०५४

विष्णुरुवाच-

विश्वास-प्रस्तुतिः

एवमुक्ता गता दूती तया सुकलया तदा
समासेन सुसम्प्रोक्तमवधार्य पुरन्दरः ॥ १ ॥

मूलम्

तदर्थं भाषितं तस्याः सत्यधर्मसमन्वितम्
आलोच्य साहसं धैर्यं ज्ञानमेव पुरन्दरः ॥ २ ॥

ईदृशं हि वदेत्का हि नारी भूत्वा महीतले
योगरूपं सुसंशिष्टं न्यायोदैः क्षालितं वचः ॥ ३ ॥

पवित्रेयं महाभागा सत्यरूपा न संशयः
त्रैलोक्यस्य समस्तस्य धुरं धर्तुं भवेत्क्षमा ॥ ४ ॥

एतदर्थं विचार्यैव जिष्णुः कन्दर्पमब्रवीत्
त्वया सह गमिष्यामि द्रष्टुं तां कृकलप्रियाम् ॥ ५ ॥

प्रत्युवाच सहस्राक्षं मन्मथो बलदर्पितः
गम्यतां तत्र देवेश यत्रास्ते सा पतिव्रता ॥ ६ ॥

मानं वीर्यं बलं धैर्यं तस्याः सत्यं पतिव्रतम्
गत्वाहं नाशयिष्यामि कियन्मात्रा सुरेश्वर ॥ ७ ॥

समाकर्ण्य सहस्राक्षो वचनं मन्मथस्य च
भो भोनङ्ग शृणुष्व त्वमधिकं भाषितं मुधा ॥ ८ ॥

सुदृढा सत्यवीर्येण सुस्थिरा धर्मकर्मभिः
सुकलेयमजेया वै तत्र ते पौरुषं नहि ॥ ९ ॥

मूलम्

सुदृढा सत्यवीर्येण सुस्थिरा धर्मकर्मभिः
सुकलेयमजेया वै तत्र ते पौरुषं नहि ॥ ९ ॥

विश्वास-प्रस्तुतिः

इत्याकर्ण्य ततः क्रुद्धो मन्मथस्त्विन्द्रमब्रवीत्
ऋषीणां देवतानां च बलं मया प्रणाशितम् ॥ १० ॥

अस्या बलं कियन्मात्रं भवता मम कथ्यते
पश्यतस्तव देवेश नाशयिष्यामि तां स्त्रियम् ॥ ११ ॥

नवनीतं यथा चाग्नेस्तेजो दृष्ट्वा द्रवं व्रजेत्
तथेमां द्रावयिष्यामि स्वेन रूपेण तेजसा ॥ १२ ॥

गच्छ तत्र महत्कार्यमुपस्थं साम्प्रतं ध्रुवम्
कस्मात्कुत्ससि मे तेजस्त्रैलोक्यस्य विनाशनम् ॥ १३ ॥

आकर्ण्य वाक्यं तु मनोभवस्य एतामसाध्यां तव कामजाने
धैर्यं समुद्यम्य च पुण्यदेहां पुण्येन पुण्यां बहुपुण्यचाराम् ॥ १४ ॥

पश्यामि ते पौरुषमुग्रवीर्यमितो हि गत्वा तु धनुष्मता वै
तेनापि सार्धं प्रजगाम भूयो रत्या च दूत्या च पतिव्रतां ताम् ॥ १५ ॥

एकां सुपुण्यां स्वगृहस्थितां तां ध्यानेन पत्युश्चरणे नियुक्ताम्
यथा सुयोगी प्रविधाय चित्तं विकल्पहीनं न च कल्पयेत ॥ १६ ॥

अत्यद्भुतं रूपमनन्ततेजोयुतं चकाराथ सतीप्रमोहम्
नीलाञ्चितं भोगयुतं महात्मा झषध्वजश्चैव पुरन्दरश्च ॥ १७ ॥

दृष्ट्वा सुलीलं पुरुषं महान्तं चरन्तमेवं परिकामभावम्
जाया हि वैश्यस्य महात्मनस्तु मेने न सा रूपयुतं गुणज्ञम् ॥ १८ ॥

अम्भो यथा पद्मदले गतं वै प्रयाति मुक्ताफलकस्य कीर्तिम्
तद्वत्स्वभावः परिसत्ययुक्तो जज्ञे च तस्यास्तु पतिव्रतायाः ॥ १९ ॥

अनेन दूती परिप्रेषिता पुरा यामां युवत्या ह गुणज्ञमेनम्
लीलास्वरूपं बहुधात्मभावं ममैष सर्वं परिदर्शयेच्च ॥ २० ॥

ममैव कालं प्रबलं विचिन्त्यागतो हि मे कान्तगुणैश्च सत्खलः
रत्यासमेतस्तु कथं च जीवेत्सत्याश्मभारेण प्रमर्दितश्च ॥ २१ ॥

ममापि भावं परिगृह्य कान्तो जीवेत्कियान्वापि सुबुद्धियुक्तः
शून्यो हि कायो मम चास्ति सद्यश्चेष्टाविहीनो मृतकल्प एव ॥ २२ ॥

कायस्य ग्रामस्य प्रजाः प्रनष्टाः सुविक्रियाख्यं परिगृह्य कर्म
ममाधिकेनापि समं सुकान्तं स ऊर्द्ध्वशोभामनयच्च कामः ॥ २३ ॥

यदामृतो बलवान्हर्षयुक्तः स्वयन्दृशा वै परिनृत्यमानः
तथा अनेनापि प्रभाषयेद्भुतं यो मां हि वाञ्छत्यपि भोक्तुकामः ॥ २४ ॥

एवं विचार्यैव तदा महासती सत्याख्यरज्ज्वा दृढबद्धचेतना
गृहं स्वकीयं प्रविवेश सा तदा तत्तस्यभावं नियमेन वेत्तुम् ॥ २५ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे- चतुःपञ्चाशत्तमोऽध्यायः ५४