०४३

त्रयश्चत्वारिंशत्तमोऽध्यायः 2.43

विश्वास-प्रस्तुतिः

सुकलोवाच-
एवं ते शूकराः सर्वे युद्धाय समुपस्थिताः
पुरः स्थितस्य ते राज्ञो ह्यवतस्थुश्च लुब्धकाः ॥ १ ॥

मूलम्

महावराहो राजेन्द्र गिरिसानुं समाश्रितः
महता यूथभावेन व्यूहं कृत्वा प्रतिष्ठति ॥ २ ॥

कपिलः स्थूलपीनाङ्गो महादंष्ट्रो महामुखः
दुःसहः शूकरो राजन्गर्जते चातिभैरवम् ॥ ३ ॥

तानपश्यन्महाराजः शालतालवनाश्रयान्
तेषां तद्वचनं श्रुत्वा मनुपुत्रः प्रतापवान् ॥ ४ ॥

गृह्यतां शूर वाराहो विध्यतां बलदर्पितः
एवमाभाष्य तान्वीरो मनुपुत्रः प्रतापवान् ॥ ५ ॥

अथ ते लुब्धकाः सर्वे मृगया मदमोहिताः
सन्नद्धा दंशिताः सर्वे श्वभिः सार्द्धं प्रजग्मिरे ॥ ६ ॥

हर्षेण महताविष्टो राजराजो महाबलः
अश्वारूढः सुसैन्येन चतुरङ्गेण संयतः ॥ ७ ॥

गङ्गातीरं समायातो मेरौ गिरिवरोत्तमे
रत्नधातुसमाकीर्णे नानावृक्षैरलङ्कृते ॥ ८ ॥

यो बलधाम मरीचिचयकरनिकरमयप्रोत्तुङ्गोऽत्युच्चम्
गगनमेव सम्प्राप्तो नाना नगाचरितशोभो गिरिराजो भाति ॥ ९ ॥

योजनबहलविमल गङ्गाप्रवाह समुच्चरत्तीरवीचीतरङ्गभङ्गैर्मुक्ताफलसदृशैर्निर्मलाम्बुकणैः
सर्वत्र प्रक्षालित धवलतलशिलातलोगिरीन्द्र सुःश्रियायुक्तः ॥ १० ॥

देवैश्चारणकिन्नरैः परिवृतो गन्धर्वविद्याधरैः सिद्धैरप्सरसाङ्गणैर्मुनिजनैर्नागेन्द्र विद्याधरैः
श्रीखण्डैर्बहुचन्दनैस्ससरलैः शालैस्तमालैर्गिरी रुद्रा क्षैर्वरसिद्धिदायकघनैः कल्पद्रुमैः शोभते ॥ ११ ॥

नानाधातुविचित्रो वै नानारत्नविचित्रितैः
विमानैः काञ्चनैर्दण्डैः कलत्रैरुपशोभते ॥ १२ ॥

नालिकेरवनैर्दिव्यैः पूगवृक्षैर्विराजते
दिव्यपुन्नागबकुलैः कदलीखण्डमण्डितैः ॥ १३ ॥

पुष्पकैश्चम्पकैरद्रि पाःटलैः केतकैस्तथा
नानावल्लीवितानैश्च पुष्पितैः पद्मकैस्तथा ॥ १४ ॥

नानावर्णैः सुपुष्पैश्च नानावृक्षैरलङ्कृतः
दिव्यवृक्षैः समाकीर्णः स्फाटिकस्य शिलातलैः ॥ १५ ॥

योगियोगीन्द्र संसिद्धैः कन्दरान्तर्निवासिभिः
निर्झरैश्चैव रम्यैश्च बहुप्रस्रवणैर्गिरिः ॥ १६ ॥

नदीप्रवाहसंह्रष्टैः सङ्गमैरुपशोभते
ह्रदैश्च पल्वलैः कुण्डैर्निर्मलोदकधारिभिः ॥ १७ ॥

गिरिराजो विभात्येकः सानुभिः सह संस्थितैः
शरभैश्चैव शार्दूलैर्मृगयूथैरलङ्कृतः ॥ १८ ॥

महामत्तैश्च मातङ्गैर्महिषैरुरुभिः सदा
अनेकैर्दिव्यभावैश्च गिरिराजो विभाति सः ॥ १९ ॥

अयोध्याधिपतिर्वीर इक्ष्वाकुर्मनुनन्दनः
तया सुभार्यया युक्तश्चतुरङ्गबलेन च ॥ २० ॥

पुरतो लुब्धका यान्ति शूराः श्वानश्च शीघ्रगाः
यत्रास्ते शूकरः शूरो भार्यया सहितो बली ॥ २१ ॥

बहुभिः शूकरैर्गुप्तो गुरुभिः शिशुभिस्ततः
मेरुभूमिं समाश्रित्य गङ्गातीरं समन्ततः ॥ २२ ॥

तामुवाच वराहस्तु सुप्रियां हर्षसंयुतः
प्रिये पश्य समायातः कोशलाधिपतिर्बली ॥ २३ ॥

मामुद्दिश्य महाप्राज्ञो मृगयां क्रीडते नृपः
युद्धमेव करिष्यामि सुरासुरप्रहर्षकम् ॥ २४ ॥

अथ भूपो महातेजा बाणपाणिर्धनुर्धरः
सुदेवां सत्यधर्माङ्गीं तामुवाच प्रहर्षितः ॥ २५ ॥

पश्य प्रिये महाकोलं गर्जमानं महाबलम्
परिवारसमायुक्तं दुःसहं मृगघातिभिः ॥ २६ ॥

अद्यैवाहं हनिष्यामि सुबाणैर्निशितैः प्रिये
मामेव हि महाशूरो युद्धाय समुपाश्रयेत् ॥ २७ ॥

एवमुक्त्वा प्रियो भार्यां लुब्धकान्वाक्यमब्रवीत्
यथा शूरो महाशूराः प्रेषयध्वं हि शूकरम् ॥ २८ ॥

अथ ते प्रेषिताः शूरा बलतेजः पराक्रमाः
गर्जमानाः प्रधावन्ति बलतेजः पराक्रमाः ॥ २९ ॥

कोलं प्रतिगताः सर्वे वायुवेगेन साम्प्रतम्
विध्यन्ति बाणजालैस्ते निशितैर्वनचारकाः ॥ ३० ॥

नाना शस्त्रैरथास्त्रैश्च वाराहं वीररूपिणम् ॥ ३१ ॥

मूलम्

नाना शस्त्रैरथास्त्रैश्च वाराहं वीररूपिणम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

सुकलोवाच-
पतन्ति बाणतोमरा विमुक्ता लुब्धकैः शरा घनागिरिम्प्रवर्षिणो यथातथा धरान्तरे
हतो दृढप्रहारिभिः स निर्जितस्ततस्तथा शतैस्तु यूथपालकः स कोलः सङ्गरङ्गतः ॥ ३२ ॥

स्वपुत्रपौत्रबान्धवैः परांश्च संहरेत्स वै पतन्ति ते स्वदंष्ट्रया हताहवेऽवलुब्धकाः
पतन्ति पादहस्तकाः स्थितस्य वेगभ्रामणैः सलुब्धगर्जमेवतं वराहोऽपश्यदागतम् ॥ ३३ ॥

स्वतेजसा विनाशितं मुखाग्रदंष्ट्रया हतं
गतः स यत्र भूपतिः स वाञ्छतेनसङ्गरम् ॥ ३४ ॥

इक्ष्वाकुनाथं सुमहत्प्रसह्य सन्त्रास्य क्रुद्धः स हि शूकरेशः
युद्धं वने वाञ्छति तेन सार्द्धमिक्ष्वाकुणा सङ्गरहर्षयुक्तः ॥ ३५ ॥

वाराहः पुनरेव युद्धकुशलः संवाञ्छते सङ्गरं तुण्डाग्रेण सुतीक्ष्णदन्तनखरैः क्रुद्धो धरां क्षोभयन्
हुङ्कारोच्चारगर्वात्प्रहरति विमलं भूपतिं तं च राजञ्ज्ञात्वा विष्णुपराक्रमं मनुसुतस्त्वानन्दरोमाञ्चितः ॥ ३६ ॥

दृष्ट्वा शूकरपौरुषं यमतुलं मेने पतिर्वावराड्देवारिं मनसा विचिन्त्य सहसा वाराहरूपेण वै
सम्प्रेक्ष्यैव महाबलं बहुतरं युक्तं त्वरेर्वारणं सैन्यं कोलविनाशनाय सहसा सङ्गृह्य सङ्गृह्यताम् ॥ ३७ ॥

प्रेषिताश्च वारणा रथाश्च वेगवत्तराः सुबाणखड्गधारिणो भुशुण्डिभिश्च मुद्गरैः
सपाशपाणिलुब्धका नदन्ति तत्र तत्परा निवारितो न तिष्ठतो हयागजाश्च यद्गताः ॥ ३८ ॥

क्वचित्क्वचिन्न दृश्यते क्वचित्क्वचित्प्रदृश्यते क्वचिद्भयं प्रदर्शयेत्क्वचिद्धयान्प्रमर्दयेत् ॥ ३९ ॥

मर्दयित्वा भटान्वीरान्वाराहो रणदुर्जयः
शब्दं चकारदुर्धषं क्रोधारुणविलोचनः ॥ ४० ॥

कोशलाधिपतिर्वीरस्तं दृष्ट्वा रणदुर्जयम्
युध्यमानं महाकायं मुचन्तं मेघवत्स्वनम् ॥ ४१ ॥

गर्जतिसमरं विचरति विलसति वीरान्स्वतेजसा धीरः
तडिदिव मुखेषु दंष्ट्रा तस्य विभात्युल्लसत्येव ॥ ४२ ॥

मनुपुत्रस्तथा दृष्ट्वा कोलं च निशितैः शरैः
प्रतिभिन्नमेकैकं शस्त्राहतं च बन्धुभिः ॥ ४३ ॥

नरपतिरुवाच सैन्याः किमिह न गृह्णन्तु ओजसा शूराः
युध्यध्वं तत्र निशितैर्बाणैस्तीक्ष्णैरनेनापि ॥ ४४ ॥

समाकर्ण्य ततो वाक्यं क्रुद्धस्यापि महात्मनः
ततस्ते सैनिकाः सर्वे युद्धाय समुपस्थिताः ॥ ४५ ॥

अनेकैर्भटसाहस्रैर्वने तं समरे स्थितम्
दिक्षु सर्वासु संहत्य बिभिदुः शूकरं रणे ॥ ४६ ॥

विद्धश्च कैश्चित्तदा बाणजालैः सुयोधैश्च सङ्ग्रामभूमौ विशालैः
क्वचिच्चक्रघातैः क्वचिद्वज्रपातैर्हतं दुर्जयं सङ्गरे तं महान्तैः ॥ ४७ ॥

ततः पौरुषैः क्रोधयुक्तः स कोलः सुविच्छिद्य पाशान्रणे प्रस्थितः सः
महाशूकरैः सार्धमेव प्रयातस्ततः शोणितस्यापि धाराभिषिक्तः ॥ ४८ ॥

करोति प्रहारं च तुण्डेन वीरहयानां द्विपानां च चिच्छेद वीरः
स्वदंष्ट्राग्रभागेन तीक्ष्णेन वीरान्पदातीन्हि सम्पातयेद्रोषभावैः ॥ ४९ ॥

जघानास्य शुण्डं गजस्यापि रुष्टो भटान्हतान्पादनखैस्तु हृष्टः ॥ ५० ॥

ततस्ते शूकराः सर्वे लुब्धकाश्च परस्परम्
युयुधुः सङ्गरं कृत्वा क्रोधारुणविलोचनाः ॥ ५१ ॥

लुब्धकैश्च हताः कोलाः कोलैश्चापि सुलुब्धकाः
निहताः पतिता भूमौ क्षतजेनापि सारुणाः ॥ ५२ ॥

जीवं त्यक्त्वा हताः कोलैर्लुब्धकाः पतिता रणे
मृताश्च शूकरास्तत्र श्वानः प्राणांश्च तत्यजुः ॥ ५३ ॥

यत्रयत्र मृता भूमौ पतिता मृगघातकाः
बहवः शूकरा राज्ञा खड्गपातैर्निपातिताः ॥ ५४ ॥

कति नष्टा हताः कोला भीता दुर्गेषु संस्थिताः
कुञ्जेषु कन्दरान्तेषु गुहान्तेषु नृपोत्तम ॥ ५५ ॥

लुब्धकाश्च मृताः केचिच्छिन्ना दंष्ट्राग्रसूकरैः
प्राणांस्त्यक्त्वा गताः स्वर्गं खण्डशो विदलीकृताः ॥ ५६ ॥

वागुराः पाशजालाश्च कुटकाः पञ्जरास्तथा
नाड्यश्च पतिता भूमौ यत्रतत्र समन्ततः ॥ ५७ ॥

एको दयितया सार्धं वाराहः परितिष्ठति
पौत्रकैः पञ्चसप्तभिर्युद्धार्थं बलदर्पितः ॥ ५८ ॥

तमुवाच तदा कान्तं शूकरं शूकरी पुनः
गच्छ कान्त मयासार्द्धमेभिस्तु बालकैः सह ॥ ५९ ॥

प्राह प्रीतो वराहस्तां विवस्तां सुप्रियामिति
क्व गच्छामि प्रभग्नोहं स्थानं नास्ति महीतले ॥ ६० ॥

मयि नष्टे महाभागे कोलयूथं विनङ्क्ष्यति
द्वयोश्च सिंहयोर्मध्ये जलं पिबति शूकरः ॥ ६१ ॥

द्वयोः शूकरयोर्मध्ये सिंहो नैव पिबत्यपः
एवं शूकरजातीषु दृश्यते बलमुत्तमम् ॥ ६२ ॥

तदहं नाशयाम्येव यदा भग्नो व्रजाम्यहम्
जाने धर्मं महाभागे बहुश्रेयोविधायकम् ॥ ६३ ॥

कस्माल्लोभाद्भयाद्वापि युध्यमानः प्रणश्यति
रणतीर्थं परित्यज्य सस्यात्पापी न संशयः ॥ ६४ ॥

निशितं शस्त्रसंव्यूहं दृष्ट्वा हर्षं प्रगच्छति
अवगाह्यामरीं सिन्धुं तीर्थपारं प्रगच्छति ॥ ६५ ॥

स याति वैष्णवं लोकं पुरुषांश्च समुद्धरेत्
समायान्तं च तदहं कथं भग्नो व्रजामि वै ॥ ६६ ॥

योधनं शस्त्रसङ्कीर्णं प्रवीरानन्ददायकम्
दृष्ट्वा प्रयाति संहृष्टस्तस्य पुण्यफलं शृणु ॥ ६७ ॥

पदेपदे महत्स्नानं भागीरथ्याः प्रजायते
रणाद्भग्नो गृहं याति यो लोभाच्च प्रिये शृणु ॥ ६८ ॥

मातृदोषं प्रकाशेत स्त्रीजातः परिकथ्यते
अत्र यज्ञाश्च तीर्थाश्च अत्र देवा महौजसः ॥ ६९ ॥

पश्यन्ति कौतुकं कान्ते मुनयः सिद्धचारणाः
त्रैलोक्यं वर्तते तत्र यत्र वीरप्रकाशनम् ॥ ७० ॥

समराद्भग्नं प्रपश्यन्ति सर्वे त्रैलोक्यवासिनः
शपन्ति निर्घृणं पापं प्रहसन्ति पुनःपुनः ॥ ७१ ॥

दुर्गतिं दर्शयेत्तस्य धर्मराजो न संशयः
सम्मुखः समरे युद्धे स्वशिरः शोणितं पिबेत् ॥ ७२ ॥

अश्वमेधफलं भुङ्क्ते इन्द्रलोकं प्रगच्छति
यदा जयति सङ्ग्रामे शत्रूञ्छूरो वरानने ॥ ७३ ॥

तदा प्रभुञ्जते लक्ष्मीं नानाभोगान्न संशयः
यदा तत्र त्यजेत्प्राणान्सम्मुखः सन्निराश्रयः ॥ ७४ ॥

स गच्छेत्परमं स्थानं देवकन्यां प्रभुञ्जते
एवं धर्मं विजानामि कथं भग्नो व्रजाम्यहम् ॥ ७५ ॥

अनेन समरे युद्धं करिष्ये नात्र संशयः
मनोः पुत्रेण धीरेण राज्ञा इक्ष्वाकुणा सह ॥ ७६ ॥

डिम्भान्गृहीत्वा याहि त्वं सुखं जीव वरानने
तस्य श्रुत्वा वचः प्राह बद्धाहं तव बन्धनैः ॥ ७७ ॥

स्नेहमानरसाख्यैश्च रतिक्रीडनकैः प्रिय
पुरतस्ते सुतैः सार्द्धं प्राणांस्त्यक्ष्यामि मानद ॥ ७८ ॥

एवमेतौ सुसम्भाष्य परस्परहितैषिणौ
युद्धाय निश्चितौ भूत्वा समालोकयतो रिपून् ॥ ७९ ॥

कोशलाधिपतिं वीरं तमिक्ष्वाकुं महामतिम् ॥ ८० ॥

यथैव मेघः परिगर्जते दिवि प्रावृट्सुकालेषु तडित्प्रकाशैः
तथैव सङ्गर्जति कान्तया समं समाह्वयेद्राजवरं खुराग्रैः ॥ ८१ ॥

तं गर्जमानं ददृशे महात्मा वाराहमेकं पुरुषार्थयुक्तम्
ससार अश्वस्य जवेनयुक्तः ससम्मुखं तस्य नृवीरधीरः ॥ ८२ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे-
त्रयश्चत्वारिंशत्तमोऽध्यायः ४३