०४४

चतुश्चत्वारिंशत्तमोऽध्यायः

विश्वास-प्रस्तुतिः

सुकलोवाच-
स्वसैन्यं दुर्धरं दृष्ट्वा निर्जितं दुर्धरेण तम्
चुकोप भूपतिः क्रूरं दुःसहं शूकरं प्रति ॥ १ ॥

मूलम्

धनुरादाय वेगेन बाणं कालानलोपमम्
तस्याभिमुखमेवासौ हयेनाभिससार सः ॥ २ ॥

मूलम्

धनुरादाय वेगेन बाणं कालानलोपमम्
तस्याभिमुखमेवासौ हयेनाभिससार सः ॥ २ ॥

विश्वास-प्रस्तुतिः

स यदा नृपतिं हयपृष्ठगतं वरपौरुषयुक्तममित्रहणम्
परिपश्यति शूकरयूथपतिः प्रगतोभिमुखं रणभूमितले ॥ ३ ॥

निशितेन शरेण हतो हि यदा नृपतेर्हयपादतले प्रगतः
तमिहैव विलङ्घ्य च वेगमनाः प्रखरेण जवेन च कोलवरः ॥ ४ ॥

व्यथितस्तुरगः सकिरिःकिटिना न हि याति क्षितौ स हि विद्धगतिः
तुरगः पतितो भुवि तुण्डहतो लघुस्यन्दनमेव गतो नृपतिः ॥ ५ ॥

स हि गर्जति शूकरजातिरवैरथसंस्थितकोशल येन जवैः
गदया निहतः किल भूपतिना रणमध्यगतः स हि यूथपतिः ॥ ६ ॥

परित्यज्य तनुं च स्वकां हि तदा गत एव हरेर्गृहमेव वरम् ॥ ७ ॥

कृत्वा हि युद्धं समरे हितेन राज्ञा समं शूकरराजराजः
पपात भूमौ च हतो यदा तु ववर्षिरे देववराः सुपुष्पैः ॥ ८ ॥

तस्योर्ध्वगः पुष्पचयः सुजातः सन्तानकानामिव सौरभश्च
सकुङ्कुमैश्चन्दनवृष्टिमेव कुर्वन्ति देवाः परितुष्यमाणाः ॥ ९ ॥

विमृश्यमानः स हि तेन राज्ञा चतुर्भुजः सोपि बभूव राजन्
दिव्याम्बरोभूषणदिव्यरूपः स्वतेजसा भाति दिवाकरो यथा ॥ १० ॥

दिव्येन यानेन दिवं गतो यदा सुपूज्यमानः सुरराजदेवैः
गन्धर्वराजः स बभूव भूयः पूर्वं स्वकं कायमिहैव हित्वा ॥ ११ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
चतुश्चत्वारिंशत्तमोऽध्यायः ४४