०४८

ब्राह्मण्युवाच-

विश्वास-प्रस्तुतिः

माथुरे विषये रम्ये मथुरायां नृपोत्तमः
उग्रसेनेति विख्यातो यादवः परवीरहा ॥ १ ॥

मूलम्

माथुरे विषये रम्ये मथुरायां नृपोत्तमः
उग्रसेनेति विख्यातो यादवः परवीरहा ॥ १ ॥

विश्वास-प्रस्तुतिः

सर्वधर्मार्थतत्त्वज्ञो वेदज्ञः श्रुतवान्बली
दाता भोक्ता गुणग्राही सद्गुणान्वेत्ति भूपतिः ॥ २ ॥

मूलम्

सर्वधर्मार्थतत्त्वज्ञो वेदज्ञः श्रुतवान्बली
दाता भोक्ता गुणग्राही सद्गुणान्वेत्ति भूपतिः ॥ २ ॥

विश्वास-प्रस्तुतिः

राज्यं चकार मेधावी प्रजा धर्मेण पालयेत्
एवं स च महातेजा उग्रसेनः प्रतापवान् ॥ ३ ॥

मूलम्

राज्यं चकार मेधावी प्रजा धर्मेण पालयेत्
एवं स च महातेजा उग्रसेनः प्रतापवान् ॥ ३ ॥

विश्वास-प्रस्तुतिः

वैदर्भे विषये पुण्ये सत्यकेतुः प्रतापवान्
तस्य कन्या महाभागा पद्माक्षी कमलानना ॥ ४ ॥

मूलम्

वैदर्भे विषये पुण्ये सत्यकेतुः प्रतापवान्
तस्य कन्या महाभागा पद्माक्षी कमलानना ॥ ४ ॥

विश्वास-प्रस्तुतिः

नाम्ना पद्मावती नाम सत्यधर्मपरायणा
सा तु स्त्रीणां गुणैर्युक्ता द्वितीयेव समुद्रजा ॥ ५ ॥

मूलम्

नाम्ना पद्मावती नाम सत्यधर्मपरायणा
सा तु स्त्रीणां गुणैर्युक्ता द्वितीयेव समुद्रजा ॥ ५ ॥

विश्वास-प्रस्तुतिः

वैदर्भी शुशुभे राजन्स्वगुणैः सत्यकारणैः
माथुर उग्रसेनस्तु उपयेमे सुलोचनाम् ॥ ६ ॥

मूलम्

वैदर्भी शुशुभे राजन्स्वगुणैः सत्यकारणैः
माथुर उग्रसेनस्तु उपयेमे सुलोचनाम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तया सह महाभाग सुखं रेमे प्रतापवान्
अतिप्रीतो गुणैस्तस्यास्तया सह सुखीभवेत् ॥ ७ ॥

मूलम्

तया सह महाभाग सुखं रेमे प्रतापवान्
अतिप्रीतो गुणैस्तस्यास्तया सह सुखीभवेत् ॥ ७ ॥

विश्वास-प्रस्तुतिः

तस्याः स्नेहेन प्रीत्या च सम्मुग्धो माथुरेश्वरः
पद्मावती महाभागा तस्य प्राणप्रियाभवत् ॥ ८ ॥

मूलम्

तस्याः स्नेहेन प्रीत्या च सम्मुग्धो माथुरेश्वरः
पद्मावती महाभागा तस्य प्राणप्रियाभवत् ॥ ८ ॥

विश्वास-प्रस्तुतिः

तया विना न बुभुजे तया सह प्रक्रीडयेत्
तया विना न सेवेत परमं सुखमेव सः ॥ ९ ॥

मूलम्

तया विना न बुभुजे तया सह प्रक्रीडयेत्
तया विना न सेवेत परमं सुखमेव सः ॥ ९ ॥

विश्वास-प्रस्तुतिः

एवं प्रीतिकरौ जातौ परस्परमनुत्तमौ
स्नेहवन्तौ द्विजश्रेष्ठ सुखसम्प्रीतिदायकौ ॥ १० ॥

मूलम्

एवं प्रीतिकरौ जातौ परस्परमनुत्तमौ
स्नेहवन्तौ द्विजश्रेष्ठ सुखसम्प्रीतिदायकौ ॥ १० ॥

विश्वास-प्रस्तुतिः

सत्यकेतुश्च राजेन्द्रः सस्मार स पद्मावतीम्
स्वसुतां तां महाभागो माता तस्याः सुदुःखिता ॥ ११ ॥

मूलम्

सत्यकेतुश्च राजेन्द्रः सस्मार स पद्मावतीम्
स्वसुतां तां महाभागो माता तस्याः सुदुःखिता ॥ ११ ॥

विश्वास-प्रस्तुतिः

स दूतान्प्रेषयामास वैदर्भो मथुरां प्रति
उग्रसेनं नृवीरेन्द्रं सादरेण द्विजोत्तम ॥ १२ ॥

मूलम्

स दूतान्प्रेषयामास वैदर्भो मथुरां प्रति
उग्रसेनं नृवीरेन्द्रं सादरेण द्विजोत्तम ॥ १२ ॥

विश्वास-प्रस्तुतिः

उग्रसेनं महाराजं स दूतो वाक्यमब्रवीत्
विदर्भाधिपतिर्वीरो भक्त्या स्नेहेन नन्दयन् ॥ १३ ॥

मूलम्

उग्रसेनं महाराजं स दूतो वाक्यमब्रवीत्
विदर्भाधिपतिर्वीरो भक्त्या स्नेहेन नन्दयन् ॥ १३ ॥

विश्वास-प्रस्तुतिः

आत्मनः कुशलं ब्रूते भवतां परिपृच्छति
सत्यकेतुर्महाराज त्वामेवं परिपृष्टवान् ॥ १४ ॥

मूलम्

आत्मनः कुशलं ब्रूते भवतां परिपृच्छति
सत्यकेतुर्महाराज त्वामेवं परिपृष्टवान् ॥ १४ ॥

विश्वास-प्रस्तुतिः

दर्शनाय प्रेषयस्व सुतां पद्मावतीं मम
यदि त्वं मन्यसे नाथ प्रीतिस्नेहं हितस्य च ॥ १५ ॥

मूलम्

दर्शनाय प्रेषयस्व सुतां पद्मावतीं मम
यदि त्वं मन्यसे नाथ प्रीतिस्नेहं हितस्य च ॥ १५ ॥

विश्वास-प्रस्तुतिः

प्रेषयस्व महाभागां प्रियां प्रीतिकरां तव
औत्कण्ठ्येन महाराज स सोत्कण्ठेन वर्तते ॥ १६ ॥

मूलम्

प्रेषयस्व महाभागां प्रियां प्रीतिकरां तव
औत्कण्ठ्येन महाराज स सोत्कण्ठेन वर्तते ॥ १६ ॥

विश्वास-प्रस्तुतिः

समाकर्ण्य ततो वाक्यमुग्रसेनो नृपोत्तमः
प्रीत्या स्नेहेन तस्यापि सत्यकेतोर्महात्मनः ॥ १७ ॥

मूलम्

समाकर्ण्य ततो वाक्यमुग्रसेनो नृपोत्तमः
प्रीत्या स्नेहेन तस्यापि सत्यकेतोर्महात्मनः ॥ १७ ॥

विश्वास-प्रस्तुतिः

दाक्षिण्येन च विप्रेन्द्र प्रेषयामास भूपतिः
पद्मावतीं प्रियां भार्यामुग्रसेनः प्रतापवान् ॥ १८ ॥

मूलम्

दाक्षिण्येन च विप्रेन्द्र प्रेषयामास भूपतिः
पद्मावतीं प्रियां भार्यामुग्रसेनः प्रतापवान् ॥ १८ ॥

विश्वास-प्रस्तुतिः

प्रेषितानेन राजेन्द्र गता पद्मावती स्वकम्
पूर्वं गृहं सती सा तु महाहर्षेण सङ्कुला ॥ १९ ॥

मूलम्

प्रेषितानेन राजेन्द्र गता पद्मावती स्वकम्
पूर्वं गृहं सती सा तु महाहर्षेण सङ्कुला ॥ १९ ॥

विश्वास-प्रस्तुतिः

पितृपूर्वं कुटुम्बं तु ददृशे चारुमङ्गला
पितुः पादौ ननामाथ शिरसा सत्यतत्परा ॥ २० ॥

मूलम्

पितृपूर्वं कुटुम्बं तु ददृशे चारुमङ्गला
पितुः पादौ ननामाथ शिरसा सत्यतत्परा ॥ २० ॥

विश्वास-प्रस्तुतिः

आगतायां महाराजा पद्मावत्यां द्विजोत्तम
हर्षेण महताविष्टो विदर्भाधिपतिर्नृपः ॥ २१ ॥

मूलम्

आगतायां महाराजा पद्मावत्यां द्विजोत्तम
हर्षेण महताविष्टो विदर्भाधिपतिर्नृपः ॥ २१ ॥

विश्वास-प्रस्तुतिः

वर्द्धिता दानमानैश्च वस्त्रालङ्कारभूषणैः
पद्मावती सुखेनापि पितुर्गेहे प्रवर्तते ॥ २२ ॥

मूलम्

वर्द्धिता दानमानैश्च वस्त्रालङ्कारभूषणैः
पद्मावती सुखेनापि पितुर्गेहे प्रवर्तते ॥ २२ ॥

विश्वास-प्रस्तुतिः

सखीभिः सहिता सा तु निःशङ्का परिवर्तते
रमते सा तदा तत्र यथापूर्वं तथैव च ॥ २३ ॥

मूलम्

सखीभिः सहिता सा तु निःशङ्का परिवर्तते
रमते सा तदा तत्र यथापूर्वं तथैव च ॥ २३ ॥

विश्वास-प्रस्तुतिः

गृहे वने तडागेषु प्रासादे च तथैव सा
पुनर्बालेव भूता सा निर्लज्जा सम्प्रवर्तते ॥ २४ ॥

मूलम्

गृहे वने तडागेषु प्रासादे च तथैव सा
पुनर्बालेव भूता सा निर्लज्जा सम्प्रवर्तते ॥ २४ ॥

विश्वास-प्रस्तुतिः

निःशङ्का वर्तते विप्र सखीभिः सह सर्वदा
पतिव्रता महाभागा हर्षेण महतान्विता ॥ २५ ॥

मूलम्

निःशङ्का वर्तते विप्र सखीभिः सह सर्वदा
पतिव्रता महाभागा हर्षेण महतान्विता ॥ २५ ॥

विश्वास-प्रस्तुतिः

सुखं तु पितृगेहस्य दुर्लभं श्वशुरे गृहे
एवं ज्ञात्वा तदा रेमे कदा ईदृग्भविष्यति ॥ २६ ॥

मूलम्

सुखं तु पितृगेहस्य दुर्लभं श्वशुरे गृहे
एवं ज्ञात्वा तदा रेमे कदा ईदृग्भविष्यति ॥ २६ ॥

विश्वास-प्रस्तुतिः

अनेन मोहभावेन क्रीडालुब्धा वरानना
सखीभिः सहिता नित्यं वनेषूपवने तदा ॥ २७ ॥

मूलम्

अनेन मोहभावेन क्रीडालुब्धा वरानना
सखीभिः सहिता नित्यं वनेषूपवने तदा ॥ २७ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रेऽष्टचत्वारिंशोऽध्यायः ४८