०४७

सप्तचत्वारिंशोऽध्यायः

विश्वास-प्रस्तुतिः

सुकलोवाच-
सुदेवा चारुसर्वाङ्गी तामुवाचाथ सूकरीम्
पशुयोनिं गता त्वं हि कथं वदसि संस्कृतम् ॥ १ ॥

मूलम्

सुकलोवाच-
सुदेवा चारुसर्वाङ्गी तामुवाचाथ सूकरीम्
पशुयोनिं गता त्वं हि कथं वदसि संस्कृतम् ॥ १ ॥

विश्वास-प्रस्तुतिः

एवंविधं महाज्ञानं कस्माद्भूतं वदस्व मे
कथं जानासि वै भर्तुश्चरित्रमात्मनः शुभे ॥ २ ॥

मूलम्

एवंविधं महाज्ञानं कस्माद्भूतं वदस्व मे
कथं जानासि वै भर्तुश्चरित्रमात्मनः शुभे ॥ २ ॥

विश्वास-प्रस्तुतिः

शूकर्युवाच-
पशोर्भावेन मोहेन मुष्टाहं वरवर्णिनि
निहता खड्गबाणैश्च पतिता रणमूर्धनि ॥ ३ ॥

मूलम्

शूकर्युवाच-
पशोर्भावेन मोहेन मुष्टाहं वरवर्णिनि
निहता खड्गबाणैश्च पतिता रणमूर्धनि ॥ ३ ॥

विश्वास-प्रस्तुतिः

मूर्च्छयाभिपरिक्लिन्ना ज्ञानहीना वरानने
त्वयाभिषिक्ता येनाहं पुण्यहस्तेन सुन्दरि ॥ ४ ॥

मूलम्

मूर्च्छयाभिपरिक्लिन्ना ज्ञानहीना वरानने
त्वयाभिषिक्ता येनाहं पुण्यहस्तेन सुन्दरि ॥ ४ ॥

विश्वास-प्रस्तुतिः

पुण्योदकेन शीतेन तव हस्तगतेन वै
अभिषिक्ते हि मे काये मोहो नष्टो विहाय माम् ॥ ५ ॥

मूलम्

पुण्योदकेन शीतेन तव हस्तगतेन वै
अभिषिक्ते हि मे काये मोहो नष्टो विहाय माम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

यथा विनाशं तेजोभिरन्धकारः प्रयाति सः
तथा तवाभिषेकेण मम पापं गतं शुभे ॥ ६ ॥

मूलम्

यथा विनाशं तेजोभिरन्धकारः प्रयाति सः
तथा तवाभिषेकेण मम पापं गतं शुभे ॥ ६ ॥

विश्वास-प्रस्तुतिः

प्रसादात्तव चार्वङ्गि लब्धं ज्ञानं पुरातनम्
पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे ॥ ७ ॥

मूलम्

प्रसादात्तव चार्वङ्गि लब्धं ज्ञानं पुरातनम्
पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे ॥ ७ ॥

विश्वास-प्रस्तुतिः

श्रूयतामभिधास्यामि पूर्वं वृत्तान्तमात्मनः
यत्कृतं तु मया भद्रे पापया दुष्कृतं बहु ॥ ८ ॥

मूलम्

श्रूयतामभिधास्यामि पूर्वं वृत्तान्तमात्मनः
यत्कृतं तु मया भद्रे पापया दुष्कृतं बहु ॥ ८ ॥

विश्वास-प्रस्तुतिः

कलिङ्गाख्ये महादेशे श्रीपुरन्नाम पत्तनम्
सर्वसिद्धिसमाकीर्णं चतुर्वर्णनिषेवितम् ॥ ९ ॥

मूलम्

कलिङ्गाख्ये महादेशे श्रीपुरन्नाम पत्तनम्
सर्वसिद्धिसमाकीर्णं चतुर्वर्णनिषेवितम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

वसति स्म द्विजः कोपि वसुदत्त इति श्रुतः
ब्रह्माचारपरोनित्यं सत्यधर्मपरायणः ॥ १० ॥

मूलम्

वसति स्म द्विजः कोपि वसुदत्त इति श्रुतः
ब्रह्माचारपरोनित्यं सत्यधर्मपरायणः ॥ १० ॥

विश्वास-प्रस्तुतिः

वेदवेत्ता ज्ञानवेत्ता शुचिमान्गुणवान्धनी
धनधान्यसमाकीर्णः पुत्रपौत्रैरलङ्कृतः ॥ ११ ॥

मूलम्

वेदवेत्ता ज्ञानवेत्ता शुचिमान्गुणवान्धनी
धनधान्यसमाकीर्णः पुत्रपौत्रैरलङ्कृतः ॥ ११ ॥

विश्वास-प्रस्तुतिः

तस्याहं तनया भद्रे सोदरैः स्वजनबान्धवैः
अलङ्कारैस्तु शृङ्गारैर्भूषितास्मि वरानने ॥ १२ ॥

मूलम्

तस्याहं तनया भद्रे सोदरैः स्वजनबान्धवैः
अलङ्कारैस्तु शृङ्गारैर्भूषितास्मि वरानने ॥ १२ ॥

विश्वास-प्रस्तुतिः

सुदेवानाम मे तातश्चकार स महामतिः
तस्याहं दयिता नित्यं पितुश्चापि महामते ॥ १३ ॥

मूलम्

सुदेवानाम मे तातश्चकार स महामतिः
तस्याहं दयिता नित्यं पितुश्चापि महामते ॥ १३ ॥

विश्वास-प्रस्तुतिः

रूपेणाप्रतिमा जाता संसारे नास्ति तादृशी
रूपयौवनगर्वेण मत्ताहं चारुहासिनी ॥ १४ ॥

मूलम्

रूपेणाप्रतिमा जाता संसारे नास्ति तादृशी
रूपयौवनगर्वेण मत्ताहं चारुहासिनी ॥ १४ ॥

विश्वास-प्रस्तुतिः

अहं कन्या सुरूपा वै सर्वालङ्कारशोभिता
मां च दृष्ट्वा ततो लोकाः सर्वे स्वजनवर्गकाः ॥ १५ ॥

मूलम्

अहं कन्या सुरूपा वै सर्वालङ्कारशोभिता
मां च दृष्ट्वा ततो लोकाः सर्वे स्वजनवर्गकाः ॥ १५ ॥

विश्वास-प्रस्तुतिः

मामेवं याचमानास्ते विवाहार्थे वरानने
याचिताहं द्विजैः सर्वैर्न ददाति पिता मम ॥ १६ ॥

मूलम्

मामेवं याचमानास्ते विवाहार्थे वरानने
याचिताहं द्विजैः सर्वैर्न ददाति पिता मम ॥ १६ ॥

विश्वास-प्रस्तुतिः

स्नेहाच्चैव महाभागे मुमोह स महामतिः
न दत्ताहं तदा तेन पित्रा चैव महात्मना ॥ १७ ॥

मूलम्

स्नेहाच्चैव महाभागे मुमोह स महामतिः
न दत्ताहं तदा तेन पित्रा चैव महात्मना ॥ १७ ॥

विश्वास-प्रस्तुतिः

सम्प्राप्तं यौवनं बाले मयि भावसमन्वितम्
रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता ॥ १८ ॥

मूलम्

सम्प्राप्तं यौवनं बाले मयि भावसमन्वितम्
रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता ॥ १८ ॥

विश्वास-प्रस्तुतिः

पितरं मे उवाचाथ कस्मात्कन्या न दीयते
त्वं कस्मै सुद्विजायैव ब्राह्मणाय महात्मने ॥ १९ ॥

मूलम्

पितरं मे उवाचाथ कस्मात्कन्या न दीयते
त्वं कस्मै सुद्विजायैव ब्राह्मणाय महात्मने ॥ १९ ॥

विश्वास-प्रस्तुतिः

देहि कन्यां महाभाग सम्प्राप्ता यौवनं त्वियम्
वसुदत्तो द्विजश्रेष्ठः प्रत्युवाच द्विजोत्तमः ॥ २० ॥

मूलम्

देहि कन्यां महाभाग सम्प्राप्ता यौवनं त्वियम्
वसुदत्तो द्विजश्रेष्ठः प्रत्युवाच द्विजोत्तमः ॥ २० ॥

विश्वास-प्रस्तुतिः

मातरं मे महाभागे श्रूयतां वचनं मम
महामोहेनमुग्धोऽस्मि सुताया वरवर्णिनि ॥ २१ ॥

मूलम्

मातरं मे महाभागे श्रूयतां वचनं मम
महामोहेनमुग्धोऽस्मि सुताया वरवर्णिनि ॥ २१ ॥

विश्वास-प्रस्तुतिः

यो मे गृहस्थो विप्रो वै भविष्यति शुभे शृणु
तस्मै कन्यां प्रदास्यामि जामात्रे तु न संशयः ॥ २२ ॥

मूलम्

यो मे गृहस्थो विप्रो वै भविष्यति शुभे शृणु
तस्मै कन्यां प्रदास्यामि जामात्रे तु न संशयः ॥ २२ ॥

विश्वास-प्रस्तुतिः

मम प्राणप्रिया चैषा सुदेवा नात्र संशयः
एवमूचे मदर्थे स वसुदत्तः पिता मम ॥ २३ ॥

मूलम्

मम प्राणप्रिया चैषा सुदेवा नात्र संशयः
एवमूचे मदर्थे स वसुदत्तः पिता मम ॥ २३ ॥

विश्वास-प्रस्तुतिः

कौशिकस्य कुले जातः सर्वविद्याविशारदः
ब्राह्मणानां गुणैर्युक्तः शीलवान्गुणवाञ्छुचिः ॥ २४ ॥

मूलम्

कौशिकस्य कुले जातः सर्वविद्याविशारदः
ब्राह्मणानां गुणैर्युक्तः शीलवान्गुणवाञ्छुचिः ॥ २४ ॥

विश्वास-प्रस्तुतिः

वेदाध्ययनसम्पन्नं पठमानं हि सुस्वरम्
भिक्षार्थं द्वारमायान्तं पितृमातृविवर्जितम् ॥ २५ ॥

मूलम्

वेदाध्ययनसम्पन्नं पठमानं हि सुस्वरम्
भिक्षार्थं द्वारमायान्तं पितृमातृविवर्जितम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

तं दृष्ट्वासमनुप्राप्तं रूपं वीक्ष्य महामतिः
तं प्रोवाच पिता एवं को भवान्वै भविष्यति ॥ २६ ॥

मूलम्

तं दृष्ट्वासमनुप्राप्तं रूपं वीक्ष्य महामतिः
तं प्रोवाच पिता एवं को भवान्वै भविष्यति ॥ २६ ॥

विश्वास-प्रस्तुतिः

किं ते नाम कुलं गोत्रमाचारं वद साम्प्रतम्
समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः ॥ २७ ॥

मूलम्

किं ते नाम कुलं गोत्रमाचारं वद साम्प्रतम्
समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः ॥ २७ ॥

विश्वास-प्रस्तुतिः

कौशिकस्यान्वये जातो वेदवेदाङ्गपारगः
शिवशर्मेति मे नाम पितृमातृविवर्जितः ॥ २८ ॥

मूलम्

कौशिकस्यान्वये जातो वेदवेदाङ्गपारगः
शिवशर्मेति मे नाम पितृमातृविवर्जितः ॥ २८ ॥

विश्वास-प्रस्तुतिः

सन्ति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः
एवं कुलं समाख्यातमाचारः कुलसम्भवः ॥ २९ ॥

मूलम्

सन्ति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः
एवं कुलं समाख्यातमाचारः कुलसम्भवः ॥ २९ ॥

विश्वास-प्रस्तुतिः

एवं सर्वं समाख्यातं पितरं शिवशर्मणा
शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदैवते ॥ ३० ॥

मूलम्

एवं सर्वं समाख्यातं पितरं शिवशर्मणा
शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदैवते ॥ ३० ॥

विश्वास-प्रस्तुतिः

पित्रा दत्तास्मि सुभगे तस्मै विप्राय वै तदा
पितृगेहे वसाम्येका तेन सार्धं महात्मना ॥ ३१ ॥

मूलम्

पित्रा दत्तास्मि सुभगे तस्मै विप्राय वै तदा
पितृगेहे वसाम्येका तेन सार्धं महात्मना ॥ ३१ ॥

विश्वास-प्रस्तुतिः

नैव शुश्रूषितो भर्ता मया स पापया तदा
पितृमातृसुद्रव्येण गर्वेणापि प्रमोहिता ॥ ३२ ॥

मूलम्

नैव शुश्रूषितो भर्ता मया स पापया तदा
पितृमातृसुद्रव्येण गर्वेणापि प्रमोहिता ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अङ्गसंवाहनं तस्य न कृतं हि मया कदा
रतिभावेन स्नेहेन वचनेन मया शुभे ॥ ३३ ॥

मूलम्

अङ्गसंवाहनं तस्य न कृतं हि मया कदा
रतिभावेन स्नेहेन वचनेन मया शुभे ॥ ३३ ॥

विश्वास-प्रस्तुतिः

क्रूरबुद्ध्या हि दृष्टोसौ सर्वदा पापया मया
पुंश्चलीनां प्रसङ्गेन तद्भावं हि गता शुभे ॥ ३४ ॥

मूलम्

क्रूरबुद्ध्या हि दृष्टोसौ सर्वदा पापया मया
पुंश्चलीनां प्रसङ्गेन तद्भावं हि गता शुभे ॥ ३४ ॥

विश्वास-प्रस्तुतिः

मातापित्रोश्च भर्तुश्च भ्रातॄणां हितमेव च
न करोम्यहमेवापि यत्रयत्र व्रजाम्यहम् ॥ ३५ ॥

मूलम्

मातापित्रोश्च भर्तुश्च भ्रातॄणां हितमेव च
न करोम्यहमेवापि यत्रयत्र व्रजाम्यहम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्मम
स्नेहाच्छ्वशुरवर्गस्य मम भर्त्ता महामतिः ॥ ३६ ॥

मूलम्

एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्मम
स्नेहाच्छ्वशुरवर्गस्य मम भर्त्ता महामतिः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

न किञ्चिद्वक्ति मां सोपि क्षमते दुष्कृतं मम
वार्यमाणा कुटुम्बेन अहमेवं सुपापिनी ॥ ३७ ॥

मूलम्

न किञ्चिद्वक्ति मां सोपि क्षमते दुष्कृतं मम
वार्यमाणा कुटुम्बेन अहमेवं सुपापिनी ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणः
पितामाता च मे सर्वे मम पापेन दुःखिताः ॥ ३८ ॥

मूलम्

तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणः
पितामाता च मे सर्वे मम पापेन दुःखिताः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

भर्त्ता मे दुष्कृतं दृष्ट्वा स्वगृहान्निर्गतो बहिः
तं देशं ग्राममेनं च परित्यज्य गतस्ततः ॥ ३९ ॥

मूलम्

भर्त्ता मे दुष्कृतं दृष्ट्वा स्वगृहान्निर्गतो बहिः
तं देशं ग्राममेनं च परित्यज्य गतस्ततः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

गते भर्तरि मे तातः सञ्जातश्चिन्तयान्वितः
मम दुःखेन दुःखात्मा यथा रोगेण पीडितः ॥ ४० ॥

मूलम्

गते भर्तरि मे तातः सञ्जातश्चिन्तयान्वितः
मम दुःखेन दुःखात्मा यथा रोगेण पीडितः ॥ ४० ॥

विश्वास-प्रस्तुतिः

मम माता उवाचैनं भर्तारं दुःखपीडितम्
कस्माच्चिन्तयसे कान्त वद दुःखं ममाग्रतः ॥ ४१ ॥

मूलम्

मम माता उवाचैनं भर्तारं दुःखपीडितम्
कस्माच्चिन्तयसे कान्त वद दुःखं ममाग्रतः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

वसुदत्त उवाचैनां मातरं मम नन्दने
सुतां त्यक्त्वा गतो विप्रो जामाता शृणु वल्लभे ॥ ४२ ॥

मूलम्

वसुदत्त उवाचैनां मातरं मम नन्दने
सुतां त्यक्त्वा गतो विप्रो जामाता शृणु वल्लभे ॥ ४२ ॥

विश्वास-प्रस्तुतिः

इयं पापसमाचारा निर्घृणा पापचारिणी
अनया हि परित्यक्तः शिवशर्मा महामतिः ॥ ४३ ॥

मूलम्

इयं पापसमाचारा निर्घृणा पापचारिणी
अनया हि परित्यक्तः शिवशर्मा महामतिः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

समस्तस्य कुटुम्बस्य दाक्षिण्येन महामतिः
ममायं स द्विजः कान्ते सुदेवां नैव भाषते ॥ ४४ ॥

मूलम्

समस्तस्य कुटुम्बस्य दाक्षिण्येन महामतिः
ममायं स द्विजः कान्ते सुदेवां नैव भाषते ॥ ४४ ॥

विश्वास-प्रस्तुतिः

वसते सौम्यभावेन नैव निन्दति कुत्सति
सुदेवां पापसञ्चारां स वै पण्डितबुद्धिमान् ॥ ४५ ॥

मूलम्

वसते सौम्यभावेन नैव निन्दति कुत्सति
सुदेवां पापसञ्चारां स वै पण्डितबुद्धिमान् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनी
अहमेनां परित्यज्य व्रजामि गृहवासिनि ॥ ४६ ॥

मूलम्

भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनी
अहमेनां परित्यज्य व्रजामि गृहवासिनि ॥ ४६ ॥

विश्वास-प्रस्तुतिः

ब्राह्मण्युवाच-
अद्य ज्ञातं त्वया कान्त सुताया गुणदूषणम्
तव मोहेन स्नेहेन नष्टेयं शृणु साम्प्रतम् ॥ ४७ ॥

मूलम्

ब्राह्मण्युवाच-
अद्य ज्ञातं त्वया कान्त सुताया गुणदूषणम्
तव मोहेन स्नेहेन नष्टेयं शृणु साम्प्रतम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

तावद्विलाडयेत्पुत्रं यावत्स्यात्पञ्चवार्षिकः
शिक्षाबुद्ध्या सदा कान्त पुनर्मोहेन पोषयेत् ॥ ४८ ॥

मूलम्

तावद्विलाडयेत्पुत्रं यावत्स्यात्पञ्चवार्षिकः
शिक्षाबुद्ध्या सदा कान्त पुनर्मोहेन पोषयेत् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

स्नानाच्छादनकैर्भक्ष्यैर्भोज्यैः पेयैर्न संशयः
गुणेषु योजयेत्कान्त सद्विद्यासु च तं सुतम् ॥ ४९ ॥

मूलम्

स्नानाच्छादनकैर्भक्ष्यैर्भोज्यैः पेयैर्न संशयः
गुणेषु योजयेत्कान्त सद्विद्यासु च तं सुतम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

गुणशिक्षार्थन्निर्मोहः पिता भवति सर्वदा
पालने पोषणे कान्त सम्मोहः परिजायते ॥ ५० ॥

मूलम्

गुणशिक्षार्थन्निर्मोहः पिता भवति सर्वदा
पालने पोषणे कान्त सम्मोहः परिजायते ॥ ५० ॥

विश्वास-प्रस्तुतिः

सगुणं न वदेत्पुत्रं कुत्सयेच्च दिनेदिने
काठिन्यं च वदेन्नित्यं वचनैः परिपीडयेत् ॥ ५१ ॥

मूलम्

सगुणं न वदेत्पुत्रं कुत्सयेच्च दिनेदिने
काठिन्यं च वदेन्नित्यं वचनैः परिपीडयेत् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

यथाहि साधयेन्नित्यं सुविद्यां ज्ञानतत्परः
अभिमानेच्छलेनापि पापं त्यक्त्वा प्रदूरतः ॥ ५२ ॥

मूलम्

यथाहि साधयेन्नित्यं सुविद्यां ज्ञानतत्परः
अभिमानेच्छलेनापि पापं त्यक्त्वा प्रदूरतः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

नैपुण्यं जायते नित्यं विद्यासु च गुणेषु च
माता च ताडयेत्कन्यां स्नुषां श्वश्रूर्विताडयेत् ॥ ५३ ॥

मूलम्

नैपुण्यं जायते नित्यं विद्यासु च गुणेषु च
माता च ताडयेत्कन्यां स्नुषां श्वश्रूर्विताडयेत् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

गुरुश्च ताडयेच्छिष्यं ततः सिध्यन्ति नान्यथा
भार्यां च ताडयेत्कान्त अमात्यं नृपतिस्तथा ॥ ५४ ॥

मूलम्

गुरुश्च ताडयेच्छिष्यं ततः सिध्यन्ति नान्यथा
भार्यां च ताडयेत्कान्त अमात्यं नृपतिस्तथा ॥ ५४ ॥

विश्वास-प्रस्तुतिः

हयं च ताडयेद्धीरो गजं मात्रो दिनेदिने
शिक्षाबुद्ध्या प्रसिध्यन्ति ताडनात्पालनाद्विभो ॥ ५५ ॥

मूलम्

हयं च ताडयेद्धीरो गजं मात्रो दिनेदिने
शिक्षाबुद्ध्या प्रसिध्यन्ति ताडनात्पालनाद्विभो ॥ ५५ ॥

विश्वास-प्रस्तुतिः

त्वयेयं नाशिता नाथ सर्वदैव न संशयः
सार्धं सुब्राह्मणेनापि भवता शिवशर्मणा ॥ ५६ ॥

मूलम्

त्वयेयं नाशिता नाथ सर्वदैव न संशयः
सार्धं सुब्राह्मणेनापि भवता शिवशर्मणा ॥ ५६ ॥

विश्वास-प्रस्तुतिः

निरङ्कुशा कृता गेहे तेन नष्टा महामते
तावद्धि धारयेत्कन्यां गृहे कान्तवचः शृणु ॥ ५७ ॥

मूलम्

निरङ्कुशा कृता गेहे तेन नष्टा महामते
तावद्धि धारयेत्कन्यां गृहे कान्तवचः शृणु ॥ ५७ ॥

विश्वास-प्रस्तुतिः

अष्टवर्षान्विता यावत्प्रबलां नैव धारयेत्
पितुर्गेहस्थिता पुत्री यत्पापं हि प्रकुर्वती ॥ ५८ ॥

मूलम्

अष्टवर्षान्विता यावत्प्रबलां नैव धारयेत्
पितुर्गेहस्थिता पुत्री यत्पापं हि प्रकुर्वती ॥ ५८ ॥

विश्वास-प्रस्तुतिः

उभाभ्यामपि तत्पापं पितृभ्यामपि विन्दति
तस्मान्न धार्यते कन्या समर्था निजमन्दिरे ॥ ५९ ॥

मूलम्

उभाभ्यामपि तत्पापं पितृभ्यामपि विन्दति
तस्मान्न धार्यते कन्या समर्था निजमन्दिरे ॥ ५९ ॥

विश्वास-प्रस्तुतिः

यस्य दत्ता भवेत्सा च तस्य गेहे प्रपोषयेत्
तत्रस्था साधयेत्कान्तं सगुणं भक्तिपूर्वकम् ॥ ६० ॥

मूलम्

यस्य दत्ता भवेत्सा च तस्य गेहे प्रपोषयेत्
तत्रस्था साधयेत्कान्तं सगुणं भक्तिपूर्वकम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

कुलस्य जायते कीर्तिः पिता सुखेन जीवति
तत्रस्था कुरुते पापं तत्पापं भुञ्जते पतिः ॥ ६१ ॥

मूलम्

कुलस्य जायते कीर्तिः पिता सुखेन जीवति
तत्रस्था कुरुते पापं तत्पापं भुञ्जते पतिः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

तत्रस्था वर्द्धते नित्यं पुत्रैः पौत्रैः सदैव सा
पिता कीर्तिमवाप्नोति सुतायाः सुगुणैः प्रिय ॥ ६२ ॥

मूलम्

तत्रस्था वर्द्धते नित्यं पुत्रैः पौत्रैः सदैव सा
पिता कीर्तिमवाप्नोति सुतायाः सुगुणैः प्रिय ॥ ६२ ॥

विश्वास-प्रस्तुतिः

तस्मान्न धारयेत्कान्त गेहे पुत्रीं सभर्तृकाम्
इत्यर्थे श्रूयते कान्त इतिहासो भविष्यति ॥ ६३ ॥

मूलम्

तस्मान्न धारयेत्कान्त गेहे पुत्रीं सभर्तृकाम्
इत्यर्थे श्रूयते कान्त इतिहासो भविष्यति ॥ ६३ ॥

विश्वास-प्रस्तुतिः

अष्टविंशतिके प्राप्ते युगे द्वापरके महान्
उग्रसेनस्य वीरस्य यदुज्येष्ठस्य यत्प्रभो ॥ ६४ ॥

मूलम्

अष्टविंशतिके प्राप्ते युगे द्वापरके महान्
उग्रसेनस्य वीरस्य यदुज्येष्ठस्य यत्प्रभो ॥ ६४ ॥

विश्वास-प्रस्तुतिः

चरित्रं ते प्रवक्ष्यमि शृणुष्वैकमना द्विज ॥ ६५ ॥

मूलम्

चरित्रं ते प्रवक्ष्यमि शृणुष्वैकमना द्विज ॥ ६५ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
सप्तचत्वारिंशोऽध्यायः ४७