ब्राह्मण्युवाच-
विश्वास-प्रस्तुतिः
एकदा तु महाभाग गता सा पर्वतोत्तमे
रमणीयं वनं दृष्ट्वा कदलीखण्डमण्डितम् ॥ १ ॥
मूलम्
एकदा तु महाभाग गता सा पर्वतोत्तमे
रमणीयं वनं दृष्ट्वा कदलीखण्डमण्डितम् ॥ १ ॥
विश्वास-प्रस्तुतिः
शालैस्तालैस्तमालैश्च नालिकेरैस्तथोत्कटैः
पूगीफलैर्मातुलिगैर्नारङ्गैश्चारुजम्बुकैः ॥ २ ॥
मूलम्
शालैस्तालैस्तमालैश्च नालिकेरैस्तथोत्कटैः
पूगीफलैर्मातुलिगैर्नारङ्गैश्चारुजम्बुकैः ॥ २ ॥
विश्वास-प्रस्तुतिः
चम्पकैः पाटलैः पुण्यैः पुष्पितैः कुटकैर्वटैः
अशोकबकुलोपेतं नानावृक्षैरलङ्कृतम् ॥ ३ ॥
मूलम्
चम्पकैः पाटलैः पुण्यैः पुष्पितैः कुटकैर्वटैः
अशोकबकुलोपेतं नानावृक्षैरलङ्कृतम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
पर्वतं पुण्यवन्तं तं पुष्पितैश्च नगोत्तमैः
सर्वत्र दृश्यते रम्यो नानाधातुसमाकुलः ॥ ४ ॥
मूलम्
पर्वतं पुण्यवन्तं तं पुष्पितैश्च नगोत्तमैः
सर्वत्र दृश्यते रम्यो नानाधातुसमाकुलः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तडागं सर्वतोभद्रं पुण्यतोयेन पूरितम्
कमलैः पुष्पितैश्चान्यैः सुगन्धैः कनकोत्पलैः ॥ ५ ॥
मूलम्
तडागं सर्वतोभद्रं पुण्यतोयेन पूरितम्
कमलैः पुष्पितैश्चान्यैः सुगन्धैः कनकोत्पलैः ॥ ५ ॥
विश्वास-प्रस्तुतिः
श्वेतोत्पलैर्विभासन्तं रक्तोत्पलसुपुष्पितैः
नीलोत्पलैश्च कह्लारैर्हंसैश्च जलकुक्कुटैः ॥ ६ ॥
मूलम्
श्वेतोत्पलैर्विभासन्तं रक्तोत्पलसुपुष्पितैः
नीलोत्पलैश्च कह्लारैर्हंसैश्च जलकुक्कुटैः ॥ ६ ॥
विश्वास-प्रस्तुतिः
पक्षिभिर्जलजैश्चान्यैर्नानाधातुसमाकुलः
तडागं सर्वतः शुभ्रं नानापक्षिगणैर्युतम् ॥ ७ ॥
मूलम्
पक्षिभिर्जलजैश्चान्यैर्नानाधातुसमाकुलः
तडागं सर्वतः शुभ्रं नानापक्षिगणैर्युतम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
कोकिलानां रुतैः पुण्यैः सुस्वरैः परिशोभितः
मधुराणां तथा शब्दैः सर्वत्र मधुरायते ॥ ८ ॥
मूलम्
कोकिलानां रुतैः पुण्यैः सुस्वरैः परिशोभितः
मधुराणां तथा शब्दैः सर्वत्र मधुरायते ॥ ८ ॥
विश्वास-प्रस्तुतिः
षट्पदानां सुनादेन सर्वत्र परिशोभते
एवंविधं गिरिं रम्यं तदेव वनमुत्तमम् ॥ ९ ॥
मूलम्
षट्पदानां सुनादेन सर्वत्र परिशोभते
एवंविधं गिरिं रम्यं तदेव वनमुत्तमम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
तडागं सर्वतोभद्रं ददृशे नृपनन्दिनी
वैदर्भी क्रीडमाना सा सखीभिः सहिता तदा ॥ १० ॥
मूलम्
तडागं सर्वतोभद्रं ददृशे नृपनन्दिनी
वैदर्भी क्रीडमाना सा सखीभिः सहिता तदा ॥ १० ॥
विश्वास-प्रस्तुतिः
समालोक्य वनं पुण्यं सर्वत्र कुसुमाकुलम्
चापल्येन प्रभावेण स्त्रीभावेन च लीलया ॥ ११ ॥
मूलम्
समालोक्य वनं पुण्यं सर्वत्र कुसुमाकुलम्
चापल्येन प्रभावेण स्त्रीभावेन च लीलया ॥ ११ ॥
विश्वास-प्रस्तुतिः
पद्मावती सरस्तीरे सखीभिः सहिता तदा
जलक्रीडा समालीना हसते गायते पुनः ॥ १२ ॥
मूलम्
पद्मावती सरस्तीरे सखीभिः सहिता तदा
जलक्रीडा समालीना हसते गायते पुनः ॥ १२ ॥
विश्वास-प्रस्तुतिः
रममाणा च सा तस्मिंस्तस्मिन्सरसि भामिनी
एवं विप्र तदा सा तु सुखेन परिवर्तयेत् ॥ १३ ॥
मूलम्
रममाणा च सा तस्मिंस्तस्मिन्सरसि भामिनी
एवं विप्र तदा सा तु सुखेन परिवर्तयेत् ॥ १३ ॥
विश्वास-प्रस्तुतिः
विष्णुरुवाच-
गोभिलो नाम वै दैत्यो भृत्यो वैश्रवणस्य च
दिव्येनापि विमानेन सर्वभोगपरिप्लुतः ॥ १४ ॥
मूलम्
विष्णुरुवाच-
गोभिलो नाम वै दैत्यो भृत्यो वैश्रवणस्य च
दिव्येनापि विमानेन सर्वभोगपरिप्लुतः ॥ १४ ॥
विश्वास-प्रस्तुतिः
याति चाकाशमार्गेण गोभिलो दैत्यसत्तमः
तेन दृष्टा विशालाक्षी वैदर्भी निर्भया तदा ॥ १५ ॥
मूलम्
याति चाकाशमार्गेण गोभिलो दैत्यसत्तमः
तेन दृष्टा विशालाक्षी वैदर्भी निर्भया तदा ॥ १५ ॥
विश्वास-प्रस्तुतिः
सर्वयोषिद्वरा सा हि उग्रसेनस्य वै प्रिया
रूपेणाप्रतिमा लोके सर्वाङ्गेषु विराजते ॥ १६ ॥
मूलम्
सर्वयोषिद्वरा सा हि उग्रसेनस्य वै प्रिया
रूपेणाप्रतिमा लोके सर्वाङ्गेषु विराजते ॥ १६ ॥
विश्वास-प्रस्तुतिः
रतिर्वै मन्मथस्यापि किं वापीयं हरिप्रिया
किं वापि पार्वती देवी शची किं वा भविष्यति ॥ १७ ॥
मूलम्
रतिर्वै मन्मथस्यापि किं वापीयं हरिप्रिया
किं वापि पार्वती देवी शची किं वा भविष्यति ॥ १७ ॥
विश्वास-प्रस्तुतिः
यादृशी दृश्यते चेयं नारीणां प्रवरोत्तमा
अन्यापि ईदृशी नास्ति द्वितीया क्षितिमण्डले ॥ १८ ॥
मूलम्
यादृशी दृश्यते चेयं नारीणां प्रवरोत्तमा
अन्यापि ईदृशी नास्ति द्वितीया क्षितिमण्डले ॥ १८ ॥
विश्वास-प्रस्तुतिः
नक्षत्रेषु यथा चन्द्रः सम्पूर्णो भाति शोभनः
गुणरूपकलाभिस्तु तथा भाति वरानना ॥ १९ ॥
मूलम्
नक्षत्रेषु यथा चन्द्रः सम्पूर्णो भाति शोभनः
गुणरूपकलाभिस्तु तथा भाति वरानना ॥ १९ ॥
विश्वास-प्रस्तुतिः
पुष्करेषु यथा हंसस्तथेयं चारुहासिनी
अहो रूपमहोभाव अस्यास्तु परिदृश्यते ॥ २० ॥
मूलम्
पुष्करेषु यथा हंसस्तथेयं चारुहासिनी
अहो रूपमहोभाव अस्यास्तु परिदृश्यते ॥ २० ॥
विश्वास-प्रस्तुतिः
का कस्य शोभना बाला चारुवृत्तपयोधरा
व्यमृशद्गोभिलो दैत्यः पद्मावतीं वराननाम् ॥ २१ ॥
मूलम्
का कस्य शोभना बाला चारुवृत्तपयोधरा
व्यमृशद्गोभिलो दैत्यः पद्मावतीं वराननाम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
चिन्तयित्वा क्षणं विप्र का कस्यापि भविष्यति
ज्ञानेन महता ज्ञात्वा वैदर्भीति न संशयः ॥ २२ ॥
मूलम्
चिन्तयित्वा क्षणं विप्र का कस्यापि भविष्यति
ज्ञानेन महता ज्ञात्वा वैदर्भीति न संशयः ॥ २२ ॥
विश्वास-प्रस्तुतिः
दयिता उग्रसेनस्य पतिव्रतपरायणा
आत्मबलेन तिष्ठन्ती दुष्प्राप्या पुरुषैरपि ॥ २३ ॥
मूलम्
दयिता उग्रसेनस्य पतिव्रतपरायणा
आत्मबलेन तिष्ठन्ती दुष्प्राप्या पुरुषैरपि ॥ २३ ॥
विश्वास-प्रस्तुतिः
उग्रसेनो महामूर्खः प्रेषिता येन वै वरा
पितुर्गेहमियं बाला स तु भाग्येन वर्जितः ॥ २४ ॥
मूलम्
उग्रसेनो महामूर्खः प्रेषिता येन वै वरा
पितुर्गेहमियं बाला स तु भाग्येन वर्जितः ॥ २४ ॥
विश्वास-प्रस्तुतिः
अनया विना स जीवेच्च कथं कूटमतिः सदा
किं वा नपुंसको राजा एनां यो हि परित्यजेत् ॥ २५ ॥
मूलम्
अनया विना स जीवेच्च कथं कूटमतिः सदा
किं वा नपुंसको राजा एनां यो हि परित्यजेत् ॥ २५ ॥
विश्वास-प्रस्तुतिः
तां दृष्ट्वा स तु कामात्मा सञ्जातस्तत्क्षणादपि
इयं पतिव्रता बाला दुष्प्राप्या पुरुषैरपि ॥ २६ ॥
मूलम्
तां दृष्ट्वा स तु कामात्मा सञ्जातस्तत्क्षणादपि
इयं पतिव्रता बाला दुष्प्राप्या पुरुषैरपि ॥ २६ ॥
विश्वास-प्रस्तुतिः
कथं भोक्ष्याम्यहं गत्वा कामो मामति पीडयेत्
अभुक्त्वैनां यदा यास्ये तत्स्यान्मृत्युर्ममैव हि ॥ २७ ॥
मूलम्
कथं भोक्ष्याम्यहं गत्वा कामो मामति पीडयेत्
अभुक्त्वैनां यदा यास्ये तत्स्यान्मृत्युर्ममैव हि ॥ २७ ॥
विश्वास-प्रस्तुतिः
अद्यैव हि न सन्देहो यतः कामो महाबलः
इति चिन्तापरो भूत्वा गोभिलो मनसैक्षत ॥ २८ ॥
मूलम्
अद्यैव हि न सन्देहो यतः कामो महाबलः
इति चिन्तापरो भूत्वा गोभिलो मनसैक्षत ॥ २८ ॥
विश्वास-प्रस्तुतिः
कृत्वा मायामयं रूपमुग्रसेनस्य भूपतेः
यादृशस्तूग्रसेनश्च साङ्गोपाङ्गो महानृपः ॥ २९ ॥
मूलम्
कृत्वा मायामयं रूपमुग्रसेनस्य भूपतेः
यादृशस्तूग्रसेनश्च साङ्गोपाङ्गो महानृपः ॥ २९ ॥
विश्वास-प्रस्तुतिः
गोभिलस्तादृशो भूत्वा गत्या च स्वरभाषया
यथावस्त्रो यथावेशो वयसा च तथा पुनः ॥ ३० ॥
मूलम्
गोभिलस्तादृशो भूत्वा गत्या च स्वरभाषया
यथावस्त्रो यथावेशो वयसा च तथा पुनः ॥ ३० ॥
विश्वास-प्रस्तुतिः
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः
सर्वाभरणशोभाङ्गो यादृशो माथुरेश्वरः ॥ ३१ ॥
मूलम्
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः
सर्वाभरणशोभाङ्गो यादृशो माथुरेश्वरः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
भूत्वाथ तादृशो दैत्य उग्रसेनमयस्तदा
मायया परया युक्तो रूपलावण्यसम्पदा ॥ ३२ ॥
मूलम्
भूत्वाथ तादृशो दैत्य उग्रसेनमयस्तदा
मायया परया युक्तो रूपलावण्यसम्पदा ॥ ३२ ॥
विश्वास-प्रस्तुतिः
पर्वताग्रे अशोकस्यच्छायामाश्रित्य संस्थितः
शिलातलस्थो दुष्टात्मा वीणादण्डेन वीरकः ॥ ३३ ॥
मूलम्
पर्वताग्रे अशोकस्यच्छायामाश्रित्य संस्थितः
शिलातलस्थो दुष्टात्मा वीणादण्डेन वीरकः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सुस्वरं गायमानस्तु गीतं विश्वप्रमोहनम्
तालमानक्रियोपेतं सप्तस्वरविभूषितम् ॥ ३४ ॥
मूलम्
सुस्वरं गायमानस्तु गीतं विश्वप्रमोहनम्
तालमानक्रियोपेतं सप्तस्वरविभूषितम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः
पर्वताग्रे स्थितो विप्र हर्षेण महतान्वितः ॥ ३५ ॥
मूलम्
गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः
पर्वताग्रे स्थितो विप्र हर्षेण महतान्वितः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सखीमध्यगता सा तु पद्मावती वरानना
शुश्रुवे सुस्वरं गीतं तालमानलयान्वितम् ॥ ३६ ॥
मूलम्
सखीमध्यगता सा तु पद्मावती वरानना
शुश्रुवे सुस्वरं गीतं तालमानलयान्वितम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
कोऽयं गायति धर्मात्मा महत्सौख्यप्रदायकम्
गीतं हि सत्क्रियोपेतं सर्वभावसमन्वितम् ॥ ३७ ॥
मूलम्
कोऽयं गायति धर्मात्मा महत्सौख्यप्रदायकम्
गीतं हि सत्क्रियोपेतं सर्वभावसमन्वितम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सखीभिः सहिता गत्वा औत्सुक्येन नृपात्मजा
अशोकच्छायामाश्रित्य विमले सुशिलातले ॥ ३८ ॥
मूलम्
सखीभिः सहिता गत्वा औत्सुक्येन नृपात्मजा
अशोकच्छायामाश्रित्य विमले सुशिलातले ॥ ३८ ॥
विश्वास-प्रस्तुतिः
ददर्श भूपवेषेण गोभिलं दानवाधमम्
पुष्पमालाम्बरधरं दिव्यगन्धानुलेपनम् ॥ ३९ ॥
मूलम्
ददर्श भूपवेषेण गोभिलं दानवाधमम्
पुष्पमालाम्बरधरं दिव्यगन्धानुलेपनम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सर्वाभरणशोभाङ्गं पद्मावती पतिव्रता
मथुरेशः समायातः कदा धर्मपरायणः ॥ ४० ॥
मूलम्
सर्वाभरणशोभाङ्गं पद्मावती पतिव्रता
मथुरेशः समायातः कदा धर्मपरायणः ॥ ४० ॥
विश्वास-प्रस्तुतिः
मम नाथो महात्मा वै राज्यं त्यक्त्वा प्रदूरतः
यावद्धि चिन्तयेत्सा च तावत्पापेन तेन सा ॥ ४१ ॥
मूलम्
मम नाथो महात्मा वै राज्यं त्यक्त्वा प्रदूरतः
यावद्धि चिन्तयेत्सा च तावत्पापेन तेन सा ॥ ४१ ॥
विश्वास-प्रस्तुतिः
समाहूता तुरीभूय एहि त्वं हि प्रिये मम
चकिताशङ्कितासाचकथम्भर्त्तासमागतः ॥ ४२ ॥
मूलम्
समाहूता तुरीभूय एहि त्वं हि प्रिये मम
चकिताशङ्कितासाचकथम्भर्त्तासमागतः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
लज्जिता दुःखिता जाता अधःकृत्वा ततो मुखम्
अहं पापा दुराचारा निःशङ्का परिवर्तिता ॥ ४३ ॥
मूलम्
लज्जिता दुःखिता जाता अधःकृत्वा ततो मुखम्
अहं पापा दुराचारा निःशङ्का परिवर्तिता ॥ ४३ ॥
विश्वास-प्रस्तुतिः
कोपमेवं महाभागः करिष्यति न संशयः
यावद्धि चिन्तयेत्सा च तावत्तेनापि पापिना ॥ ४४ ॥
मूलम्
कोपमेवं महाभागः करिष्यति न संशयः
यावद्धि चिन्तयेत्सा च तावत्तेनापि पापिना ॥ ४४ ॥
विश्वास-प्रस्तुतिः
समाहूता तुरीभूय एह्येहि त्वं मम प्रिये
त्वया विना कृतो देवि प्राणान्धर्तुं वरानने ॥ ४५ ॥
मूलम्
समाहूता तुरीभूय एह्येहि त्वं मम प्रिये
त्वया विना कृतो देवि प्राणान्धर्तुं वरानने ॥ ४५ ॥
विश्वास-प्रस्तुतिः
न हि शक्नोम्यहं कान्ते जीवितं प्रियमेव च
तव स्नेहेन लुब्धोस्मि त्वां त्यक्त्वा नोत्सहे भृशम् ॥ ४६ ॥
मूलम्
न हि शक्नोम्यहं कान्ते जीवितं प्रियमेव च
तव स्नेहेन लुब्धोस्मि त्वां त्यक्त्वा नोत्सहे भृशम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण्युवाच-
एवमुक्ता गतापश्यत्सुमुखं लज्जयान्विता
समालिङ्ग्य ततो दैत्यः सतीं पद्मावतीं तदा ॥ ४७ ॥
मूलम्
ब्राह्मण्युवाच-
एवमुक्ता गतापश्यत्सुमुखं लज्जयान्विता
समालिङ्ग्य ततो दैत्यः सतीं पद्मावतीं तदा ॥ ४७ ॥
विश्वास-प्रस्तुतिः
एकान्तं तु समानीता सुभुक्ता इच्छया ततः
दैत्येन गोभिलेनापि सत्यकेतोः सुता तदा ॥ ४८ ॥
मूलम्
एकान्तं तु समानीता सुभुक्ता इच्छया ततः
दैत्येन गोभिलेनापि सत्यकेतोः सुता तदा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
सुकलोवाच-
मुष्कस्थानेस्य सङ्केतं नाविन्दत वरानना
स्ववस्त्रं सा परिगृह्य शङ्किता दुःखिता ह्यभूत् ॥ ४९ ॥
मूलम्
सुकलोवाच-
मुष्कस्थानेस्य सङ्केतं नाविन्दत वरानना
स्ववस्त्रं सा परिगृह्य शङ्किता दुःखिता ह्यभूत् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
सा सक्रोधा वचः प्राह गोभिलं दानवाधमम्
कस्त्वं पापसमाचारो निर्घृणो दानवाकृतिः ॥ ५० ॥
मूलम्
सा सक्रोधा वचः प्राह गोभिलं दानवाधमम्
कस्त्वं पापसमाचारो निर्घृणो दानवाकृतिः ॥ ५० ॥
विश्वास-प्रस्तुतिः
शप्तुकामा समुद्युक्ता दुःखेनाकुलितेक्षणा
वेपमाना तदा राजन्दुःखभारेण पीडिता ॥ ५१ ॥
मूलम्
शप्तुकामा समुद्युक्ता दुःखेनाकुलितेक्षणा
वेपमाना तदा राजन्दुःखभारेण पीडिता ॥ ५१ ॥
विश्वास-प्रस्तुतिः
मम कान्तच्छलेनैव त्वयागत्य दुरात्मवन्
नाशितं धर्ममेवाग्र्यं पातिव्रत्यमनुत्तमम् ॥ ५२ ॥
मूलम्
मम कान्तच्छलेनैव त्वयागत्य दुरात्मवन्
नाशितं धर्ममेवाग्र्यं पातिव्रत्यमनुत्तमम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
सुस्वरं रुदितं कृत्वा मम जन्म त्वया हृतम्
पश्य मे बलमत्रैव शापं दास्ये सुदारुणम् ॥ ५३ ॥
मूलम्
सुस्वरं रुदितं कृत्वा मम जन्म त्वया हृतम्
पश्य मे बलमत्रैव शापं दास्ये सुदारुणम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
एवं सम्भाषमाणा तं शप्तुकामा तु गोभिलम् ॥ ५४ ॥
मूलम्
एवं सम्भाषमाणा तं शप्तुकामा तु गोभिलम् ॥ ५४ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
एकोनपञ्चाशत्तमोऽध्यायः ४९