०४६

षट्चत्वारिंशोऽध्यायः

विश्वास-प्रस्तुतिः

सुकलोवाच-
श्वसन्तीं शूकरीं दृष्ट्वा पतितां पुत्रवत्सलाम्
सुदेवावकृपयाविष्टा गत्वा तां दुःखितां प्रति ॥ १ ॥

मूलम्

सुकलोवाच-
श्वसन्तीं शूकरीं दृष्ट्वा पतितां पुत्रवत्सलाम्
सुदेवावकृपयाविष्टा गत्वा तां दुःखितां प्रति ॥ १ ॥

विश्वास-प्रस्तुतिः

अभिषिच्य मुखं तस्याः शीतलेनोदकेन च
पुनः सर्वाङ्गमेवापि दुःखितां रणशालिनीम् ॥ २ ॥

मूलम्

अभिषिच्य मुखं तस्याः शीतलेनोदकेन च
पुनः सर्वाङ्गमेवापि दुःखितां रणशालिनीम् ॥ २ ॥

विश्वास-प्रस्तुतिः

पुण्येन शीततोयेन सा उवाचाभिषिञ्चतीम्
उवाच मानुषीं वाचं सुस्वरं नृपतिप्रियाम् ॥ ३ ॥

मूलम्

पुण्येन शीततोयेन सा उवाचाभिषिञ्चतीम्
उवाच मानुषीं वाचं सुस्वरं नृपतिप्रियाम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

सुखं भवतु ते देवि अभिषिक्ता त्वया यदि
सम्पर्काद्दर्शनात्तेद्य गतो मे पापसञ्चयः ॥ ४ ॥

मूलम्

सुखं भवतु ते देवि अभिषिक्ता त्वया यदि
सम्पर्काद्दर्शनात्तेद्य गतो मे पापसञ्चयः ॥ ४ ॥

विश्वास-प्रस्तुतिः

तदाकर्ण्य महद्वाक्यमद्भुताकारसंयुतम्
चित्रमेतन्मया दृष्टं कृतं तेऽनामयं वचः ॥ ५ ॥

मूलम्

तदाकर्ण्य महद्वाक्यमद्भुताकारसंयुतम्
चित्रमेतन्मया दृष्टं कृतं तेऽनामयं वचः ॥ ५ ॥

विश्वास-प्रस्तुतिः

पशुजातिमतीचेयं सौष्ठवं भाषते स्फुटम्
स्वरव्यञ्जनसम्पन्नं संस्कृतमुत्तमं मम ॥ ६ ॥

मूलम्

पशुजातिमतीचेयं सौष्ठवं भाषते स्फुटम्
स्वरव्यञ्जनसम्पन्नं संस्कृतमुत्तमं मम ॥ ६ ॥

विश्वास-प्रस्तुतिः

हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम्
तत्रस्था सा महाभागा तं पतिं वाक्यमब्रवीत् ॥ ७ ॥

मूलम्

हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम्
तत्रस्था सा महाभागा तं पतिं वाक्यमब्रवीत् ॥ ७ ॥

विश्वास-प्रस्तुतिः

पश्य राजन्नपूर्वेयं संस्कृतं भाषते महत्
पशुयोनिगता चेयं यथा वै मानुषो वदेत् ॥ ८ ॥

मूलम्

पश्य राजन्नपूर्वेयं संस्कृतं भाषते महत्
पशुयोनिगता चेयं यथा वै मानुषो वदेत् ॥ ८ ॥

विश्वास-प्रस्तुतिः

तदाकर्ण्य ततो राजा सर्वज्ञानवतां वरः
अद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया ॥ ९ ॥

मूलम्

तदाकर्ण्य ततो राजा सर्वज्ञानवतां वरः
अद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया ॥ ९ ॥

विश्वास-प्रस्तुतिः

तामुवाच ततो राजा सुदेवां सुप्रियां तदा
पृच्छ चैनां शुभां कान्ते का चेयं तु भविष्यति ॥ १० ॥

मूलम्

तामुवाच ततो राजा सुदेवां सुप्रियां तदा
पृच्छ चैनां शुभां कान्ते का चेयं तु भविष्यति ॥ १० ॥

विश्वास-प्रस्तुतिः

श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ च सूकरीम्
का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु ॥ ११ ॥

मूलम्

श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ च सूकरीम्
का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु ॥ ११ ॥

विश्वास-प्रस्तुतिः

पशुयोनिगता त्वं वै भाषसे मानुषं वचः
सौष्ठवं ज्ञानसम्पन्नं वद मे पूर्वचेष्टितम् ॥ १२ ॥

मूलम्

पशुयोनिगता त्वं वै भाषसे मानुषं वचः
सौष्ठवं ज्ञानसम्पन्नं वद मे पूर्वचेष्टितम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

भर्तुश्चापि महाराज भटस्यास्य महात्मनः
कोयं धर्मो महावीर्यो गतः स्वर्गं पराक्रमैः ॥ १३ ॥

मूलम्

भर्तुश्चापि महाराज भटस्यास्य महात्मनः
कोयं धर्मो महावीर्यो गतः स्वर्गं पराक्रमैः ॥ १३ ॥

विश्वास-प्रस्तुतिः

आत्मनश्च स्वभर्तुश्च सर्वं पूर्वानुगं वद
एवमुक्त्वा महाभागा विरराम नृपप्रिया ॥ १४ ॥

मूलम्

आत्मनश्च स्वभर्तुश्च सर्वं पूर्वानुगं वद
एवमुक्त्वा महाभागा विरराम नृपप्रिया ॥ १४ ॥

विश्वास-प्रस्तुतिः

शूकर्युवाच-
यदि पृच्छसि मां भद्रे ममास्य च महात्मनः
तत्सर्वं ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम् ॥ १५ ॥

मूलम्

शूकर्युवाच-
यदि पृच्छसि मां भद्रे ममास्य च महात्मनः
तत्सर्वं ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

अयमेष महाप्राज्ञो गन्धर्वो गीतपण्डितः
रङ्गविद्याधरो नाम सर्वशास्त्रार्थकोविदः ॥ १६ ॥

मूलम्

अयमेष महाप्राज्ञो गन्धर्वो गीतपण्डितः
रङ्गविद्याधरो नाम सर्वशास्त्रार्थकोविदः ॥ १६ ॥

विश्वास-प्रस्तुतिः

मेरुं गिरिवरश्रेष्ठं चारुकन्दरनिर्झरम्
तमाश्रित्य महातेजाः पुलस्त्यो मुनिसत्तमः ॥ १७ ॥

मूलम्

मेरुं गिरिवरश्रेष्ठं चारुकन्दरनिर्झरम्
तमाश्रित्य महातेजाः पुलस्त्यो मुनिसत्तमः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तपश्चचार तेजस्वी निर्व्यलीकेन चेतसा
विद्याधरस्तत्र गतः स्वेच्छया स महाप्रभो ॥ १८ ॥

मूलम्

तपश्चचार तेजस्वी निर्व्यलीकेन चेतसा
विद्याधरस्तत्र गतः स्वेच्छया स महाप्रभो ॥ १८ ॥

विश्वास-प्रस्तुतिः

तमाश्रित्य गिरिश्रेष्ठं गीतमभ्यसते तदा
स्वरतालसमोपेतं सुस्वरं चारुहासिनि ॥ १९ ॥

मूलम्

तमाश्रित्य गिरिश्रेष्ठं गीतमभ्यसते तदा
स्वरतालसमोपेतं सुस्वरं चारुहासिनि ॥ १९ ॥

विश्वास-प्रस्तुतिः

गीतं श्रुत्वा मुनिस्तस्य ध्यानाच्चलितमानसः
गायन्तं तमुवाचेदं गीतविद्याधरं प्रति ॥ २० ॥

मूलम्

गीतं श्रुत्वा मुनिस्तस्य ध्यानाच्चलितमानसः
गायन्तं तमुवाचेदं गीतविद्याधरं प्रति ॥ २० ॥

विश्वास-प्रस्तुतिः

भवद्गीतेन दिव्येन देवा मुह्यन्ति नान्यथा
सुस्वरेण सुपुण्येन तालमानेन पण्डित ॥ २१ ॥

मूलम्

भवद्गीतेन दिव्येन देवा मुह्यन्ति नान्यथा
सुस्वरेण सुपुण्येन तालमानेन पण्डित ॥ २१ ॥

विश्वास-प्रस्तुतिः

लययुक्तेन भावेन मूर्च्छना सहितेन च
मे मनश्चलितं ध्यानाद्गीतेनानेन सुव्रत ॥ २२ ॥

मूलम्

लययुक्तेन भावेन मूर्च्छना सहितेन च
मे मनश्चलितं ध्यानाद्गीतेनानेन सुव्रत ॥ २२ ॥

विश्वास-प्रस्तुतिः

इदं स्थानं परित्यज्य अन्यस्थानं व्रजस्व तत्
गीतविद्याधर उवाच-
आत्मज्ञानसमं गीतमन्यस्थानं व्रजामि किम् ॥ २३ ॥

मूलम्

इदं स्थानं परित्यज्य अन्यस्थानं व्रजस्व तत्
गीतविद्याधर उवाच-
आत्मज्ञानसमं गीतमन्यस्थानं व्रजामि किम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

दुःखं ददे न कस्यापि सुखदो नृषु सर्वदा
गीतेनानेन दिव्येन सर्वास्तुष्यन्ति देवताः ॥ २४ ॥

मूलम्

दुःखं ददे न कस्यापि सुखदो नृषु सर्वदा
गीतेनानेन दिव्येन सर्वास्तुष्यन्ति देवताः ॥ २४ ॥

विश्वास-प्रस्तुतिः

शम्भुश्चापि समानीतो गीतध्वनिरतो द्विज
गीतं सर्वरसं प्रोक्तं गीतमानन्ददायकम् ॥ २५ ॥

मूलम्

शम्भुश्चापि समानीतो गीतध्वनिरतो द्विज
गीतं सर्वरसं प्रोक्तं गीतमानन्ददायकम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

शृङ्गाराद्यारसाः सर्वे गीतेनापि प्रतिष्ठिताः
शोभामायान्ति गीतेन वेदाश्चत्वार उत्तमाः ॥ २६ ॥

मूलम्

शृङ्गाराद्यारसाः सर्वे गीतेनापि प्रतिष्ठिताः
शोभामायान्ति गीतेन वेदाश्चत्वार उत्तमाः ॥ २६ ॥

विश्वास-प्रस्तुतिः

गीतेन देवताः सर्वास्तोषमायान्ति नान्यथा
तदेवं निन्दसे गीतं मामेवं परिचालयेः ॥ २७ ॥

मूलम्

गीतेन देवताः सर्वास्तोषमायान्ति नान्यथा
तदेवं निन्दसे गीतं मामेवं परिचालयेः ॥ २७ ॥

विश्वास-प्रस्तुतिः

अन्यायोऽयं महाभाग तवैव इह दृश्यते
पुलस्त्य उवाच-
सत्यमुक्तं त्वयाद्यैव गीतार्थं बहुपुण्यदम् ॥ २८ ॥

मूलम्

अन्यायोऽयं महाभाग तवैव इह दृश्यते
पुलस्त्य उवाच-
सत्यमुक्तं त्वयाद्यैव गीतार्थं बहुपुण्यदम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

शृणु त्वं मामकं वाक्यं मानं त्यज महामते
नाहं गीतं प्रकुत्सामि गीतं वन्दामि नान्यथा ॥ २९ ॥

मूलम्

शृणु त्वं मामकं वाक्यं मानं त्यज महामते
नाहं गीतं प्रकुत्सामि गीतं वन्दामि नान्यथा ॥ २९ ॥

विश्वास-प्रस्तुतिः

विद्याश्चतुर्दशैवैता एकीभावेन भावदाः
प्राणिनां सिद्धिमायान्ति मनसा निश्चलेन च ॥ ३० ॥

मूलम्

विद्याश्चतुर्दशैवैता एकीभावेन भावदाः
प्राणिनां सिद्धिमायान्ति मनसा निश्चलेन च ॥ ३० ॥

विश्वास-प्रस्तुतिः

तपश्च तद्वन्मन्त्राश्च सुसिद्ध्यन्त्येकचिन्तया
हृषीकाणां महावर्गश्चपलो मम सम्मतः ॥ ३१ ॥

मूलम्

तपश्च तद्वन्मन्त्राश्च सुसिद्ध्यन्त्येकचिन्तया
हृषीकाणां महावर्गश्चपलो मम सम्मतः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

विषयेष्वेव सर्वेषु नयत्यात्मानमुच्चकैः
चालयित्वा मनस्तस्माद्ध्यानादेव न संशयः ॥ ३२ ॥

मूलम्

विषयेष्वेव सर्वेषु नयत्यात्मानमुच्चकैः
चालयित्वा मनस्तस्माद्ध्यानादेव न संशयः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

यत्र शब्दं न रूपं च युवती नैव तिष्ठति
मुनयस्तत्र गच्छन्ति तपःसिद्ध्यर्थमेव हि ॥ ३३ ॥

मूलम्

यत्र शब्दं न रूपं च युवती नैव तिष्ठति
मुनयस्तत्र गच्छन्ति तपःसिद्ध्यर्थमेव हि ॥ ३३ ॥

विश्वास-प्रस्तुतिः

अयं गीतः पवित्रस्ते बहुसौख्यप्रदायकः
न पश्येम वयं वीर तिष्ठामो वनसंस्थिताः ॥ ३४ ॥

मूलम्

अयं गीतः पवित्रस्ते बहुसौख्यप्रदायकः
न पश्येम वयं वीर तिष्ठामो वनसंस्थिताः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

अन्यत्स्थानं प्रयाहि त्वं नोवा वयं व्रजामहे
गीतविधाधर उवाच-
इन्द्रियाणां बलं वर्गं जितं येन महात्मना ॥ ३५ ॥

मूलम्

अन्यत्स्थानं प्रयाहि त्वं नोवा वयं व्रजामहे
गीतविधाधर उवाच-
इन्द्रियाणां बलं वर्गं जितं येन महात्मना ॥ ३५ ॥

विश्वास-प्रस्तुतिः

स जयी कथ्यते योगी स च वीरः ससाधकः
शब्दं श्रुत्वाथ वा दृष्ट्वा रूपमेवं महामते ॥ ३६ ॥

मूलम्

स जयी कथ्यते योगी स च वीरः ससाधकः
शब्दं श्रुत्वाथ वा दृष्ट्वा रूपमेवं महामते ॥ ३६ ॥

विश्वास-प्रस्तुतिः

चलते नैव यो ध्यानात्स धीरस्तपसाधकः
भवांस्तु तेजसा हीन इन्द्रियैर्विजितो यतः ॥ ३७ ॥

मूलम्

चलते नैव यो ध्यानात्स धीरस्तपसाधकः
भवांस्तु तेजसा हीन इन्द्रियैर्विजितो यतः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

स्वर्गेपि नास्ति सामर्थ्यं मम गीतस्य धर्षणे
वर्जयन्ति वनं सर्वे हीनवीर्या न संशयः ॥ ३८ ॥

मूलम्

स्वर्गेपि नास्ति सामर्थ्यं मम गीतस्य धर्षणे
वर्जयन्ति वनं सर्वे हीनवीर्या न संशयः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

अयं साधारणो विप्र वनदेशो न संशयः
देवानां सर्वजीवानां यथा मम तथा तव ॥ ३९ ॥

मूलम्

अयं साधारणो विप्र वनदेशो न संशयः
देवानां सर्वजीवानां यथा मम तथा तव ॥ ३९ ॥

विश्वास-प्रस्तुतिः

कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम्
यूयं गच्छन्तु तिष्ठन्तु यद्भव्यं तत्तु नान्यथा ॥ ४० ॥

मूलम्

कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम्
यूयं गच्छन्तु तिष्ठन्तु यद्भव्यं तत्तु नान्यथा ॥ ४० ॥

विश्वास-प्रस्तुतिः

एवमाभाष्य तं विप्रं गीतविद्याधरस्तदा
समाकर्ण्य ततस्तेन मुनिना तस्य उत्तरम् ॥ ४१ ॥

मूलम्

एवमाभाष्य तं विप्रं गीतविद्याधरस्तदा
समाकर्ण्य ततस्तेन मुनिना तस्य उत्तरम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

चिन्तयामास मेधावी किं कृत्वा सुकृतं भवेत्
क्षमां कृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः ॥ ४२ ॥

मूलम्

चिन्तयामास मेधावी किं कृत्वा सुकृतं भवेत्
क्षमां कृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तपश्चचार धर्मात्मा योगासनगतः सदा
कामं क्रोधं परित्यज्य मोहं लोभं तथैव च ॥ ४३ ॥

मूलम्

तपश्चचार धर्मात्मा योगासनगतः सदा
कामं क्रोधं परित्यज्य मोहं लोभं तथैव च ॥ ४३ ॥

विश्वास-प्रस्तुतिः

सर्वेन्द्रियाणि संयम्य मनसा सममेव च
एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः ॥ ४४ ॥

मूलम्

सर्वेन्द्रियाणि संयम्य मनसा सममेव च
एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

सुकलोवाच-
गते तस्मिन्महाभागे पुलस्त्ये मुनिपुङ्गवे
कालादिष्टेन तेनापि गीतविद्याधरेण च ॥ ४५ ॥

मूलम्

सुकलोवाच-
गते तस्मिन्महाभागे पुलस्त्ये मुनिपुङ्गवे
कालादिष्टेन तेनापि गीतविद्याधरेण च ॥ ४५ ॥

विश्वास-प्रस्तुतिः

चिन्तितं सुचिरं कालं न दृष्टोयं भयान्मम
क्व गतस्तिष्ठते वापि कुरुते किं कथं च सः ॥ ४६ ॥

मूलम्

चिन्तितं सुचिरं कालं न दृष्टोयं भयान्मम
क्व गतस्तिष्ठते वापि कुरुते किं कथं च सः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

ज्ञात्वा पद्मात्मजसुतमेकान्तवनशालिनम्
गतो वराहरूपेण तस्याश्रममनुत्तमम् ॥ ४७ ॥

मूलम्

ज्ञात्वा पद्मात्मजसुतमेकान्तवनशालिनम्
गतो वराहरूपेण तस्याश्रममनुत्तमम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

आसनस्थं महात्मानं तेजोज्वालासमाविलम्
दृष्ट्वा चकार वै क्षोभं तस्य विप्रस्य भामिनि ॥ ४८ ॥

मूलम्

आसनस्थं महात्मानं तेजोज्वालासमाविलम्
दृष्ट्वा चकार वै क्षोभं तस्य विप्रस्य भामिनि ॥ ४८ ॥

विश्वास-प्रस्तुतिः

धर्षयेन्नियतं विप्रं तुण्डाग्रेण कुचेष्टया
पशुं ज्ञात्वा महाराज क्षमते तस्य दुष्कृतम् ॥ ४९ ॥

मूलम्

धर्षयेन्नियतं विप्रं तुण्डाग्रेण कुचेष्टया
पशुं ज्ञात्वा महाराज क्षमते तस्य दुष्कृतम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

मूत्रयेत्पुरतः कृत्वा विष्ठां च कुरुते ततः
नृत्यते क्रीडते तत्र पतति प्रोच्चलेत्पुनः ॥ ५० ॥

मूलम्

मूत्रयेत्पुरतः कृत्वा विष्ठां च कुरुते ततः
नृत्यते क्रीडते तत्र पतति प्रोच्चलेत्पुनः ॥ ५० ॥

विश्वास-प्रस्तुतिः

पशुं ज्ञात्वा परित्यक्तो मुनिना तेन भूपते
एकदा तु तथायाते तेन रूपेण वै पुनः ॥ ५१ ॥

मूलम्

पशुं ज्ञात्वा परित्यक्तो मुनिना तेन भूपते
एकदा तु तथायाते तेन रूपेण वै पुनः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

अट्टाट्टहासेन पुनर्हास्यमेवं कृतं तदा
रोदनं च कृतं तत्र गीतं गायति सुस्वरम् ॥ ५२ ॥

मूलम्

अट्टाट्टहासेन पुनर्हास्यमेवं कृतं तदा
रोदनं च कृतं तत्र गीतं गायति सुस्वरम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

तथा तमागतं विप्रो गीतविद्याधरं नृप
चेष्टितं तस्य वै दृष्ट्वा घोणिरेष भवेन्नहि ॥ ५३ ॥

मूलम्

तथा तमागतं विप्रो गीतविद्याधरं नृप
चेष्टितं तस्य वै दृष्ट्वा घोणिरेष भवेन्नहि ॥ ५३ ॥

विश्वास-प्रस्तुतिः

ज्ञात्वा तस्य तु वृत्तान्तं मामेवं परिचालयेत्
पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिर्घृणः ॥ ५४ ॥

मूलम्

ज्ञात्वा तस्य तु वृत्तान्तं मामेवं परिचालयेत्
पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिर्घृणः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

एवं ज्ञात्वा महात्मानं गन्धर्वाधममेव हि
चुकोप मुनिशार्दूलस्तं शशाप महामतिः ॥ ५५ ॥

मूलम्

एवं ज्ञात्वा महात्मानं गन्धर्वाधममेव हि
चुकोप मुनिशार्दूलस्तं शशाप महामतिः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

यस्माच्छूकररूपेण मामेवं परिचालयेः
तस्माद्व्रज महापाप पापयोनिं तु शौकरीम् ॥ ५६ ॥

मूलम्

यस्माच्छूकररूपेण मामेवं परिचालयेः
तस्माद्व्रज महापाप पापयोनिं तु शौकरीम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

शप्तस्तेनापि विप्रेण गतो देवं पुरन्दरम्
तमुवाच महात्मानं कम्पमानो वरानने ॥ ५७ ॥

मूलम्

शप्तस्तेनापि विप्रेण गतो देवं पुरन्दरम्
तमुवाच महात्मानं कम्पमानो वरानने ॥ ५७ ॥

विश्वास-प्रस्तुतिः

शृणु वाक्यं सहस्राक्ष तव कार्यं कृतं मया
तप एव हि कुर्वन्सन्दारुणं मुनिपुङ्गवः ॥ ५८ ॥

मूलम्

शृणु वाक्यं सहस्राक्ष तव कार्यं कृतं मया
तप एव हि कुर्वन्सन्दारुणं मुनिपुङ्गवः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

तस्मात्तपःप्रभावात्तु चालितः क्षोभितो मया
शप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम् ॥ ५९ ॥

मूलम्

तस्मात्तपःप्रभावात्तु चालितः क्षोभितो मया
शप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

पशुयोनिं गतं शक्र मामेवं परिरक्षय
ज्ञात्वा तस्य स वृत्तान्तं गीतविद्याधरस्य च ॥ ६० ॥

मूलम्

पशुयोनिं गतं शक्र मामेवं परिरक्षय
ज्ञात्वा तस्य स वृत्तान्तं गीतविद्याधरस्य च ॥ ६० ॥

विश्वास-प्रस्तुतिः

तेन सार्धङ्गतश्चेन्द्रस्तं मुनिं पर्यभाषत
दीयतामनुग्रहो नाथ सिद्धिज्ञोसि द्विजोत्तम ॥ ६१ ॥

मूलम्

तेन सार्धङ्गतश्चेन्द्रस्तं मुनिं पर्यभाषत
दीयतामनुग्रहो नाथ सिद्धिज्ञोसि द्विजोत्तम ॥ ६१ ॥

विश्वास-प्रस्तुतिः

क्षम्यतां मुनिवर्यास्मिन्क्रियतां शापमोक्षणम्
इति सम्प्रार्थितो विप्रो महेन्द्रेणाह हृष्टधीः ॥ ६२ ॥

मूलम्

क्षम्यतां मुनिवर्यास्मिन्क्रियतां शापमोक्षणम्
इति सम्प्रार्थितो विप्रो महेन्द्रेणाह हृष्टधीः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच-
वचनात्तव देवेश क्षन्तव्यं च मयापि हि
भविष्यति महाराज मनुपुत्रो महाबलः ॥ ६३ ॥

मूलम्

पुलस्त्य उवाच-
वचनात्तव देवेश क्षन्तव्यं च मयापि हि
भविष्यति महाराज मनुपुत्रो महाबलः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

इक्ष्वाकुर्नाम धर्मात्मा सर्वधर्मानुपालकः
तस्य हस्ताद्यदा मृत्युरस्यैव च भविष्यति ॥ ६४ ॥

मूलम्

इक्ष्वाकुर्नाम धर्मात्मा सर्वधर्मानुपालकः
तस्य हस्ताद्यदा मृत्युरस्यैव च भविष्यति ॥ ६४ ॥

विश्वास-प्रस्तुतिः

तदैष वै स्वकं देहं प्राप्स्यते नात्र संशयः
एतत्ते सर्ववृत्तान्तं शूकरस्य निवेदितम् ॥ ६५ ॥

मूलम्

तदैष वै स्वकं देहं प्राप्स्यते नात्र संशयः
एतत्ते सर्ववृत्तान्तं शूकरस्य निवेदितम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

आत्मनश्च प्रवक्ष्यामि पत्या सार्धं शृणुष्व हि
मया च पातकं घोरं कृतं यत्पापया पुरा ॥ ६६ ॥

मूलम्

आत्मनश्च प्रवक्ष्यामि पत्या सार्धं शृणुष्व हि
मया च पातकं घोरं कृतं यत्पापया पुरा ॥ ६६ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
षट्चत्वारिंशोऽध्यायः ४६