ब्राह्मण्युवाच-
विश्वास-प्रस्तुतिः
गते तस्मिन्दुराचारे गोभिले पापचेतसि
पद्मावती रुरोदाथ दुःखेन महतान्विता ॥ १ ॥
मूलम्

तस्यास्तु रुदितं श्रुत्वा सख्यः सर्वा द्विजोत्तम
पप्रच्छुस्तां राजकन्यां ताः सर्वाश्च वराननाः ॥ २ ॥

कस्माद्रोदिषि भद्रं ते कथयस्व हि चेष्टितम्
क्व गतोऽसौ महाराजो माथुराधिपतिस्तव ॥ ३ ॥

येन त्वं हि समाहूता प्रियेत्युक्त्वा वदस्व नः
ता उवाच सुदुःखेन रोदमाना पुनः पुनः ॥ ४ ॥

तया आवेदितं सर्वं यज्जातं दोषसम्भवम्
ताभिर्नीता पितुर्गेहं वेपमाना सुदुःखिता ॥ ५ ॥

मातुः समक्षं तस्यास्तु आचचक्षुस्तदा स्त्रियः
समाकर्ण्य ततो देवी गता सा भर्तृमन्दिरम् ॥ ६ ॥

भर्तारं श्रावयामास सुतावृत्तान्तमेव हि
समाकर्ण्य ततो राजा महादुःखी अजायत ॥ ७ ॥
मूलम्
भर्तारं श्रावयामास सुतावृत्तान्तमेव हि
समाकर्ण्य ततो राजा महादुःखी अजायत ॥ ७ ॥
विश्वास-प्रस्तुतिः
यानाच्छादनकं दत्वा परिवारसमन्विताम्
मथुरां प्रेषयामास गता सा प्रियमन्दिरम् ॥ ८ ॥

सुतादोषं समाच्छाद्य पितामाता द्विजोत्तम
उग्रसेनस्तु धर्मात्मा पद्मावतीं समागताम् ॥ ९ ॥

स दृष्ट्वा मुमुदे चाशु उवाचेदं वचः पुनः
त्वया विना न शक्तोस्मि जीवितुं हि वरानने ॥ १० ॥

बहुप्रभासि मे प्रीता गुणशीलैस्तु सर्वदा
भक्त्या सत्येन ते कान्ते पतिदैवत्यकैर्गुणैः ॥ ११ ॥

समाभाष्य प्रियां भार्यां पद्मावतीं नरेश्वरः
तया सार्धं स वै रेमे उग्रसेनो नृपोत्तमः ॥ १२ ॥

ववृधे दारुणो गर्भः सर्वलोकभयप्रदः
पद्मावती विजानाति तस्य गर्भस्य कारणम् ॥ १३ ॥

स्वोदरे वर्द्धमानस्य चिन्तयन्ती दिवानिशम्
अनेन किमु जातेन लोकनाशकरेण वै ॥ १४ ॥

अनेनापि न मे कार्यं दुष्टपुत्रेण साम्प्रतम्
औषधीं पृच्छते सा तु गर्भपातस्य सर्वतः ॥ १५ ॥

नारी महौषधीं सा हि विन्दन्ती च दिने दिने
गर्भस्य पातनायैव उपाया बहुशः कृताः ॥ १६ ॥

ववृधे दारुणो गर्भः सर्वलोकभयङ्करः
तामुवाच ततो गर्भः पद्मावतीं च मातरम् ॥ १७ ॥

कस्मात्त्वं व्यथसे मातरौषधीभिर्दिनेदिने
पुण्येन वर्द्धते चायुः पापेनाल्पं तु जीवितम् ॥ १८ ॥

आत्मकर्मविपाकेन जीवन्ति च म्रियन्ति च
आमगर्भाः प्रयान्त्यन्ये अपक्वास्तु महीतले ॥ १९ ॥

जातमात्रा म्रियन्तेऽन्ये कति ते यौवनान्विताः
बाला वृद्धाश्च तरुणा आयुषोवशतां गताः ॥ २० ॥

सर्वे कर्मविपाकेन जीवन्ति च म्रियन्ति च
ओषध्यो मन्त्रदेवाश्च निमित्ताः स्युर्न संशयः ॥ २१ ॥

मामेव हि न जानासि भवती यादृशो ह्यहम्
दृष्टः श्रुतस्त्वया पूर्वं कालनेमिर्महाबलः ॥ २२ ॥

दानवानां महावीर्यस्त्रैलोक्यस्य भयप्रदः
देवासुरे महायुद्धे हतोहं विष्णुना पुरा ॥ २३ ॥

साधयितुं च तद्वैरमागतोऽस्मि तवोदरम्
साहसं च श्रमं मातर्मा कुरुष्व दिन दिने ॥ २४ ॥

एवमुक्त्वा द्विजश्रेष्ठ मातरं विरराम सः
मातोद्यमं परित्यज्य महादुःखादभूत्तदा ॥ २५ ॥

दशाब्दाश्च गता यावत्तावद्वृद्धिमवाप्तवान्
पश्चाज्जज्ञे महातेजाः कंसोभूत्स महाबलः ॥ २६ ॥

येन सन्त्रासिता लोकास्त्रैलोक्यस्य निवासिनः
यो हतो वासुदेवेन गतो मोक्षं न संशयः ॥ २७ ॥

एवं श्रुतं मया कान्त भविष्यं तु भविष्यति
पुराणेष्वेव सर्वेषु निश्चितं कथितं तव ॥ २८ ॥

पितृगेहेस्थिता कन्या नाशमेवं प्रयाति सा
गृहावासाय मे कान्त कन्या मोहं न कारयेत् ॥ २९ ॥

इमां दुष्टां महापापां परित्यज्य स्थिरो भव
प्राप्तव्यं तु महापापं दुःखं दारुणमेव च ॥ ३० ॥

लोके श्रेयःकरं कान्त तद्भुङ्क्ष्व त्वं मया सह
शूकर्युवाच-
एतद्वाक्यं सुमन्त्रं तु श्रुत्वा स हि द्विजोत्तमः ॥ ३१ ॥

त्यागे मतिं चकारासौ समाहूता ह्यहं तदा
सकलं वस्त्रशृङ्गारं मम दत्तं शुभे शृणु ॥ ३२ ॥

तवैव दुर्नयैर्विप्रः शिवशर्मा द्विजोत्तमः
गतो वै मतिमान्दुष्टे कुलदुष्टप्रचारिणि ॥ ३३ ॥

यत्र ते तिष्ठते भर्ता तत्र गच्छ न संशयः
तव यद्रोचते स्थानं यथादिष्टं तथा कुरु ॥ ३४ ॥

एवमुक्त्वा महाभागे पितृमातृकुटुम्बकैः
परित्यक्ता गता शीघ्रं निर्लज्जाहं वरानने ॥ ३५ ॥

न लभाम्यहमेवापि वासस्थानं सुखं शुभे
भर्त्सयन्ति च मां लोकाः पुंश्चलीयं समागता ॥ ३६ ॥

अटमाना गता देशात्कुलमानेन वर्जिता
देशे गुर्जरके पुण्ये सौराष्ट्रे शिवमन्दिरे ॥ ३७ ॥

वनस्थलेति विख्यातं नगरं वृद्धिसङ्कुलम्
अतीव पीडिता देवि क्षुधयाहं तदा शृणु ॥ ३८ ॥

कर्परं हि करे गृह्य भिक्षार्थमुपचक्रमे
गृहिणां द्वारदेशेषु प्रविशामि सुदुःखिता ॥ ३९ ॥

मम रूपं विपश्यन्ति लोकाः कुत्सन्ति भामिनि
न ददन्ते च मे भिक्षां पापा चेयं समागता ॥ ४० ॥

एवं दुःखसमाहारा दारिद्र्यपरिपीडिता
अटन्त्या च मया दृष्टं गृहमेकमनुत्तमम् ॥ ४१ ॥

तुङ्गप्राकारसंवेष्टं वेदशालासमन्वितम्
वेदध्वनिसमाकीर्णं बहुविप्रसमाकुलम् ॥ ४२ ॥

धनधान्यसमाकीर्णं दासीदासैरलङ्कृतम्
प्रविवेश गृहं रम्यं लक्ष्मीमुदितमेव तत् ॥ ४३ ॥

तद्गृहं सर्वतोभद्रं तस्यैव शिवशर्मणः
भिक्षां देहीत्युवाचाथ सुदेवा दुःखपीडिता ॥ ४४ ॥

शिवशर्माथ शुश्राव भिक्षाशब्दं द्विजोत्तमः
मङ्गलां नाम वै भार्यां लक्ष्मीरूपां वराननाम् ॥ ४५ ॥

तां हसन्प्राह धर्मात्मा शिवशर्मा महामतिः
इयं हि दुर्बला प्राप्ता भिक्षार्थं द्वारमागता ॥ ४६ ॥

समाहूय प्रिये चैनां देहि त्वं भोजनं शुभे
कृपया परयाविष्टा ज्ञात्वा मां तु समागताम् ॥ ४७ ॥

प्रोवाच मङ्गला कान्तं दास्यामि प्रिय भोजनम्
एवमुक्त्वा च भर्तारं मङ्गला मङ्गलान्विता ॥ ४८ ॥

पुनर्मां भोजयामास मिष्टान्नेन सुदुर्बलाम्
मामुवाच स धर्मात्मा शिवशर्मा महामुनिः ॥ ४९ ॥

का त्वमत्र समायाता कस्य वा भ्रमसे जगत्
केन कार्येण सर्वत्र कथयस्व ममाग्रतः ॥ ५० ॥

एवमाकर्ण्य तद्वाक्यं भर्तुश्चैव महात्मनः
स्वरेण लक्षितः कान्तो मया वै पापया तदा ॥ ५१ ॥

व्रीडयाधोमुखीजाता दृष्टो भर्ता यदा मया
मङ्गला चारुसर्वाङ्गी भर्तारमिदमब्रवीत् ॥ ५२ ॥

का चेयं हि समाचक्ष्व त्वां दृष्ट्वा हि विलज्जति
कथयस्व प्रसादेन का च एषा भविष्यति ॥ ५३ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
एकपञ्चाशत्तमोऽध्यायः ५१