०५०

सुकलोवाच-

विश्वास-प्रस्तुतिः

तस्यास्तु वचनं श्रुत्वा गोभिलो वाक्यमब्रवीत्
भवती शप्तुकामासि कस्मान्मे कारणं वद ॥ १ ॥

मूलम्

केन दोषेण लिप्तोस्मि यस्मात्त्वं शप्तुमुद्यता
गोभिलो नाम दैत्योस्मि पौलस्त्यस्य भटः शुभे ॥ २ ॥

दैत्याचारेण वर्तामि जाने विद्यामनुत्तमाम्
वेदशास्त्रार्थवेत्तास्मि कलासु निपुणः पुनः ॥ ३ ॥

एवं सर्वं विजानामि दैत्याचारं शृणुष्व मे
परस्वं परदारांश्च बलाद्भुञ्जामि नान्यथा ॥ ४ ॥

वयं दैत्याः समाकर्ण्य दैत्याचारेण साम्प्रतम्
वर्त्तामो ज्ञानिभावेन सत्यं सत्यं वदाम्यहम् ॥ ५ ॥

ब्राह्मणानां हि च्छिद्राणि विपश्यामो दिने दिने
तेषां हि तपसो नाशं विघ्नैः कुर्मो न संशयः ॥ ६ ॥

छिद्रं प्राप्य वयं देवि नाशयामो न संशयः
ब्राह्मणाञ्छ्रूयतां भद्रे देवयज्ञं वरानने ॥ ७ ॥

नाशयामो वयं यज्ञान्धर्मयज्ञं न संशयः
सुब्राह्मणान्परित्यज्य देवं नारायणं प्रभुम् ॥ ८ ॥

पतिव्रतां महाभागां सुमतिं भर्तृतत्पराम्
दूरेणापि परित्यज्य तिष्ठामो नात्र संशयः ॥ ९ ॥

तेजो देवि सुविप्रस्य हरेश्चैव महात्मनः
नार्याः पतिव्रतायाश्च सोढुं दैत्याश्च न क्षमाः ॥ १० ॥

पतिव्रताभयेनापि विष्णोः सुब्राह्मणस्य च
नश्यन्ति दानवाः सर्वे दूरं राक्षसपुङ्गवाः ॥ ११ ॥

अहं दानवधर्मेण विचरामि महीतलम्
कस्मात्त्वं शप्तुकामासि मम दोषो विचार्यताम् ॥ १२ ॥

पद्मावत्युवाच-
मम धर्मः सुकायश्च त्वयैव परिनाशितः
अहं पतिव्रता साध्वी पतिकामा तपस्विनी ॥ १३ ॥

स्वमार्गे संस्थिता पाप मायया परिनाशिता
तस्मात्त्वामप्यहं दुष्ट आधक्ष्यामि न संशयः ॥ १४ ॥

गोभिल उवाच-
धर्ममेव प्रवक्ष्यामि भवती यदि मन्यते
अग्निचिद्ब्राह्मणस्यापि श्रूयतां नृपनन्दिनी ॥ १५ ॥

जुह्वन्देवं द्विकालं यो न त्यजेदग्निमन्दिरम्
स चाग्निहोत्री भवति यजत्येव दिनेदिने ॥ १६ ॥

अन्यच्चैवं प्रवक्ष्यामि भृत्यधर्मं वरानने
मनसा कर्मणा वाचा विशुद्धो योऽपि नित्यशः ॥ १७ ॥

नित्यमादेशकारी यः पश्चात्तिष्ठति चाग्रतः
स भृत्यः कथ्यते देवि पुण्यभागी न संशयः ॥ १८ ॥

यः पुत्रो गुणवाञ्ज्ञाता पितरं पालयेच्छुभः
मातरं च विशेषेण मनसा काय कर्मभिः ॥ १९ ॥

तस्य भागीरथी स्नानमहन्यहनि जायते
अन्यथा कुरुते यो हि स पापीयान्न संशयः ॥ २० ॥

अन्यच्चैवं प्रवक्ष्यामि पतिव्रतमनुत्तमम्
वाचा सुमनसा चैव कर्मणा शृणु भामिनि ॥ २१ ॥

शुश्रूषां कुरुते या हि भर्तुश्चैव दिन दिने
तुष्टे भर्त्तरि या प्रीता न त्यजेत्क्रोधनं पुनः ॥ २२ ॥

तस्य दोषं न गृह्णाति ताडिता तुष्यते पुनः
भर्त्तुः कर्मसु सर्वेषु पुरतस्तिष्ठते सदा ॥ २३ ॥

सा चापि कथ्यते नारी पतिव्रतपरायणा
पतितोपि पितापुत्रैर्बहुदोषसमन्वितः ॥ २४ ॥

कस्मादपि च न त्याज्यः कुष्ठितः क्रुधितोऽपि वा
एवं पुत्राः शुश्रूषन्ति पितरं मातरं किल ॥ २५ ॥

ते यान्ति परमं लोकं तद्विष्णोः परमं पदम्
एवं हि स्वामिनं ये वै उपाचरन्ति भृत्यकाः ॥ २६ ॥

पत्युर्लोकं प्रयान्त्येते प्रसादात्स्वामिनस्तदा
अग्निं नैव त्यजेद्विप्रो ब्रह्मलोकं प्रयाति सः ॥ २७ ॥

अग्नित्यागकरो विप्रो वृषलीपतिरुच्यते
स्वामिद्रोही भवेद्भृत्यः स्वामित्यागान्न संशयः ॥ २८ ॥

अग्निं च पितरं चैव न त्यजेत्स्वामिनं शुभे
सदा विप्रः सुतो भृत्यः सत्यं सत्यं वदाम्यहम् ॥ २९ ॥

परित्यज्य प्रगच्छन्ति ते यान्ति नरकार्णवम्
पतितं व्याधितं देवि विकलं कुष्ठिनं तथा ॥ ३० ॥

सर्वकर्मविहीनं च गतवित्तादिसञ्चयम्
भर्तारं न त्यजेन्नारी यदि श्रेय इहेच्छति ॥ ३१ ॥

त्यक्त्वा कान्तं व्रजेन्नारी अन्यत्कार्यमिहेच्छति
सा मता पुंश्चली लोके सर्वधर्मबहिष्कृता ॥ ३२ ॥

गते भर्तरि या ग्रामं भोगं शृङ्गारमेव च
लौल्याच्च कुरुते नारी पुंश्चली वदते जनः ॥ ३३ ॥

एवं धर्मं विजानामि वेदशास्त्रैश्च सम्मतम्
दानवा राक्षसाः प्रेता धात्रा सृष्टा यदादितः ॥ ३४ ॥

तत्रेह कारणं सर्वं प्रवक्ष्यामि न संशयः
ब्राह्मणा दानवाश्चैव पिशाचाश्चैव राक्षसाः ॥ ३५ ॥

धर्मार्थं सकलं प्रोक्तमधीतं तैस्तु सुन्दरि
विन्दन्ति सकलं सर्वे आचरन्ति न दानवाः ॥ ३६ ॥

विधिहीनं प्रकुर्वन्ति दानवा ज्ञानवर्जिताः
अन्यायेन व्रजन्त्येते मानवा विधिवर्जिताः ॥ ३७ ॥

तेषां शासनहेत्वर्थं कृता एतेपि नान्यथा
विधिहीनं प्रकुर्वन्ति ये हि धर्मं नराधमाः ॥ ३८ ॥

तान्वयं शासयामो वै दण्डेन महता किल
भवत्या दारुणं कर्म कृतमेव सुनिर्घृणम् ॥ ३९ ॥

गार्हस्थ्यं च परित्यज्य अत्रायाता किमर्थतः
वदस्येवं मुखेनापि अहं हि पतिदेवता ॥ ४० ॥

कर्मणा नास्ति तद्दृष्टं पतिदैवत्यमेव ते
भर्तारं तं परित्यज्य किमर्थं त्वमिहागता ॥ ४१ ॥

शृङ्गारं भूषणं वेषं कृत्वा तिष्ठसि निर्घृणा
किमर्थं हि कृतं पापे कस्यहेतोर्वदस्व मे ॥ ४२ ॥

निःशङ्का वर्त्तसे चापि प्रमत्ता गिरिकानने
मया त्वं साधिता पापा दण्डेन महता शृणु ॥ ४३ ॥

अधर्मचारिणी दुष्टा पतिं त्यक्त्वा समागता
क्वास्ते तत्पतिदेवत्वं दर्शय त्वं ममाग्रतः ॥ ४४ ॥

भवती पुंश्चली नाम यया त्यक्तः स्वकः पतिः
पृथक्छय्या यदा नारी तदा सा पुंश्चली मता ॥ ४५ ॥

योजनानां शतैकस्य सोन्तरेण प्रवर्त्तते
क्वास्ति ते पतिदैवत्यं पुंश्चल्याचारचारिणी ॥ ४६ ॥

निर्लज्जे निर्घृणे दुष्टे किं मे वदसि सम्मुखी
तपसः क्वास्ति ते भावः क्व तेजोबलमेव च ॥ ४७ ॥

दर्शयस्व ममाद्यैव बलवीर्यपराक्रमम्
पद्मावत्युवाच-
स्नेहेनापि समानीता श्रूयतामसुराधम ॥ ४८ ॥

भर्तुर्गेहादहं पित्रा क्वास्ते तत्र च पातकम्
नैव कामान्न लोभाच्च न मोहान्न च मत्सरात् ॥ ४९ ॥

आगताहं पतिं त्यक्त्वा पतिभावेन संस्थिता
भर्तृरूपच्छलेनापि त्वयैव परिवञ्चिता ॥ ५० ॥

भवन्तं माथुरं ज्ञात्वा गताहं सम्मुखं तव
मायाविनं यदा जाने त्वामेवं दानवाधम ॥ ५१ ॥

एकेन हुङ्कृतेनैव भस्मीभूतं करोम्यहम्
गोभिल उवाच-
चक्षुर्हीना न पश्यन्ति मानवाः शृणु साम्प्रतम् ॥ ५२ ॥

धर्मनेत्रविहीना त्वं कथं जानासि मामिह
यदा ते भाव उत्पन्नः पितुर्गेहं प्रति शृणु ॥ ५३ ॥

पतिध्यानं परित्यज्य मुक्ता ध्यानेन त्वं तदा
ज्ञाननेत्रं तदा नष्टं स्फुटं च हृदये तव ॥ ५४ ॥

कथं मां त्वं विजानासि ज्ञानचक्षुर्हता भुवि
कस्या माता पिता भ्राता कस्याः स्वजनबान्धवाः ॥ ५५ ॥

सर्वस्थाने पतिर्ह्येको भार्यायास्तु न संशयः
इत्युक्त्वा हि प्रहस्यैव गोभिलो दानवाधमः ॥ ५६ ॥

न भयं विद्यते तेऽद्य ममापि शृणु पुंश्चलि
किं भवेत्तव शापेन वृथैव परिकम्पसे ॥ ५७ ॥

ममगेहं समाश्रित्य भुङ्क्ष्व भोगान्मनोऽनुगान्
पद्मावत्युवाच-
गच्छ पापसमाचार किं त्वं वदसि निर्घृणः ॥ ५८ ॥

सतीभावेन संस्थास्मि पतिव्रतपरायणा
धक्ष्यामि त्वां महापाप यद्येवं तु वदिष्यसि ॥ ५९ ॥

एवमुक्त्वा तथैकान्ते निषसाद महीतले
दुःखेन महताविष्टां तामुवाच स गोभिलः ॥ ६० ॥

तवोदरे मया न्यस्तं स्ववीर्यं सुकृतं शुभे
तस्मादुत्पत्स्यते पुत्रस्त्रैलोक्यक्षोभकारकः ॥ ६१ ॥

एवमुक्त्वा जगामाथ गोभिलो दानवस्तदा
गते तस्मिन्दुराचारे दानवे पापचारिणी ॥ ६२ ॥

दुःखेन महताविष्टा नृपकन्या रुरोद ह ॥ ६३ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
पञ्चाशत्तमोऽध्यायः ५०