत्यैस्तु छद्मना तेन साधितः
पातयेदर्दयेद्गेहं पापः शस्त्रैर्दुरात्मभिः ॥ २२ ॥

मूलम्

सेनाध्यक्षैरसत्यैस्तु छद्मना तेन साधितः
पातयेदर्दयेद्गेहं पापः शस्त्रैर्दुरात्मभिः ॥ २२ ॥

विश्वास-प्रस्तुतिः

मामेवं ताडयेत्पापो महाबल मनोभवः
अस्य धाम्ना प्रदग्धोहं शून्यतां हि व्रजामि वै ॥ २३ ॥

मूलम्

मामेवं ताडयेत्पापो महाबल मनोभवः
अस्य धाम्ना प्रदग्धोहं शून्यतां हि व्रजामि वै ॥ २३ ॥

विश्वास-प्रस्तुतिः

नूतनं गृहमिच्छामि स्त्रियाख्यं पतिभूपतिम्
कृकलस्यापि पुण्यस्य प्रियेयं शिवमङ्गला ॥ २४ ॥

मूलम्

नूतनं गृहमिच्छामि स्त्रियाख्यं पतिभूपतिम्
कृकलस्यापि पुण्यस्य प्रियेयं शिवमङ्गला ॥ २४ ॥

विश्वास-प्रस्तुतिः

तद्गृहं सुकलाख्यं मे दग्धुं पापः समुद्यतः
अयमेष सहस्राक्षः कामेन सहितो बली ॥ २५ ॥

मूलम्

तद्गृहं सुकलाख्यं मे दग्धुं पापः समुद्यतः
अयमेष सहस्राक्षः कामेन सहितो बली ॥ २५ ॥

विश्वास-प्रस्तुतिः

कामस्य कारणात्कस्मात्पूर्ववृत्तं न विन्दति
अहल्यायाः प्रसङ्गेन मेषोपस्थो व्यजायत ॥ २६ ॥

मूलम्

कामस्य कारणात्कस्मात्पूर्ववृत्तं न विन्दति
अहल्यायाः प्रसङ्गेन मेषोपस्थो व्यजायत ॥ २६ ॥

विश्वास-प्रस्तुतिः

पौरुषं हि मुनेर्दृष्ट्वा सत्याश्चैव प्रधषर्णात्
नष्टः कामस्य दोषेण सुरराट्तत्र संस्थितः ॥ २७ ॥

मूलम्

पौरुषं हि मुनेर्दृष्ट्वा सत्याश्चैव प्रधषर्णात्
नष्टः कामस्य दोषेण सुरराट्तत्र संस्थितः ॥ २७ ॥

विश्वास-प्रस्तुतिः

भुक्तवान्दारुणं शापं दुःखेन महतान्वितः
कृकलस्य प्रियामेनां सुकलां पुण्यचारिणीम् ॥ २८ ॥

मूलम्

भुक्तवान्दारुणं शापं दुःखेन महतान्वितः
कृकलस्य प्रियामेनां सुकलां पुण्यचारिणीम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

एष हन्तुं सहस्राक्ष उद्यतः कामसंयुतः
यथा चेन्द्रेण नायाति काम एष तथा कुरु ॥ २९ ॥

मूलम्

एष हन्तुं सहस्राक्ष उद्यतः कामसंयुतः
यथा चेन्द्रेण नायाति काम एष तथा कुरु ॥ २९ ॥

विश्वास-प्रस्तुतिः

धर्मराज महाप्राज्ञ भवान्मतिमतां वरः
धर्मराज उवाच-
ऊनं तेजः करिष्यामि कामस्य मरणं तथा ॥ ३० ॥

मूलम्

धर्मराज महाप्राज्ञ भवान्मतिमतां वरः
धर्मराज उवाच-
ऊनं तेजः करिष्यामि कामस्य मरणं तथा ॥ ३० ॥

विश्वास-प्रस्तुतिः

एकोपायो मया दृष्टस्तमिहैव प्रपश्यतु
प्रज्ञा चैषा महाप्राज्ञा शकुनीरूपचारिणी ॥ ३१ ॥

मूलम्

एकोपायो मया दृष्टस्तमिहैव प्रपश्यतु
प्रज्ञा चैषा महाप्राज्ञा शकुनीरूपचारिणी ॥ ३१ ॥

विश्वास-प्रस्तुतिः

भर्तुरागमनं पुण्यं शब्देनाख्यातु खे यतः
शकुनस्य प्रभावेण भर्तुश्चागमनेन च ॥ ३२ ॥

मूलम्

भर्तुरागमनं पुण्यं शब्देनाख्यातु खे यतः
शकुनस्य प्रभावेण भर्तुश्चागमनेन च ॥ ३२ ॥

विश्वास-प्रस्तुतिः

दुष्टैर्नष्टा न भूयेत स्वस्थचित्ता न संशयः
प्रज्ञा सम्प्रेषिता तेन गता सा सुकलागृहम् ॥ ३३ ॥

मूलम्

दुष्टैर्नष्टा न भूयेत स्वस्थचित्ता न संशयः
प्रज्ञा सम्प्रेषिता तेन गता सा सुकलागृहम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

प्रकुर्वती महच्छब्दं दृष्टदेवेव सा बभौ
पूजिता मानिता प्रज्ञा धूपदीपादिभिस्तदा ॥ ३४ ॥

मूलम्

प्रकुर्वती महच्छब्दं दृष्टदेवेव सा बभौ
पूजिता मानिता प्रज्ञा धूपदीपादिभिस्तदा ॥ ३४ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणं सुकलापृच्छत्किमेषा च वदेन्मम
ब्राह्मण उवाच-
भर्तुश्चागमनं ब्रूते तवैव सुभगे स्थिरा ॥ ३५ ॥

मूलम्

ब्राह्मणं सुकलापृच्छत्किमेषा च वदेन्मम
ब्राह्मण उवाच-
भर्तुश्चागमनं ब्रूते तवैव सुभगे स्थिरा ॥ ३५ ॥

विश्वास-प्रस्तुतिः

दिनसप्तकमध्ये स आगमिष्यति नान्यथा ॥ ३६ ॥

मूलम्

दिनसप्तकमध्ये स आगमिष्यति नान्यथा ॥ ३६ ॥

इत्येवमाकर्ण्यसुमङ्गलं वचः प्रहर्षयुक्ता सहसा बभूव
धर्मज्ञमेकं सगुणं हि कान्तं शकुनात्प्रदिष्टं हि समागतं तम् ३७