विष्णुरुवाच-
विश्वास-प्रस्तुतिः
भावं विदित्वा सुरराट्च तस्याः प्रोवाच कामं पुरतः स्थितं सः
न चास्ति शक्या स्मर ते जयाय सत्यात्मकध्यान सुदंशिता सती ॥ १ ॥
मूलम्

धर्माख्य चापं स्वकरे गृहीत्वा ज्ञानाभिधानं वरमेव बाणम्
योद्धुं रणे सम्प्रति संस्थिता सती वीरो यथा दर्पितवीर्यभावः ॥ २ ॥

जिगीषयेयं पुरुषार्थमेव त्वमात्मनः कुरुषे पौरुषं तु
त्वामद्य जेतुं समरे समर्था यद्भाव्यमेवं तदिहैव चिन्त्यम् ॥ ३ ॥

दग्धोसि पूर्वं त्वमिहैव शम्भुना महात्मना तेन समं विरोधम्
कृत्वा फलं तस्य विकर्मणश्च जातोस्यनङ्गः स्मर सत्यमेव ॥ ४ ॥

यथा त्वया कर्म कृतं पुरा स्मर फलं तु प्राप्तं तु तथैव तीव्रम्
सुकुत्सितां योनिमवाप्स्यसि ध्रुवं साध्व्यानया सार्धमिहैव कथ्यसे ॥ ५ ॥

ये ज्ञानवन्तः पुरुषा जगत्त्रये वैरं प्रकुर्वन्ति महात्मभिः समम्
भुञ्जन्ति ते दुष्कृतमेवतत्फलं दुःखान्वितं रूपविनाशनं च ॥ ६ ॥

व्याघुष्य आवां तु व्रजाव काम एनां परित्यज्य सतीं प्रयुज्य
सत्याः प्रसङ्गेन पुरा मया तु लब्धं फलं पापमयं त्वसह्यम् ॥ ७ ॥

त्वमेव जानासि चरित्रमेतच्छप्तोस्मि तेनापि च गौतमेन
जातश्च मेषवृषणः सदा ह्यहं भवान्गतो मां तु विहाय तत्र ॥ ८ ॥

तेजः प्रभावो ह्यतुलः सतीनां धाता समर्थः सहितुं न सूर्यः
सुकुत्सितं रूपमिदं तु रक्षेत्पुरानुसूया मुनिना हि शप्तम् ॥ ९ ॥

निरुध्य सूर्यं परिवेगवन्तमुद्यन्तमेवं प्रभया सुदीप्तम्
भर्तुश्च मृत्युं परिबाधमानं माण्डव्यशापस्य च कौण्डिनस्य ॥ १० ॥

अत्रेः प्रिया सत्यपतिव्रता तया स्वपुत्रतां देवत्रयं हि नीतम्
न किं पुरा मन्मथ ते श्रुतं सदा संस्कारयुक्ताः प्रभवन्ति सत्यः ॥ ११ ॥

सावित्रीनाम्नी द्युमत्सेनपुत्री नीतं प्रियं सा पुनरानिनाय
यमादिहैवाश्वपतेः सुपुत्रं सती त्वमेवं परिसंश्रुतं च ॥ १२ ॥

अग्नेः शिखां कः परिसंस्पृशेद्वै तरेद्धिकः सागरमेव मूढः
गले तु बद्धासु शिलां भुजाभ्यां को वा सतीं वश्यति वीतरागाम् ॥ १३ ॥

उक्ते तु वाक्ये बहुनीतियुक्ते इन्द्रेण कामस्य सुशिक्षणार्थम्
आकर्ण्य वाक्यं मकरध्वजस्तु उवाच देवेन्द्रमथैनमेव ॥ १४ ॥

काम उवाच-
तवातिदेशादहमागतो वै धैर्यं सुहृत्त्वं पुरुषार्थमेव
त्यक्त्वा तदर्थं परिभाषसे मां निःसत्वरूपं बहुभीतियुक्तम् ॥ १५ ॥

व्याबुद्धि यास्यामि यदा सुरेशस्याल्लोकमध्ये मम कीर्तिनाशः
ऊढिङ्करोमानविहीन एव सर्वे वदिष्यन्त्यनया जितं माम् ॥ १६ ॥

ये वै जिता देवगणाश्च दानवाः पूर्वं मुनीन्द्रास्तपसः प्रयुक्ताः
हास्यं करिष्यन्ति ममापि सद्यो नार्या जितो मन्मथ एष भीमः ॥ १७ ॥

तस्मात्प्रयास्यामि त्वयैव सार्धमस्या बलं मानमतः सुरेश
तेजश्च धैर्यं परिणाशयिष्ये कस्माद्भवानत्र बिभेति शक्र ॥ १८ ॥

सम्बोध्य चैवं स सुराधिनाथं चापं गृहीतं सशरं सुपुष्पम्
उवाच क्रीडां पुरतः स्थितां तां विधाय मायां भवती प्रयातु ॥ १९ ॥

वैश्यस्य भार्यां सुकलां सुपुण्यां सत्येस्थितां धर्मविदां गुणज्ञाम्
इतो हि गत्वा कुरु कार्यमुक्तं साहाय्यरूपं च प्रिये सखे शृणु ॥ २० ॥

क्रीडां समाभाष्य ततो मनोभवस्त्वन्ते स्थितां प्रीतिमथाह्वयत्पुनः
कार्यं भवत्या ममकार्यमुत्तममे तां सुस्नेहैः परिभावयत्वम् ॥ २१ ॥

इन्द्रं हि दृष्ट्वा सुकला यथा भवेत्स्नेहानुगा चारुविलोचनेयम्
तैस्तैः प्रभावैर्गुणवाक्ययुक्तैर्नयस्व वश्यं च प्रिये सखे शृणु ॥ २२ ॥

भो भोः सखे साधय गच्छ शीघ्रं मायामयं नन्दनरूपयुक्तम्
पुष्पोपयुक्तं च फलप्रधानं घुष्टं रुतैः कोकिलषट्पदानाम् ॥ २३ ॥

आहूय वीरं मकरन्दमेव रसायनं स्वादुगुणैरुपेतम्
सहानिलाद्यैर्निजकर्मयुक्तैः सम्प्रेषयित्वा पुनरेव कामम् ॥ २४ ॥

एवं समादिश्य महत्ससैन्यं त्रैलोक्यसम्मोहकरं तु कामः
चक्रे प्रयाणं सुरराजसार्धं सम्मोहनायैव महासतीं ताम् २५