०५२

शिवशर्मोवाच-

विश्वास-प्रस्तुतिः

मङ्गले श्रूयतां वाक्यं यदि पृच्छसि साम्प्रतम्
यदर्थं हि त्वया पृष्टं तन्निबोध वरानने ॥ १ ॥

मूलम्

मङ्गले श्रूयतां वाक्यं यदि पृच्छसि साम्प्रतम्
यदर्थं हि त्वया पृष्टं तन्निबोध वरानने ॥ १ ॥

विश्वास-प्रस्तुतिः

इयं हि साम्प्रतं प्राप्ता वराकी भिक्षुरूपिणी
वसुदत्तस्य विप्रस्य सुतेयं चारुलोचने ॥ २ ॥

मूलम्

इयं हि साम्प्रतं प्राप्ता वराकी भिक्षुरूपिणी
वसुदत्तस्य विप्रस्य सुतेयं चारुलोचने ॥ २ ॥

विश्वास-प्रस्तुतिः

सुदेवा नाम भद्रेयं मम जाया प्रिया सदा
केनापि कारणेनैव देशं त्यक्त्वा समागता ॥ ३ ॥

मूलम्

सुदेवा नाम भद्रेयं मम जाया प्रिया सदा
केनापि कारणेनैव देशं त्यक्त्वा समागता ॥ ३ ॥

विश्वास-प्रस्तुतिः

ममदुःखेन दग्धेयं वियोगेन वरानने
मां ज्ञात्वा तु समायाता भिक्षुरूपेण ते गृहम् ॥ ४ ॥

मूलम्

ममदुःखेन दग्धेयं वियोगेन वरानने
मां ज्ञात्वा तु समायाता भिक्षुरूपेण ते गृहम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

एवं ज्ञात्वा त्वया भद्रे आतिथ्यं परिशोभितम्
कर्त्तव्यं न च सन्देह इच्छन्त्या मम सुप्रियम् ॥ ५ ॥

मूलम्

एवं ज्ञात्वा त्वया भद्रे आतिथ्यं परिशोभितम्
कर्त्तव्यं न च सन्देह इच्छन्त्या मम सुप्रियम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

भर्तुर्वाक्यं निशम्यैव मङ्गला पतिदेवता
हर्षेण महताविष्टा स्वयमेव सुमङ्गला ॥ ६ ॥

मूलम्

भर्तुर्वाक्यं निशम्यैव मङ्गला पतिदेवता
हर्षेण महताविष्टा स्वयमेव सुमङ्गला ॥ ६ ॥

विश्वास-प्रस्तुतिः

स्नानाच्छादन भोज्यं च मम चक्रे वरानने
रत्नकाञ्चनयुक्तैश्चाभरणैश्च पतिव्रता ॥ ७ ॥

मूलम्

स्नानाच्छादन भोज्यं च मम चक्रे वरानने
रत्नकाञ्चनयुक्तैश्चाभरणैश्च पतिव्रता ॥ ७ ॥

विश्वास-प्रस्तुतिः

अहं हि भूषिता भद्रे तयैव पतिकाम्यया
तयाहं भूषिता देवि मानस्नानैश्च भोजनैः ॥ ८ ॥

मूलम्

अहं हि भूषिता भद्रे तयैव पतिकाम्यया
तयाहं भूषिता देवि मानस्नानैश्च भोजनैः ॥ ८ ॥

विश्वास-प्रस्तुतिः

भर्त्राहं मानिता देवि जातं दुःखमनन्तकम्
ममोरसि महातीव्रं सर्वप्राणविनाशनम् ॥ ९ ॥

मूलम्

भर्त्राहं मानिता देवि जातं दुःखमनन्तकम्
ममोरसि महातीव्रं सर्वप्राणविनाशनम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

तस्या मानो मया दृष्टो दुःखमात्मगतं तथा
चिन्ता मे दारुणा जाता यया प्राणा व्रजन्ति मे ॥ १० ॥

मूलम्

तस्या मानो मया दृष्टो दुःखमात्मगतं तथा
चिन्ता मे दारुणा जाता यया प्राणा व्रजन्ति मे ॥ १० ॥

विश्वास-प्रस्तुतिः

कदापि वचनं दत्तं न मया पापया शुभम्
अस्यैव विप्रवर्यस्य आचरन्त्या च दुष्कृतम् ॥ ११ ॥

मूलम्

कदापि वचनं दत्तं न मया पापया शुभम्
अस्यैव विप्रवर्यस्य आचरन्त्या च दुष्कृतम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

पादप्रक्षालनं नैव अङ्गसंवाहनं नहि
एकान्तं न मया दत्तं तस्यैव हि महात्मनः ॥ १२ ॥

मूलम्

पादप्रक्षालनं नैव अङ्गसंवाहनं नहि
एकान्तं न मया दत्तं तस्यैव हि महात्मनः ॥ १२ ॥

विश्वास-प्रस्तुतिः

सम्भाषां कथमस्यैव करिष्ये पापनिश्चया
रात्रौ चैव तदा तत्र पतिता दुःखसागरे ॥ १३ ॥

मूलम्

सम्भाषां कथमस्यैव करिष्ये पापनिश्चया
रात्रौ चैव तदा तत्र पतिता दुःखसागरे ॥ १३ ॥

विश्वास-प्रस्तुतिः

एवं हि चिन्तमानायाः स्फुटितं हृदयं मम
गताः प्राणास्तदा कायं परित्यज्य वरानने ॥ १४ ॥

मूलम्

एवं हि चिन्तमानायाः स्फुटितं हृदयं मम
गताः प्राणास्तदा कायं परित्यज्य वरानने ॥ १४ ॥

विश्वास-प्रस्तुतिः

तत्र दूताः समायाता धर्मराजस्य वै तदा
वीराश्च दारुणाः क्रूरा गदाचक्रासिधारिणः ॥ १५ ॥

मूलम्

तत्र दूताः समायाता धर्मराजस्य वै तदा
वीराश्च दारुणाः क्रूरा गदाचक्रासिधारिणः ॥ १५ ॥

विश्वास-प्रस्तुतिः

तैस्तु बद्धा महाभागे शृङ्खलैर्दृढबन्धनैः
नीता यमपुरं तैस्तु रुदमाना सुदुःखिता ॥ १६ ॥

मूलम्

तैस्तु बद्धा महाभागे शृङ्खलैर्दृढबन्धनैः
नीता यमपुरं तैस्तु रुदमाना सुदुःखिता ॥ १६ ॥

विश्वास-प्रस्तुतिः

मुद्गरैस्ताड्यमानाहं दुर्गमार्गेण पीडिता
भर्त्स्यमाना यमस्याग्रे तैस्तत्राहं प्रवेशिता ॥ १७ ॥

मूलम्

मुद्गरैस्ताड्यमानाहं दुर्गमार्गेण पीडिता
भर्त्स्यमाना यमस्याग्रे तैस्तत्राहं प्रवेशिता ॥ १७ ॥

विश्वास-प्रस्तुतिः

दृष्टाहं यमराजेन सक्रोधेन महात्मना
अङ्गारसञ्चये क्षिप्ता क्षिप्ता नरकसञ्चये ॥ १८ ॥

मूलम्

दृष्टाहं यमराजेन सक्रोधेन महात्मना
अङ्गारसञ्चये क्षिप्ता क्षिप्ता नरकसञ्चये ॥ १८ ॥

विश्वास-प्रस्तुतिः

लोहस्य पुरुषं कृत्वा अग्निना परितापितः
ममोरसि समुत्क्षिप्तो निजभर्तुश्च वञ्चनात् ॥ १९ ॥

मूलम्

लोहस्य पुरुषं कृत्वा अग्निना परितापितः
ममोरसि समुत्क्षिप्तो निजभर्तुश्च वञ्चनात् ॥ १९ ॥

विश्वास-प्रस्तुतिः

नानापीडातिसन्तप्ता नरकाग्निप्रतापिता
तैलद्रोण्यां परिक्षिप्ता करम्भवालुकोपरि ॥ २० ॥

मूलम्

नानापीडातिसन्तप्ता नरकाग्निप्रतापिता
तैलद्रोण्यां परिक्षिप्ता करम्भवालुकोपरि ॥ २० ॥

विश्वास-प्रस्तुतिः

असिपत्रैश्च सञ्च्छिन्ना जलमन्त्रेण वाहिता
कूटशाल्मलिवृक्षेषु क्षिप्ता तेन महात्मना ॥ २१ ॥

मूलम्

असिपत्रैश्च सञ्च्छिन्ना जलमन्त्रेण वाहिता
कूटशाल्मलिवृक्षेषु क्षिप्ता तेन महात्मना ॥ २१ ॥

विश्वास-प्रस्तुतिः

पूयशोणितविष्ठायां पतिता कृमिसङ्कुले
सर्वेषु नरकेष्वेवं क्षिप्ताहं नृपनन्दिनि ॥ २२ ॥

मूलम्

पूयशोणितविष्ठायां पतिता कृमिसङ्कुले
सर्वेषु नरकेष्वेवं क्षिप्ताहं नृपनन्दिनि ॥ २२ ॥

विश्वास-प्रस्तुतिः

पीडायुक्तेषु तीव्रेषु तेनैवापि महात्मना
करपत्रैः पाटिताहं शक्तिभिस्ताडिता भृशम् ॥ २३ ॥

मूलम्

पीडायुक्तेषु तीव्रेषु तेनैवापि महात्मना
करपत्रैः पाटिताहं शक्तिभिस्ताडिता भृशम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

अन्येष्वेव नरकेषु पातिता नृपनन्दिनि
योनिगर्तेषु क्षिप्तास्मि पतिता दुःखसङ्कटे ॥ २४ ॥

मूलम्

अन्येष्वेव नरकेषु पातिता नृपनन्दिनि
योनिगर्तेषु क्षिप्तास्मि पतिता दुःखसङ्कटे ॥ २४ ॥

विश्वास-प्रस्तुतिः

धर्मराजेन तेनाहं नरकेषु निपातिता
वल्गुनीयोनिमासाद्य भुक्तं दुःखं सुदारुणम् ॥ २५ ॥

मूलम्

धर्मराजेन तेनाहं नरकेषु निपातिता
वल्गुनीयोनिमासाद्य भुक्तं दुःखं सुदारुणम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

गताहं क्रौष्टुकीं योनिं शुनीयोनिं पुनर्गता
सकुक्कुटीं च मार्जारीमाखुयोनिं गता ह्यहम् ॥ २६ ॥

मूलम्

गताहं क्रौष्टुकीं योनिं शुनीयोनिं पुनर्गता
सकुक्कुटीं च मार्जारीमाखुयोनिं गता ह्यहम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

एवं योनिविशेषेषु पापयोनिषु तेन च
क्षिप्तास्मि धर्मराजेन पीडिता सर्वयोनिषु ॥ २७ ॥

मूलम्

एवं योनिविशेषेषु पापयोनिषु तेन च
क्षिप्तास्मि धर्मराजेन पीडिता सर्वयोनिषु ॥ २७ ॥

विश्वास-प्रस्तुतिः

तेनैवाहं कृता भूमौ शूकरी नृपनन्दिनि
तवहस्ते महाभागे सन्ति तीर्थान्यनेकशः ॥ २८ ॥

मूलम्

तेनैवाहं कृता भूमौ शूकरी नृपनन्दिनि
तवहस्ते महाभागे सन्ति तीर्थान्यनेकशः ॥ २८ ॥

विश्वास-प्रस्तुतिः

तेनोदकेन सिक्तास्मि त्वयैव वरवर्णिनि
मम पापं गतं देवि प्रसादात्तव सुन्दरि ॥ २९ ॥

मूलम्

तेनोदकेन सिक्तास्मि त्वयैव वरवर्णिनि
मम पापं गतं देवि प्रसादात्तव सुन्दरि ॥ २९ ॥

विश्वास-प्रस्तुतिः

तवैव तेजःपुण्येन जातं ज्ञानं वरानने
इदानीं मामुद्धरस्व पतितां नरकसङ्कटे ॥ ३० ॥

मूलम्

तवैव तेजःपुण्येन जातं ज्ञानं वरानने
इदानीं मामुद्धरस्व पतितां नरकसङ्कटे ॥ ३० ॥

विश्वास-प्रस्तुतिः

यदा नोद्धरसे देवि पुनर्यास्यामि दारुणम्
नरकं च महाभागे त्राहि मां दुःखभागिनीम् ॥ ३१ ॥

मूलम्

यदा नोद्धरसे देवि पुनर्यास्यामि दारुणम्
नरकं च महाभागे त्राहि मां दुःखभागिनीम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

गताहं पापभावेन दीनाहं च निराश्रया
सुदेवोवाच-
किं कृतं हि मया भद्रे सुकृतं पुण्यसम्भवम् ॥ ३२ ॥

मूलम्

गताहं पापभावेन दीनाहं च निराश्रया
सुदेवोवाच-
किं कृतं हि मया भद्रे सुकृतं पुण्यसम्भवम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

येनाहमुद्धरे त्वां वै तन्मे त्वं वद साम्प्रतम्
शूकर्युवाच-
अयं राजा महाभाग इक्ष्वाकुर्मनुनन्दनः ॥ ३३ ॥

मूलम्

येनाहमुद्धरे त्वां वै तन्मे त्वं वद साम्प्रतम्
शूकर्युवाच-
अयं राजा महाभाग इक्ष्वाकुर्मनुनन्दनः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

विष्णुरेष महाप्राज्ञो भवती श्रीर्हि नान्यथा
पतिव्रता महाभागा पतिव्रतपरायणा ॥ ३४ ॥

मूलम्

विष्णुरेष महाप्राज्ञो भवती श्रीर्हि नान्यथा
पतिव्रता महाभागा पतिव्रतपरायणा ॥ ३४ ॥

विश्वास-प्रस्तुतिः

त्वं सती सर्वदा भद्रे सर्वतीर्थमयी प्रिया
देवि सर्वमयी नित्यं सर्वदेवमयी सदा ॥ ३५ ॥

मूलम्

त्वं सती सर्वदा भद्रे सर्वतीर्थमयी प्रिया
देवि सर्वमयी नित्यं सर्वदेवमयी सदा ॥ ३५ ॥

विश्वास-प्रस्तुतिः

महापतिव्रता लोक एका त्वं नृपतेः प्रिया
यया शुश्रूषितो भर्ता भवत्या हि अहर्निशम् ॥ ३६ ॥

मूलम्

महापतिव्रता लोक एका त्वं नृपतेः प्रिया
यया शुश्रूषितो भर्ता भवत्या हि अहर्निशम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

एकस्य दिवसस्यापि पुण्यं देहि वरानने
पति शुश्रूषितस्यापि यदि मे कुरुषे प्रियम् ॥ ३७ ॥

मूलम्

एकस्य दिवसस्यापि पुण्यं देहि वरानने
पति शुश्रूषितस्यापि यदि मे कुरुषे प्रियम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

मम माता पिता त्वं वै त्वं मे गुरुः सनातनः
अहं पापा दुराचारा असत्या ज्ञानवर्जिता ॥ ३८ ॥

मूलम्

मम माता पिता त्वं वै त्वं मे गुरुः सनातनः
अहं पापा दुराचारा असत्या ज्ञानवर्जिता ॥ ३८ ॥

विश्वास-प्रस्तुतिः

मामुद्धर महाभागे भीताहं यमताडनैः
सुकलोवाच-
एवं श्रुत्वा तया प्रोक्तं समालोक्य नृपं तदा ॥ ३९ ॥

मूलम्

मामुद्धर महाभागे भीताहं यमताडनैः
सुकलोवाच-
एवं श्रुत्वा तया प्रोक्तं समालोक्य नृपं तदा ॥ ३९ ॥

विश्वास-प्रस्तुतिः

किं करोमि महाराज एषा किं वदते पशुः
इक्ष्वाकुरुवाच-
एनां दुःखां वराकीं वै पापयोनिं गतां शुभे ॥ ४० ॥

मूलम्

किं करोमि महाराज एषा किं वदते पशुः
इक्ष्वाकुरुवाच-
एनां दुःखां वराकीं वै पापयोनिं गतां शुभे ॥ ४० ॥

विश्वास-प्रस्तुतिः

समुद्धरस्व पुण्यैस्त्वं महच्छ्रेयो भविष्यति
एवमुक्ता वरा नारी सुदेवा चारुमङ्गला ॥ ४१ ॥

मूलम्

समुद्धरस्व पुण्यैस्त्वं महच्छ्रेयो भविष्यति
एवमुक्ता वरा नारी सुदेवा चारुमङ्गला ॥ ४१ ॥

विश्वास-प्रस्तुतिः

उवाचैकाब्दपुण्यं ते मया दत्तं वरानने
एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणात् ॥ ४२ ॥

मूलम्

उवाचैकाब्दपुण्यं ते मया दत्तं वरानने
एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणात् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

रूपयौवनसम्पन्ना दिव्यमालाविभूषिता
दिव्यदेहा च सम्भूता तेजोज्वालासमावृता ॥ ४३ ॥

मूलम्

रूपयौवनसम्पन्ना दिव्यमालाविभूषिता
दिव्यदेहा च सम्भूता तेजोज्वालासमावृता ॥ ४३ ॥

विश्वास-प्रस्तुतिः

सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता
सञ्जाता दिव्यरूपा सा दिव्यगन्धानुलेपना ॥ ४४ ॥

मूलम्

सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता
सञ्जाता दिव्यरूपा सा दिव्यगन्धानुलेपना ॥ ४४ ॥

विश्वास-प्रस्तुतिः

दिव्यं विमानमारूढा अन्तरिक्षं गता सती
तामुवाच ततो राज्ञीं प्रणतानतकन्धरा ॥ ४५ ॥

मूलम्

दिव्यं विमानमारूढा अन्तरिक्षं गता सती
तामुवाच ततो राज्ञीं प्रणतानतकन्धरा ॥ ४५ ॥

विश्वास-प्रस्तुतिः

स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुन्दरि
व्रजामि पातकान्मुक्ता स्वर्गं पुण्यतमं शुभम् ॥ ४६ ॥

मूलम्

स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुन्दरि
व्रजामि पातकान्मुक्ता स्वर्गं पुण्यतमं शुभम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

प्रणम्यैवं गता स्वर्गं सुदेवा शृणु सत्तम
एतत्ते सर्वमाख्यातं सुकलाया निवेदितम् ॥ ४७ ॥

मूलम्

प्रणम्यैवं गता स्वर्गं सुदेवा शृणु सत्तम
एतत्ते सर्वमाख्यातं सुकलाया निवेदितम् ॥ ४७ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे सुदेवास्वर्गारोहणन्नाम द्विपञ्चाशत्तमोऽध्यायः ५२