०५३

सुकलोवाच-

विश्वास-प्रस्तुतिः

एवं धर्मं श्रुतं पूर्वं पुराणेषु तदा मया
पतिहीना कथं भोगं करिष्ये पापनिश्चया ॥ १ ॥

मूलम्

कान्तेन तु विना तेन जीवं काये न धारये
विष्णुरुवाच-
एवमुक्त्वा परं धर्मं पतिव्रतमनुत्तमम् ॥ २ ॥

तास्तु सख्यो वरा नार्यो हर्षेण महतान्विताः
श्रुत्वा धर्मं परं पुण्यं नारीणां गतिदायकम् ॥ ३ ॥

स्तुवन्ति तां महाभागां सुकलां धर्मवत्सलाम्
ब्राह्मणाश्च सुराः सर्वे पुण्यस्त्रियो नरोत्तम ॥ ४ ॥

तस्या ध्यानं प्रकुर्वन्ति पतिकामप्रभावतः
अत्यर्थं दृढतामिन्द्र सुःविचिन्त्य सुरेश्वरः ॥ ५ ॥

सुकलायाः परं भावं सुविचार्यामरेश्वरः
चालये धैर्यमस्याश्च पतिस्नेहं न संशयः ॥ ६ ॥

सस्मार मन्मथं देवं त्वरमाणः सुराधिपः
पुष्पचापं स सङ्गृह्य मीनकेतुः समागतः ॥ ७ ॥

प्रियया च तया युक्तो रत्या दृष्टमहाबलः
बद्धाञ्जलिपुटो भूत्वा सहस्राक्षमुवाच सः ॥ ८ ॥

कस्मादहं त्वया नाथ अधुना संस्मृतो विभो
आदेशो दीयतां मेद्य सर्वभावेन मानद ॥ ९ ॥

मूलम्

कस्मादहं त्वया नाथ अधुना संस्मृतो विभो
आदेशो दीयतां मेद्य सर्वभावेन मानद ॥ ९ ॥

विश्वास-प्रस्तुतिः

इन्द्र उवाच-
सुकलेयं महाभागा पतिव्रतपरायणा
शृणुष्व कामदेव त्वं कुरु साहाय्यमुत्तमम् ॥ १० ॥

निष्कर्षय महाभागां सुकलां पुण्यमङ्गलाम्
तच्छ्रुत्वा वचनं तस्य शक्रस्य तमथाब्रवीत् ॥ ११ ॥

एवमस्तु सहस्राक्ष करिष्यामि न संशयः
साहाय्यं देवदेवेश तव कौतुककारणात् ॥ १२ ॥

एवमुक्त्वा महातेजाः कन्दर्पो मुनिदुर्जयः
देवाञ्जेतुं समर्थोऽहं समुनीनृषिसत्तमान् ॥ १३ ॥

किं पुनः कामिनीं देव यस्या अङ्गे न वै बलम्
कामिनीनामहं देव अङ्गेषु निवसाम्यहम् ॥ १४ ॥

भाले कुचेषु नेत्रेषु कचाग्रेषु च सर्वदा
नाभौ कट्यां पृष्ठदेशे जघने योनिमण्डले ॥ १५ ॥

अधरे दन्तभागेषु कक्षायां हि न संशयः
अङ्गेष्वेवं प्रत्यङ्गेषु सर्वत्र निवसाम्यहम् ॥ १६ ॥

नारी मम गृहं देव सदा तत्र वसाम्यहम्
तत्रस्थः पुरुषान्सर्वान्मारयामि न संशयः ॥ १७ ॥

स्वभावेनाबलादेव सन्तप्ता मम मार्गणैः
पितरं मातरं दृष्ट्वा अन्यं स्वजनबान्धवम् ॥ १८ ॥

सुरूपं सगुणं देव मम बाणा हता सती
चलते नात्र सन्देहो विपाकं नैव चिन्तयेत् ॥ १९ ॥

योनिः स्पन्देत नारीणां स्तनाग्रौ च सुरेश्वर
नास्ति धैर्यं सुरेशान सुकलां नाशयाम्यहम् ॥ २० ॥

पुरुषोहं भविष्यामि रूपवान्गुणवान्धनी
कौतुकार्थमिमां नारीं चालयामि मनोभव ॥ २१ ॥

नैव कामान्न सन्त्रासान्न वा लोभान्न कारणात्
न वै मोहान्न वै क्रोधात्सत्यं सत्यं रतिप्रिय ॥ २२ ॥

कथं मे दृश्यते तस्या महत्सत्यं पतिव्रतम्
निष्कर्षिष्य इतो गत्वा भवन्मोहोत्र कारणम् ॥ २३ ॥

एवं कामं च सन्दिश्य जगाम सुरराट्स्वयम्
आत्मविकृतिसम्भूतो रूपवान्गुणवान्स्वयम् ॥ २४ ॥

सर्वाभरणशोभाङ्गः सर्वभोगसमन्वितः
भोगलीलासमाकीर्णः सर्वदौदार्यसंयुतः ॥ २५ ॥

यत्र सा तिष्ठते देवी कृकलस्य प्रिया नृप
आत्मलीलां स्वरूपं च गुणं भावं प्रदर्शयेत् ॥ २६ ॥

नैव पश्यति सा तं तु पुरुषं रूपसम्पदम्
यत्रयत्र व्रजेत्सा हि तत्र तां पश्यते नृप ॥ २७ ॥

साभिलाषेण मनसा तामेवं परिपश्यति
कामचेष्टां सहस्राक्षोऽदर्शयत्सर्वभावकैः ॥ २८ ॥

चतुष्पथे पथे तीर्थे यत्र देवी प्रयाति सा
तत्रतत्र सहस्राक्षस्तामेव परिपश्यति ॥ २९ ॥

इन्द्रेण प्रेषिता दूती सुकलां प्रति सा गता
सुकलां सुमहाभागां प्रत्युवाच प्रहस्य वै ॥ ३० ॥

अहो सत्यमहोधैर्यमहो कान्तिरहो क्षमा
अस्या रूपेण संसारे नास्ति नारी वरानना ॥ ३१ ॥

का त्वं भवसि कल्याणि कस्य भार्या भविष्यसि
यस्य त्वं सगुणा भार्या स धन्यः पुण्यभाग्भुवि ॥ ३२ ॥

तस्यास्तु वचनं श्रुत्वा तामुवाच मनस्विनी
वैश्यजात्यां समुत्पन्नो धर्मात्मा सत्यवत्सलः ॥ ३३ ॥

तस्याहं हि प्रिया भार्या सत्यसन्धस्य धीमतः
कृकलस्यापि वैश्यस्य सत्यमेव वदामि ते ॥ ३४ ॥

मम भर्ता स धर्मात्मा तीर्थयात्रां गतः सुधीः
तस्मिन्गते महाभागे मम भर्तरि सम्प्रति ॥ ३५ ॥

अतिक्रान्ताः शृणुष्व त्वं त्रयश्चैवापि वत्सराः
ततोहं दुःखिता जाता विना तेन महात्मना ॥ ३६ ॥

एतत्ते सर्वमाख्यातमात्मवृत्तान्तमेव ते
भवती पृच्छते मां का भविष्यति वदस्व मे ॥ ३७ ॥

सुकलाया वचः श्रुत्वा दूत्या आभाषितं पुनः
मामेवं पृच्छसे भद्रे तत्ते सर्वं वदाम्यहम् ॥ ३८ ॥

अहं तवान्तिकं प्राप्ता कार्यार्थं वरवर्णिनि
श्रूयतामभिधास्यामि श्रुत्वा चैवाव धार्यताम् ॥ ३९ ॥

गतस्ते निर्घृणो भर्ता त्वां त्यक्त्वा तु वरानने
किं करिष्यसि तेनापि प्रियाघातकरेण च ॥ ४० ॥

यस्त्वां त्यक्त्वा गतः पापी साध्व्याचारसमन्विताम्
किं वा स ते गतो बाले तत्र जीवति वै मृतः ॥ ४१ ॥

किं करिष्यति तेनैवं भवती खिद्यते वृथा
कस्मान्नाशयते चाङ्गं दिव्यं हेमसमप्रभम् ॥ ४२ ॥

बाल्ये वयसि सम्प्राप्ते मानवो न च विन्दति
एकं सुखं महाभागे बालक्रीडां विना शुभे ॥ ४३ ॥

वार्द्धके दुःखसम्प्राप्तिर्जरा कायं प्रहिंसयेत्
तारुण्ये भुज्यते भोगः सुखात्सर्वो वरानने ॥ ४४ ॥

यावत्तिष्ठति तारुण्यं तावद्भुञ्जन्ति मानवाः
सुखभोगादिकं सर्वं स्वेच्छया रमते नरः ॥ ४५ ॥

यावत्तिष्ठति तारुण्यं तावद्भोगान्प्रभुञ्जते
वयस्यपि गते भद्रे तारुण्ये किं करिष्यति ॥ ४६ ॥

सम्प्राप्ते वार्द्धके देवि किञ्चित्कार्यं न सिध्यति
स्थविरश्चिन्तयेन्नित्यं सुखकार्यं न गच्छति ॥ ४७ ॥

वयस्यपि गते बाले क्रियते सेतुबन्धनम्
तादृशोयं भवेत्कायस्तारुण्ये तु गते शुभे ॥ ४८ ॥

तस्माद्भुङ्क्ष्व सुखेनापि पिबस्व मधुमाधवीम्
कामाबाणा दहन्त्यङ्गं तवेमे चारुलोचने ॥ ४९ ॥

अयमेकः समायातः पुरुषो रूपवान्गुणी
अयं हि पुरुषव्याघ्रः सर्वज्ञो गुणवान्धनी ॥ ५० ॥

तवार्थे नित्यसंयुक्तः स्नेहेन वरवर्णिनि
सुकलोवाच-
बाल्यं नास्त्यपि जीवस्य तारुण्यं नास्ति जीविते ॥ ५१ ॥

वृद्धत्वं नास्ति चैवास्य स्वयंसिद्धः सुसिद्धिदः
अमरो निर्जरो व्यापी सुसिद्धः सर्ववित्तमः ॥ ५२ ॥

अकामः कामदो लोके आत्मरूपेण वर्तते
यथा गेहस्य संस्थानं तथा कायस्य दृश्यते ॥ ५३ ॥

यथा वार्द्धकिना कायस्तथा सूत्रेण मन्दिरम्
अनेककाष्ठसङ्घातैर्नाना दारुसमुच्चयैः ॥ ५४ ॥

मृत्तिकयोदकेनापि समन्तात्परिणामयेत्
लिपितं लेपकैः काष्ठं चित्रं भवति चित्रकैः ॥ ५५ ॥

प्रथमं रूपमायाति गृहं सूत्रेण सूत्रितम्
पुष्णन्ति च स्वयं तत्तु लेपनाद्वै दिने दिने ॥ ५६ ॥

वायुनान्दोलितं नित्यं गृहं च मलिनायते
मध्यमो वर्तुतः कालो गृहस्य परिकथ्यते ॥ ५७ ॥

रूपहानिर्भवेत्तस्य गृहस्वामी विलेपयेत्
स्वेच्छया च गृहस्वामी रूपवत्त्वं नयेद्गृहम् ॥ ५८ ॥

तारुण्यं तस्य गेहस्य दूतिके परिकथ्यते
काष्ठसङ्घैश्च जीर्णत्वं बहुकालैः प्रयाति सः ॥ ५९ ॥

स्थानभ्रष्टाः प्रजायन्ते मूलाग्रे प्रचलन्ति ते
न सहेल्लेपनाभारमाधारेण प्रतिष्ठति ॥ ६० ॥

एतद्गृहस्य वार्द्धक्यं कथितं शृणु दूतिके
पतमानं गृहं दृष्ट्वा गृहस्वामी परित्यजेत् ॥ ६१ ॥

गृहमन्यं प्रवेशाय प्रयात्येव हि सत्वरम्
तथा बाल्यं च तारुण्यं नृणां वृद्धत्वमेव च ॥ ६२ ॥

स बाल्ये बालरूपश्च ज्ञानहीनं प्रकारयेत्
चित्रयेत्कायमेवापि वस्त्रालङ्कारभूषणैः ॥ ६३ ॥

लेपनैश्चन्दनैश्चान्यैस्ताम्बूलप्रभवादिभिः
कायस्तरुणतां याति अतिरूपो विजायते ॥ ६४ ॥

बाह्याभ्यन्तरमेवापि रसैः सर्वैः प्रपोषयेत्
तेन पोषणभावेन परिपुष्टः प्रजायते ॥ ६५ ॥

जायते मांसवृद्धिस्तु रसैश्चापि नवोत्तमा
यान्ति विस्तरतां राजन्नङ्गान्याप्यायितान्यपि ॥ ६६ ॥

प्रत्यङ्गानि रसैश्चैव स्वंस्वं रूपं प्रयान्ति वै
दन्ताधरौ स्तनौ बाहू कटिपृष्ठमुरू उभे ॥ ६७ ॥

हस्तपादतलौ तद्वद्वृद्धित्वं प्रतिपेदिरे
उभाभ्यामपि तान्येव वृद्धिमायान्ति तानि वै ॥ ६८ ॥

अङ्गानि रसमांसाभ्यां सुरूपाणि भवन्ति ते
तैः स्वरूपैर्भवेन्मर्त्यो रसबद्धश्च दूतिके ॥ ६९ ॥

सुरूपः कथ्यते मर्त्यो लोके केन प्रियो भवेत्
विष्ठामूत्रस्य वै कोशः काय एष च दूतिके ॥ ७० ॥

अपवित्रशरीरोयं सदा स्रवति निर्घृणः
तस्य किं वर्ण्यते रूपं जलबुद्बुदवच्छुभे ॥ ७१ ॥

यावत्पञ्चाशद्वर्षाणि तावत्तिष्ठति वै दृढः
पश्चाच्च जायते हानिस्तस्यैवापि दिनेदिने ॥ ७२ ॥

दन्ताः शिथिलतां यान्ति तथा लालायते मुखम्
चक्षुर्भ्यामपि पश्येन्न कर्णाभ्यां न शृणोति च ॥ ७३ ॥

गतिं कर्तुं न शक्नोति हस्तपादैश्च दूतिके
अक्षमो जायते कायो जराकालेन पीडितः ॥ ७४ ॥

तद्रसः शोषमायाति जराग्नितापशोषितः
अक्षमो जायते दूति केन रूपत्वमिष्यते ॥ ७५ ॥

यथा जीर्णं गृहं याति क्षयमेवं न संशयः
तथा सङ्क्षयमायाति वार्द्धके तु कलेवरम् ॥ ७६ ॥

ममरूपं समायातं वर्णस्येवं दिने दिने
केनाहं रूपसंयुक्ता केन रूपत्वमिष्यते ॥ ७७ ॥

यथा जीर्णं गृहं याति केनासौ पुरुषो बली
यस्यार्थमागता दूति भवती केन शंसति ॥ ७८ ॥

किमु चैव त्वया दृष्टं ममाङ्गे वद साम्प्रतम्
तस्याङ्गादिह हीनं च दूति नास्त्यधिकं तथा ॥ ७९ ॥

यथा त्वं च तथासौवै तथाहं नात्र संशयः
कस्य रूपं न विद्येत रूपवान्नास्ति भूतले ॥ ८० ॥

उच्छ्रायाः पतनान्ताश्च नगास्तु गिरयः शुभे
कालेन पीडिता यान्ति तद्वद्भूताश्च नान्यथा ॥ ८१ ॥

अरूपो रूपवान्दिव्य आत्मा सर्वगतः शुचिः
स्थावरेष्वेव सर्वेषु जङ्गमेषु च दूतिके ॥ ८२ ॥

एको निवसते शुद्धो घटेष्वेकं यथोदकम्
घटनाशात्प्रयात्येकमेकत्वं त्वं न बुध्यसे ॥ ८३ ॥

पिण्डनाशादयं चात्मा एकरूपो विजायते
एकं रूपं मया दृष्टं संसारे वसता सदा ॥ ८४ ॥

एवं वद स्वतं ज्ञात्वा यस्यार्थमिह चागता
दर्शयस्व अपूर्वं मे यदि भोक्तुमिहेच्छसि ॥ ८५ ॥

व्याधिना पीड्यमानस्य कफेनापि वृतस्य च
अङ्गाद्विचलते शोणः स्थानभ्रष्टोभिजायते ॥ ८६ ॥

अङ्गसन्धिषु सर्वासु पलत्वं चान्तरं गतः
एकतो नाशमायाति स्वं हि रूपं परित्यजेत् ॥ ८७ ॥

विष्ठात्वं जायते शीघ्रं कृमिभिश्च भवेत्किल
तद्वद्दुःखकरं वापि निजरूपं परित्यजेत् ॥ ८८ ॥

श्रूयतां जायते पश्चात्कृमिदुर्गन्धसङ्कुलम्
जायन्ते तत्र वै यूकाः कृमयो वा न संशयः ॥ ८९ ॥

सकृमिः कुरुते स्फोटं कण्डूं च परिदारुणाम्
व्यथामुत्पादयेद्यूका सर्वाङ्गं परिचालयेत् ॥ ९० ॥

नखाग्रैर्घृष्यमाणा सा कण्डूः शान्ता प्रजायते
तद्वत्तैश्च शृणुष्वैव सुरतस्य न संशयः ॥ ९१ ॥

भुञ्जत्येव रसान्मर्त्यः सुभिक्षान्पिबते पुनः
वायुना तेन प्राणेन पाकस्थानं प्रणीयते ॥ ९२ ॥

यद्भक्तं प्राणिभिर्दूति पाकस्थानं गतं पुनः
सर्वं तत्पिहितं तत्र वायुर्वै पातयेन्मलम् ॥ ९३ ॥

सारभूतो रसस्तत्र तद्रक्तश्च प्रजायते
निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च ॥ ९४ ॥

आकृष्टः स समानेन नीतस्तेनापि वायुना
स्थानं न लभते वीर्यं चञ्चलत्वेन वर्तते ॥ ९५ ॥

प्राणिनां हि कपालेषु कृमयः सन्ति पञ्च वै
द्वावेतौ कर्णमूले तु नेत्रस्थाने ततः पुनः ॥ ९६ ॥

कनिष्ठाङ्गुलिमानेन रक्तपुच्छाश्च दूतिके
नवनीतस्य वर्णेन कृष्णपुच्छा न संशयः ॥ ९७ ॥

तेषां नामापि भद्रे त्वं मत्तो निगदितं शृणु
पिङ्गली शृङ्खली नाम द्वौ कृमी कर्णमूलयोः ॥ ९८ ॥

चपलः पिप्पलश्चैव द्वावेतौ नासिकाग्रयोः
शृङ्गली जङ्गली चान्यौ नेत्रयोरन्तरस्थितौ ॥ ९९ ॥

कृमीणां शतपञ्चाशत्तादृग्भूता न संशयः
भालान्तेवस्थिताः सर्वे राजिकायाः प्रमाणतः १००
कपालरोगिणः सर्वे विकुर्वन्ति न संशयः
केशद्वयं मुखे तस्य विद्यते शृणु दूतिके १०१
प्राणिनां सङ्क्षयं विद्धि तत्क्षणे हि न संशयः
स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे १०२
तद्वीर्यं रसरूपेण पतते नात्र संशयः
मुखेन पिबते वीर्यं तेन मत्तः प्रजायते १०३
तालुमध्यप्रदेशे च चञ्चलत्वेन वर्तते
इडा च पिङ्गला नाडी सुषुम्णाख्या च संस्थिता १०४
सुबलेनापि तस्यैव नाडिका जालपञ्जरे
कामकण्डूर्भवेद्दूति सर्वेषां प्राणिनां किल १०५
पुंसश्च स्फुरते लिङ्गं नार्या योनिश्च दूतिके
स्त्रीपुंसौ सम्प्रमत्तौ तु व्रजतः सङ्गमं ततः १०६
कायेन कायसङ्घृष्टिर्मैथुनेन हि जायते
क्षणमात्रं सुखं काये पुनः कण्डूश्च तादृशी १०७
सर्वत्र दृश्यते दूति भाव एवंविधः किल
व्रज त्वमात्मनः स्थानं नैवास्त्यत्र अपूर्वता १०८
अपूर्वं नास्ति मे किञ्चित्करोम्येव न संशयः १०९
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
त्रिपञ्चाशत्तमोऽध्यायः ५३