०४२

द्विचत्वारिंशत्तमोऽध्यायः

विश्वास-प्रस्तुतिः

सख्य ऊचुः-
सुदेवा का त्वया प्रोक्ता किमाचारा वदस्व नः
त्वया प्रोक्तं महाभागे वद नः सत्यमेव च ॥ १ ॥

मूलम्

सुकलोवाच-
अयोध्यायां महाराजः स आसीद्धर्मकोविदः
मनुपुत्रो महाभागः सर्वधर्मार्थतत्परः ॥ २ ॥

इक्ष्वाकुर्नाम सर्वज्ञो देवब्राह्मणपूजकः
तस्य भार्या सदा पुण्या पतिव्रतपरायणा ॥ ३ ॥

तया सार्द्धं यजेद्यज्ञं तीर्थानि विविधानि च
वेदराजस्य वीरस्य काशीशस्य महात्मनः ॥ ४ ॥

सुदेवा नाम वै कन्या सत्याचारपरायणा
उपयेमे महाराज इक्ष्वाकुस्तां महीपतिः ॥ ५ ॥

सुदेवा चारुसर्वाङ्गी सत्यव्रतपरायणा
तया सार्द्धं स वै राजा जनानां पुण्यनायकः ॥ ६ ॥

स रेमे नृपशार्दूलो नित्यं च प्रियया तया
एकदा तु महाराजस्तया सार्द्धं वनं ययौ ॥ ७ ॥

गङ्गारण्यं समासाद्य मृगयां क्रीडते सदा
सिंहान्हत्वा वराहांश्च गजांश्च महिषांस्तथा ॥ ८ ॥

क्रीडमानस्य तस्याग्रे वराहश्च समागतः
बहुशूकरयूथेन पुत्रपौत्रैरलङ्कृतः ॥ ९ ॥

मूलम्

क्रीडमानस्य तस्याग्रे वराहश्च समागतः
बहुशूकरयूथेन पुत्रपौत्रैरलङ्कृतः ॥ ९ ॥

विश्वास-प्रस्तुतिः

एका च शूकरी तस्य प्रियापार्श्वे प्रतिष्ठिता
वराहैः शूकरैस्तस्य तमेव परिवारिता ॥ १० ॥

दृष्ट्वा च राजराजेन्द्रं दुर्जयं मृगयारतम्
पर्वताधारमाश्रित्य भार्यया सह शूकरः ॥ ११ ॥

तिष्ठत्येकः सुवीर्येण पुत्रान्पौत्रान्गुरूञ्छिशून्
ज्ञात्वा तेषां महाराज मृगाणां कदनं महत् ॥ १२ ॥

तानुवाच सुतान्पौत्रान्भार्यां तां च स शूकरः
कोशलाधिपतिर्वीरो मनुपुत्रो महाबलः ॥ १३ ॥

क्रीडते मृगयां कान्ते मृगान्संहरते बहून्
स मां दृष्ट्वा महाराज एष्यते नात्र संशयः ॥ १४ ॥

अन्येषां लुब्धकानां मे नास्ति प्राणभयं ध्रुवम्
ममरूपं नृपो दृष्ट्वा क्षमां नैव करिष्यति ॥ १५ ॥

हर्षेण महताविष्टो बाणपाणिर्धनुर्द्धरः
श्वभिर्युक्तो महातेजा लुब्धकैः परिवारितः ॥ १६ ॥

प्रिये करिष्यते घातं ममाप्येवं न संशयः ॥ १७ ॥

शूकर्युवाच-
यदायदा पश्यसि लुब्धकान्बहून्महावने कान्त समायुधान्बहून्
एतैस्तु पुत्रैर्ममपौत्रकैः समं दूरं नु भो यासि पलायमानः ॥ १८ ॥

त्यक्त्वा सुधैर्यं बलपौरुषं महन्महाभयेनापि विषण्णचेतनः
दृष्ट्वा नृपेन्द्रं पुरुषोत्तमोत्तमं करोषि किं कान्त वदस्वकारणम् ॥ १९ ॥

तस्यास्तु वाक्यं सनिशम्य कोल उवाच तां शूकरराजउत्तरम्
यदर्थभीतोस्मि सुलुब्धकात्प्रिये दृष्ट्वा गतो दूर निशम्यशूकरान् ॥ २० ॥

सुलुब्धकाः पापकराः शठाः प्रिये कुर्वन्ति पापं गिरिदुर्गकन्दरे
सदैव दुष्टा बहुपापचिन्तका जाताश्च सर्वे परिपापिनां कुले ॥ २१ ॥

तेषां हि हस्तान्मरणाद्बिभेमि मृतोपि यास्यामि पुनश्च पापम्
दूरं गिरिं पर्वतकन्दरं च व्रजामि कान्ते अपमृत्युभीतः ॥ २२ ॥

अयं हि पुण्यो नरनाथ आगतो विश्वाधिकः केशवरूप भूपः
युद्धं करिष्ये समरे महात्मना सार्द्धं प्रिये पौरुषविक्रमेण ॥ २३ ॥

जेष्यामि भूपं यदि स्वेन तेजसा भोक्ष्यामि कीर्तिं त्वतुलां पृथिव्याम्
तेनाहतो वीरवरेण सङ्गरे यास्यामि लोकं मधुसूदनस्य ॥ २४ ॥

ममाङ्गभूतेन पलेनमेदसा तृप्तिं परां यास्यति भूमिनाथः
तृप्ता भविष्यन्ति सुलोकदेवता अस्मादयञ्चागतो वज्रपाणिः ॥ २५ ॥

अस्यैव हस्तान्मरणं यदाभवेल्लाभश्च मे सुन्दरि कीर्तिरुत्तमा
तस्माद्यशो भूमितले जगत्त्रये व्रजामि लोकं मधुसूदनस्य ॥ २६ ॥

नैवं भीतोस्मि क्षुब्धोस्मि गतोऽहं गिरिसानुषु
पापाद्भीतो गतः कान्तेधर्मं दृष्ट्वा स्थितोह्यहम् ॥ २७ ॥

न जाने पातकं पूर्वमन्यजन्मनि चार्जितम्
येनाहं शौकरीं योनिं गतोऽहं पापसञ्चयात् ॥ २८ ॥

क्षालयिष्याम्यहं घोरं पूर्वपातकसञ्चयम्
बाणोदकैर्महाघोरैः सुतीक्ष्णैर्निशितैः शतैः ॥ २९ ॥

पुत्रान्पौत्रांस्तु वाराहि कन्यां कुटुम्बबालकम्
गिरिं गच्छ गृहीत्वा तु मम मोहमिमं त्यज ॥ ३० ॥

ममस्नेहं परित्यज्य हरिरेष समागतः
अस्य हस्तात्प्रयास्यामि तद्विष्णोः परमं पदम् ॥ ३१ ॥

दैवेनापि ममाद्यैव स्वर्गद्वारमनुत्तमम्
उद्घाटितकपाटं तु यास्यामि सुमहादिवम् ॥ ३२ ॥

तच्छ्रुत्वा वचनं तस्य शूकरस्य महात्मनः
उवाच तत्प्रिया सख्यः सीदमानान्तरा तदा ॥ ३३ ॥

यस्मिन्यूथे भवान्स्वामी पुत्रपौत्रैरलङ्कृतः
मित्रैश्च भ्रातृभिश्चैव अन्यैः स्वजनबान्धवैः ॥ ३४ ॥

त्वयैवालङ्कृतो यूथो भवता परिशोभते
त्वां विनायं महाभाग कीदृग्यूथो भविष्यति ॥ ३५ ॥

तवैव स्वबलेनापि गर्जमानाश्च शूकराः
विचरन्ति गिरौ कान्त तनया मम बालकाः ॥ ३६ ॥

कन्दान्मूलान्सुभक्षन्ति निर्भयास्तव तेजसा
दुर्गेषु वनकुञ्जेषु ग्रामेषु नगरेषु च ॥ ३७ ॥

न कुर्वन्ति भयं तीव्रं सिंहानामिह पर्वते
मनुष्याणां महाबाहो पालितास्तव तेजसा ॥ ३८ ॥

त्वया त्यक्ता अमी सर्वे बालका मम दारकाः
दीनाश्चैवाकुलाश्चैव भविष्यन्ति विचेतनाः ॥ ३९ ॥

नित्यमेव सुखं वर्त्म गत्वा पश्यन्ति बालकाः
पतिहीना यथा नारी शोभते नैव शोभना ॥ ४० ॥

अलङ्कृता यथा दिव्यैरलङ्कारैः सकाञ्चनैः
परिच्छदै रत्नवस्त्रैः पितृमातृसहोदरैः ॥ ४१ ॥

श्वश्रूश्वशुरकैश्चान्यैः पतिहीना न भाति सा
चन्द्रहीना यथा रात्री पुत्रहीनं यथा कुलम् ॥ ४२ ॥

दीपहीनं यथा गेहं नैव भाति कदाचन
त्वां विनायं तथा यूथो नैव शोभेत मानद ॥ ४३ ॥

आचारेण विना मर्त्यो ज्ञानहीनो यतिर्यथा
मन्त्रहीनो यथा राजा तथायं नैव शोभते ॥ ४४ ॥

कैवर्तेन विना नौर्वा सम्पूर्णा परिसागरे
न भात्येवं यथा सार्थः सार्थवाहेन वै विना ॥ ४५ ॥

सेनाध्यक्षेण च विना यथा सैन्यं न भाति च
त्वां विना वै तथा सैन्यं शूकराणां महामते ॥ ४६ ॥

दीनो भविष्यति तथा वेदहीनो यथा द्विजः
मयि भारं कुटुम्बस्य विनिवेश्य प्रगच्छसि ॥ ४७ ॥

मरणं सुलभं ज्ञात्वा का प्रतिज्ञा तवेदृशी
त्वां विनाहं न शक्नोमि धर्तुं प्राणान्प्रियेश्वर ॥ ४८ ॥

त्वयैव सहिता स्वर्गं भूमिं वाथ महामते
नरकं वापि भोक्ष्यामि सत्यंसत्यं वदाम्यहम् ॥ ४९ ॥

त्वं वा पुत्रांस्तुपौत्रांस्तु गृहीत्वा यूथमुत्तमम्
आवां व्रजाव यूथेश दुर्गमेवं सुकन्दरम् ॥ ५० ॥

जीवितव्यं परित्यज्य रणाय परिगम्यते
तत्र को दृश्यते लाभो मरणे वद साम्प्रतम् ॥ ५१ ॥

वाराह उवाच-
वीराणां त्वं न जानासि सुधर्मं शृणु साम्प्रतम्
युद्धार्थिना हि वीरेण वीरं गत्वा प्रयाचितम् ॥ ५२ ॥

देहि मे योधनं सङ्ख्ये युद्धार्थ्यहं समागतः
परेण याचितं युद्धं न ददाति यदा नरः ॥ ५३ ॥

कामाल्लोभाद्भयाद्वापि मोहाद्वा शृणु वल्लभे
कुम्भीपाके तु नरके वसेद्युगसहस्रकम् ॥ ५४ ॥

क्षत्रियाणां परो धर्मो युद्धं देयं न संशयः
तद्युद्धं दीयमानेन रणभूमिगतेन वै ॥ ५५ ॥

निर्जितं तु परं तत्र यशःकीर्त्तिं प्रभुञ्जते
स वा हतो युध्यमानः पौरुषेणातिनिर्भयः ॥ ५६ ॥

वीरलोकमवाप्नोति दिव्यान्भोगान्प्रभुञ्जते
यावद्वर्षसहस्राणां विंशत्येकां प्रिये शृणु ॥ ५७ ॥

वीरलोके वसेत्तावद्देवाचारैर्महीयते
मनुपुत्रः समायात अयं वीरो न संशयः ॥ ५८ ॥

सङ्ग्रामं याचमानस्तु युद्धं देयं मया ध्रुवम्
युद्धातिथिः समायातो विष्णुरूपः सनातनः ॥ ५९ ॥

सत्कारो युद्धरूपेण कर्तव्यश्च मया शुभे
शूकर्युवाच-
यदा युद्धं त्वया देयं राज्ञे चैव महात्मने ॥ ६० ॥

ततोऽहं पौरुषं कान्त पश्यामि तव कीदृशम्
एवमुक्त्वा प्रियान्पुत्रान्समाहूय त्वरान्विता ॥ ६१ ॥

उवाच पुत्रका यूयं शृणुध्वं वचनं मम
युद्धातिथिः समायातो विष्णुरूपः सनातनः ॥ ६२ ॥

मया तत्र प्रगन्तव्यं यत्रायं हि गमिष्यति
यावत्तिष्ठति वै नाथो भवतां प्रतिपालकः ॥ ६३ ॥

यूयं गच्छत वै दूरं दुर्गं गिरिगुहामुखम्
सुखं जीवत मे वत्सा वर्जयित्वा सुलुब्धकान् ॥ ६४ ॥

मया तत्रैव गन्तव्यं यत्रैष हि गमिष्यति
भवतां श्रेष्ठोऽयं भ्राता यूथरक्षां करिष्यति ॥ ६५ ॥

एते पितृव्यकाः सर्वे भवतां त्राणकारकाः
दूरं प्रयात वै सर्वे मां विहाय सुपुत्रकाः ॥ ६६ ॥

पुत्रा ऊचुः-
अयं हि पर्वतश्रेष्ठो बहुमूलफलोदकः
भयं तु कस्य वै नास्ति सुखं जीवनमस्ति वै ॥ ६७ ॥

युवाभ्यां हि अकस्माद्वै इदमुक्तं भयङ्करम्
तन्नो हि कारणं मातर्वद सत्यमिहैव हि ॥ ६८ ॥

अयं राजा महारौद्रः कालरूपः समागतः
क्रीडते मृगया लुब्धो मृगान्हत्वा बहून्वने ॥ ६९ ॥

इक्ष्वाकुर्नाम दुर्धर्षो मनुपुत्रो महाबलः
संहरिष्यति कालोऽयं दूरं यात सुपुत्रकाः ॥ ७० ॥

मातरं पितरं त्यक्त्वा यः प्रयाति स पापधीः
महारौद्रं सुघोरं तु नरकं प्रतिपद्यते ॥ ७१ ॥

मातुः पुण्यं पयः पीत्वा पुष्टो भवति निर्घृणः
मातरं पितरं त्यक्त्वा यः प्रयाति सुदुर्बलः ॥ ७२ ॥

पूयं नरकमेतीह कृमिदुर्गन्धसङ्कुलम्
मातुस्तस्मान्न यास्यामो गुरुं त्यक्त्वा इहैव च ॥ ७३ ॥

एवं विषादः सञ्जातस्तेषां धर्मार्थसंयुतः
व्यूहं कृत्वा स्थिताः सर्वे बलतेजः समाकुलाः ॥ ७४ ॥

साहसोत्साहसम्पन्नाः पश्यन्ति नृपनन्दनम्
नदन्तः पौरुषैर्युक्ताः क्रीडमाना वने तदा ॥ ७५ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
द्विचत्वारिंशत्तमोऽध्यायः ४२