एकचत्वारिंशोऽध्यायः 2.41
विश्वास-प्रस्तुतिः
वेन उवाच-
पुत्रो भार्या कथं तीर्थं पितामाता कथं वद
गुरुश्चैव कथं तीर्थं तन्मे विस्तरतो वद ॥ १ ॥
मूलम्
वेन उवाच-
पुत्रो भार्या कथं तीर्थं पितामाता कथं वद
गुरुश्चैव कथं तीर्थं तन्मे विस्तरतो वद ॥ १ ॥
विश्वास-प्रस्तुतिः
श्रीविष्णुरुवाच-
अस्ति वाराणसी रम्या गङ्गायुक्ता महापुरी
तस्यां वसति वैश्यैकः कृकलो नाम नामतः ॥ २ ॥
मूलम्
श्रीविष्णुरुवाच-
अस्ति वाराणसी रम्या गङ्गायुक्ता महापुरी
तस्यां वसति वैश्यैकः कृकलो नाम नामतः ॥ २ ॥
विश्वास-प्रस्तुतिः
तस्य भार्या महासाध्वी पतिव्रतपरायणा
धर्माचारपरा नित्यं सा वै पतिपरायणा ॥ ३ ॥
मूलम्
तस्य भार्या महासाध्वी पतिव्रतपरायणा
धर्माचारपरा नित्यं सा वै पतिपरायणा ॥ ३ ॥
विश्वास-प्रस्तुतिः
सुकला नाम पुण्याङ्गी सुपुत्रा चारुमङ्गला
सत्यंवदा सदा शुद्धा प्रियाकारा प्रियप्रिया ॥ ४ ॥
मूलम्
सुकला नाम पुण्याङ्गी सुपुत्रा चारुमङ्गला
सत्यंवदा सदा शुद्धा प्रियाकारा प्रियप्रिया ॥ ४ ॥
विश्वास-प्रस्तुतिः
एवङ्गुणैः समायुक्ता सुभगा चारुकारिणी
स वैश्य उत्तमो नाना धर्मज्ञो ज्ञानवान्गुणी ॥ ५ ॥
मूलम्
एवङ्गुणैः समायुक्ता सुभगा चारुकारिणी
स वैश्य उत्तमो नाना धर्मज्ञो ज्ञानवान्गुणी ॥ ५ ॥
विश्वास-प्रस्तुतिः
पुराणे श्रौतधर्मे च सदा श्रवणतत्परः
तीर्थयात्राप्रसङ्गेन बहुपुण्यप्रदायकम् ॥ ६ ॥
मूलम्
पुराणे श्रौतधर्मे च सदा श्रवणतत्परः
तीर्थयात्राप्रसङ्गेन बहुपुण्यप्रदायकम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
श्रद्धया निर्गतो यात्रां तीर्थानां पुण्यमङ्गलाम्
ब्राह्मणानां प्रसङ्गेन सार्थवाहेन तेन च ॥ ७ ॥
मूलम्
श्रद्धया निर्गतो यात्रां तीर्थानां पुण्यमङ्गलाम्
ब्राह्मणानां प्रसङ्गेन सार्थवाहेन तेन च ॥ ७ ॥
विश्वास-प्रस्तुतिः
प्रस्थितो धर्ममार्गं तु तमुवाच पतिव्रता
पतिस्नेहेन सम्मुग्धा भर्तारं वाक्यमब्रवीत् ॥ ८ ॥
मूलम्
प्रस्थितो धर्ममार्गं तु तमुवाच पतिव्रता
पतिस्नेहेन सम्मुग्धा भर्तारं वाक्यमब्रवीत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
सुकलोवाच-
अहं ते धर्मतः पत्नी सहपुण्यकरा प्रिय
पतिमार्गं प्रतीक्ष्याहं पतिदेवं यजाम्यहम् ॥ ९ ॥
मूलम्
सुकलोवाच-
अहं ते धर्मतः पत्नी सहपुण्यकरा प्रिय
पतिमार्गं प्रतीक्ष्याहं पतिदेवं यजाम्यहम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
कदा नैव मया त्याज्यं सामीप्यं ते द्विजोत्तम
तवच्छायां समाश्रित्य करिष्ये धर्ममुत्तमम् ॥ १० ॥
मूलम्
कदा नैव मया त्याज्यं सामीप्यं ते द्विजोत्तम
तवच्छायां समाश्रित्य करिष्ये धर्ममुत्तमम् ॥ १० ॥
विश्वास-प्रस्तुतिः
पतिव्रताख्यं पापघ्नं नारीणां गतिदायकम्
पुण्यस्त्री कथ्यते लोके या स्यात्पतिपरायणा ॥ ११ ॥
मूलम्
पतिव्रताख्यं पापघ्नं नारीणां गतिदायकम्
पुण्यस्त्री कथ्यते लोके या स्यात्पतिपरायणा ॥ ११ ॥
विश्वास-प्रस्तुतिः
युवतीनां पृथक्तीर्थं विना भर्तुर्न शोभते
सुखदं नास्ति वै लोके स्वर्गमोक्षप्रदायकम् ॥ १२ ॥
मूलम्
युवतीनां पृथक्तीर्थं विना भर्तुर्न शोभते
सुखदं नास्ति वै लोके स्वर्गमोक्षप्रदायकम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
सव्यं पादं च भर्तुश्च प्रयागं विद्धि सत्तम
वामं च पुष्करं तस्य या नारी परिकल्पयेत् ॥ १३ ॥
मूलम्
सव्यं पादं च भर्तुश्च प्रयागं विद्धि सत्तम
वामं च पुष्करं तस्य या नारी परिकल्पयेत् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तस्य पादोदकस्नानात्तत्पुण्यं परि जायते
प्रयागपुष्करसमं स्नानं स्त्रीणां न संशयः ॥ १४ ॥
मूलम्
तस्य पादोदकस्नानात्तत्पुण्यं परि जायते
प्रयागपुष्करसमं स्नानं स्त्रीणां न संशयः ॥ १४ ॥
विश्वास-प्रस्तुतिः
सर्वतीर्थमयो भर्ता सर्वपुण्यमयः पतिः
मखानां यजनात्पुण्यं यद्वै भवति दीक्षिते ॥ १५ ॥
मूलम्
सर्वतीर्थमयो भर्ता सर्वपुण्यमयः पतिः
मखानां यजनात्पुण्यं यद्वै भवति दीक्षिते ॥ १५ ॥
विश्वास-प्रस्तुतिः
तत्फलं समवाप्नोति सेवया भर्तुरेव हि
गयादीनां सुतीर्थानां यात्रां कृत्वा हि यद्भवेत् ॥ १६ ॥
मूलम्
तत्फलं समवाप्नोति सेवया भर्तुरेव हि
गयादीनां सुतीर्थानां यात्रां कृत्वा हि यद्भवेत् ॥ १६ ॥
विश्वास-प्रस्तुतिः
तत्फलं समवाप्नोति भर्तुः शुश्रूषणादपि
समासेन प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १७ ॥
मूलम्
तत्फलं समवाप्नोति भर्तुः शुश्रूषणादपि
समासेन प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १७ ॥
विश्वास-प्रस्तुतिः
नास्त्यासां हि पृथग्धर्मः पतिशुश्रूषणं विना
तस्मात्कान्तसहायं ते कुर्वाणा सुखदायिनी ॥ १८ ॥
मूलम्
नास्त्यासां हि पृथग्धर्मः पतिशुश्रूषणं विना
तस्मात्कान्तसहायं ते कुर्वाणा सुखदायिनी ॥ १८ ॥
विश्वास-प्रस्तुतिः
तवच्छायां समाश्रित्य आगमिष्यामि नान्यथा
विष्णुरुवाच-
रूपं शीलं गुणं भक्तिं समालोक्य वयस्तथा ॥ १९ ॥
मूलम्
तवच्छायां समाश्रित्य आगमिष्यामि नान्यथा
विष्णुरुवाच-
रूपं शीलं गुणं भक्तिं समालोक्य वयस्तथा ॥ १९ ॥
विश्वास-प्रस्तुतिः
सौकुमार्यं विचार्यैवं कृकलः स पुनःपुनः
यद्येवं हि नयिष्यामि दुर्गमार्गं सुदुःखदम् ॥ २० ॥
मूलम्
सौकुमार्यं विचार्यैवं कृकलः स पुनःपुनः
यद्येवं हि नयिष्यामि दुर्गमार्गं सुदुःखदम् ॥ २० ॥
विश्वास-प्रस्तुतिः
रूपनाशो भवेच्चास्याः शीतातपविलोडनात्
पद्मगर्भप्रतीकाशमस्याश्चाङ्गं प्रवर्णकम् ॥ २१ ॥
मूलम्
रूपनाशो भवेच्चास्याः शीतातपविलोडनात्
पद्मगर्भप्रतीकाशमस्याश्चाङ्गं प्रवर्णकम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
झञ्झावातेन शीतेन कृष्णवर्णं भविष्यति
पन्थाः कर्कश सुग्रावा पादौचास्याः सुकोमलौ ॥ २२ ॥
मूलम्
झञ्झावातेन शीतेन कृष्णवर्णं भविष्यति
पन्थाः कर्कश सुग्रावा पादौचास्याः सुकोमलौ ॥ २२ ॥
विश्वास-प्रस्तुतिः
एष्यते वेदनां तीव्रामथो गन्तुं न च क्षमा
क्षुत्तृष्णाभिपरीताङ्गी कीदृशीयं भविष्यति ॥ २३ ॥
मूलम्
एष्यते वेदनां तीव्रामथो गन्तुं न च क्षमा
क्षुत्तृष्णाभिपरीताङ्गी कीदृशीयं भविष्यति ॥ २३ ॥
विश्वास-प्रस्तुतिः
वामाङ्गी मम च स्थानं सुखस्थानं वरानना
मम प्राणप्रिया नित्यं नित्यं धर्मस्य चाश्रयः ॥ २४ ॥
मूलम्
वामाङ्गी मम च स्थानं सुखस्थानं वरानना
मम प्राणप्रिया नित्यं नित्यं धर्मस्य चाश्रयः ॥ २४ ॥
विश्वास-प्रस्तुतिः
नाशमेति यदा बाला मम नाशो भवेदिह
इयं मे जीविका नित्यमियं प्राणस्य चेश्वरी ॥ २५ ॥
मूलम्
नाशमेति यदा बाला मम नाशो भवेदिह
इयं मे जीविका नित्यमियं प्राणस्य चेश्वरी ॥ २५ ॥
विश्वास-प्रस्तुतिः
न नयिष्ये वनं तीर्थमेकश्चैवाप्यहं व्रजे
चिन्तयित्वा क्षणं नूनं कृकलेन महात्मना ॥ २६ ॥
मूलम्
न नयिष्ये वनं तीर्थमेकश्चैवाप्यहं व्रजे
चिन्तयित्वा क्षणं नूनं कृकलेन महात्मना ॥ २६ ॥
विश्वास-प्रस्तुतिः
तस्य चित्तानुगो भावस्तया ज्ञातो नृपोत्तम
पुनरूचे महाभागा भर्त्तारं प्रस्थितं तदा ॥ २७ ॥
मूलम्
तस्य चित्तानुगो भावस्तया ज्ञातो नृपोत्तम
पुनरूचे महाभागा भर्त्तारं प्रस्थितं तदा ॥ २७ ॥
विश्वास-प्रस्तुतिः
अनघा नैव वै त्याज्या पुरुषैः शृणु सत्तम
मूलमेवं हि धर्मस्य पुरुषस्य महामते ॥ २८ ॥
मूलम्
अनघा नैव वै त्याज्या पुरुषैः शृणु सत्तम
मूलमेवं हि धर्मस्य पुरुषस्य महामते ॥ २८ ॥
विश्वास-प्रस्तुतिः
एवं ज्ञात्वा महाभाग मामेवं नय साम्प्रतम्
विष्णुरुवाच-
श्रुत्वा सर्वं हि तेनापि प्रियाया भाषितं बहु ॥ २९ ॥
मूलम्
एवं ज्ञात्वा महाभाग मामेवं नय साम्प्रतम्
विष्णुरुवाच-
श्रुत्वा सर्वं हि तेनापि प्रियाया भाषितं बहु ॥ २९ ॥
विश्वास-प्रस्तुतिः
प्रहस्यैव वचो ब्रूते तामेवं कृकलः पुनः
नैव त्याज्या भवेद्भार्या प्राप्ता धर्मेण वै प्रिये ॥ ३० ॥
मूलम्
प्रहस्यैव वचो ब्रूते तामेवं कृकलः पुनः
नैव त्याज्या भवेद्भार्या प्राप्ता धर्मेण वै प्रिये ॥ ३० ॥
विश्वास-प्रस्तुतिः
येन भार्या परित्यक्ता सुनीता धर्मचारिणी
दशाङ्गधर्मस्तेनापि परित्यक्तो वरानने ॥ ३१ ॥
मूलम्
येन भार्या परित्यक्ता सुनीता धर्मचारिणी
दशाङ्गधर्मस्तेनापि परित्यक्तो वरानने ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तस्मात्त्वामेव भद्रं ते नैव त्यक्ष्ये कदा प्रिये
विष्णुरुवाच-
एवमाभाष्य तां भार्यां सम्बोध्य च पुनःपुनः ॥ ३२ ॥
मूलम्
तस्मात्त्वामेव भद्रं ते नैव त्यक्ष्ये कदा प्रिये
विष्णुरुवाच-
एवमाभाष्य तां भार्यां सम्बोध्य च पुनःपुनः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
तस्या अज्ञातमात्रेण ससार्थेन समं गतः
गते तस्मिन्महाभागे कृकले पुण्यकर्मणि ॥ ३३ ॥
मूलम्
तस्या अज्ञातमात्रेण ससार्थेन समं गतः
गते तस्मिन्महाभागे कृकले पुण्यकर्मणि ॥ ३३ ॥
विश्वास-प्रस्तुतिः
देवकर्मसुवेलायां काले पुण्ये शुभानना
नैव पश्यति भर्तारं कृकलं निजमन्दिरे ॥ ३४ ॥
मूलम्
देवकर्मसुवेलायां काले पुण्ये शुभानना
नैव पश्यति भर्तारं कृकलं निजमन्दिरे ॥ ३४ ॥
विश्वास-प्रस्तुतिः
समुत्थाय त्वरायुक्ता रुदमाना सुदुःखिता
वयस्यान्पृच्छते भर्तुर्दुःखशोकाधिपीडिता ॥ ३५ ॥
मूलम्
समुत्थाय त्वरायुक्ता रुदमाना सुदुःखिता
वयस्यान्पृच्छते भर्तुर्दुःखशोकाधिपीडिता ॥ ३५ ॥
विश्वास-प्रस्तुतिः
युष्माभिर्वा महाभागा दृष्टोऽसौ कृकलो मम
प्राणेश्वरो गतः क्वापि भवन्तो मम बान्धवाः ॥ ३६ ॥
मूलम्
युष्माभिर्वा महाभागा दृष्टोऽसौ कृकलो मम
प्राणेश्वरो गतः क्वापि भवन्तो मम बान्धवाः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
यदि दृष्टो महाभागाः कृकलो मम साम्प्रतम्
भर्तारं पुण्यकर्तारं सर्वज्ञं सत्यपण्डितम् ॥ ३७ ॥
मूलम्
यदि दृष्टो महाभागाः कृकलो मम साम्प्रतम्
भर्तारं पुण्यकर्तारं सर्वज्ञं सत्यपण्डितम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
कथयन्तु महात्मानं यदि दृष्टो महामतिः
तस्यास्तद्भाषितं श्रुत्वा तामूचुस्ते महामतिम् ॥ ३८ ॥
मूलम्
कथयन्तु महात्मानं यदि दृष्टो महामतिः
तस्यास्तद्भाषितं श्रुत्वा तामूचुस्ते महामतिम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
धर्मयात्राप्रसङ्गेन नाथस्ते कृकलः शुभे
तीर्थयात्रां चकारासौ कस्माच्छोचसि सुव्रते ॥ ३९ ॥
मूलम्
धर्मयात्राप्रसङ्गेन नाथस्ते कृकलः शुभे
तीर्थयात्रां चकारासौ कस्माच्छोचसि सुव्रते ॥ ३९ ॥
विश्वास-प्रस्तुतिः
साधयित्वा महातीर्थं पुनरेष्यति शोभने
एवमाश्वासिता सा च पुरुषैराप्तकारिभिः ॥ ४० ॥
मूलम्
साधयित्वा महातीर्थं पुनरेष्यति शोभने
एवमाश्वासिता सा च पुरुषैराप्तकारिभिः ॥ ४० ॥
विश्वास-प्रस्तुतिः
पुनर्गेहं गता राजन्सुकला चारुभाषिणी
रुरोद करुणं दुःखं सुकलापि परायणा ॥ ४१ ॥
मूलम्
पुनर्गेहं गता राजन्सुकला चारुभाषिणी
रुरोद करुणं दुःखं सुकलापि परायणा ॥ ४१ ॥
विश्वास-प्रस्तुतिः
यावदायाति मे भर्त्ता भूमौ स्वप्स्यामि संस्तरे
घृतं तैलं न भोक्ष्येऽहं दधिक्षीरं तथैव च ॥ ४२ ॥
मूलम्
यावदायाति मे भर्त्ता भूमौ स्वप्स्यामि संस्तरे
घृतं तैलं न भोक्ष्येऽहं दधिक्षीरं तथैव च ॥ ४२ ॥
विश्वास-प्रस्तुतिः
लवणं च परित्यक्तं तथा ताम्बूलमेव च
मधुरं च तथा राजंस्त्यक्तं गुडादिकं तथा ॥ ४३ ॥
मूलम्
लवणं च परित्यक्तं तथा ताम्बूलमेव च
मधुरं च तथा राजंस्त्यक्तं गुडादिकं तथा ॥ ४३ ॥
विश्वास-प्रस्तुतिः
एकाहारा निराहारा तावत्स्थास्ये न संशयः
यावच्चागमनं भर्तुः पुनरेव भविष्यति ॥ ४४ ॥
मूलम्
एकाहारा निराहारा तावत्स्थास्ये न संशयः
यावच्चागमनं भर्तुः पुनरेव भविष्यति ॥ ४४ ॥
विश्वास-प्रस्तुतिः
एवं दुःखान्विता भूत्वा एकवेणीधरा पुनः
एककञ्चुकसंवीता मलिना च बभूव सा ॥ ४५ ॥
मूलम्
एवं दुःखान्विता भूत्वा एकवेणीधरा पुनः
एककञ्चुकसंवीता मलिना च बभूव सा ॥ ४५ ॥
विश्वास-प्रस्तुतिः
मलिनेनापि वस्त्रेण एकेनैव स्थिता पुनः
हाहाकारं प्रमुञ्चन्ती निःश्वसन्ती सुदुःखिता ॥ ४६ ॥
मूलम्
मलिनेनापि वस्त्रेण एकेनैव स्थिता पुनः
हाहाकारं प्रमुञ्चन्ती निःश्वसन्ती सुदुःखिता ॥ ४६ ॥
विश्वास-प्रस्तुतिः
वियोगानलसन्दग्धा कृष्णाङ्गी मलधारिणी
एवं दुःखसमाचारा सुकृशा विह्वला तदा ॥ ४७ ॥
मूलम्
वियोगानलसन्दग्धा कृष्णाङ्गी मलधारिणी
एवं दुःखसमाचारा सुकृशा विह्वला तदा ॥ ४७ ॥
विश्वास-प्रस्तुतिः
रोदमाना दिवारात्रौ निद्रा लेभे न वै निशि
क्षुधां न विन्दते राजन्दुःखेन विदलीकृता ॥ ४८ ॥
मूलम्
रोदमाना दिवारात्रौ निद्रा लेभे न वै निशि
क्षुधां न विन्दते राजन्दुःखेन विदलीकृता ॥ ४८ ॥
विश्वास-प्रस्तुतिः
अथ सख्यः समायाताः पप्रच्छुः सुकलां तदा
सुकले चारुसर्वाङ्गि कस्माद्रोदिषि सम्प्रति ॥ ४९ ॥
मूलम्
अथ सख्यः समायाताः पप्रच्छुः सुकलां तदा
सुकले चारुसर्वाङ्गि कस्माद्रोदिषि सम्प्रति ॥ ४९ ॥
विश्वास-प्रस्तुतिः
ततस्त्वं कारणं ब्रूहि दुःखस्यास्य वरानने
सुकलोवाच-
स मां त्यक्त्वा गतो भर्ता धर्मार्थं धर्मतत्परः ॥ ५० ॥
मूलम्
ततस्त्वं कारणं ब्रूहि दुःखस्यास्य वरानने
सुकलोवाच-
स मां त्यक्त्वा गतो भर्ता धर्मार्थं धर्मतत्परः ॥ ५० ॥
विश्वास-प्रस्तुतिः
तीर्थयात्राप्रसङ्गेन अटते मेदिनीं ततः
मां त्यक्त्वा स गतः स्वामी निर्दोषां पापवर्जिताम् ॥ ५१ ॥
मूलम्
तीर्थयात्राप्रसङ्गेन अटते मेदिनीं ततः
मां त्यक्त्वा स गतः स्वामी निर्दोषां पापवर्जिताम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
अहं साध्वी समाचारा सदा पुण्या पतिव्रता
मां त्यक्त्वा स गतो भर्ता तीर्थ साधनतत्परः ॥ ५२ ॥
मूलम्
अहं साध्वी समाचारा सदा पुण्या पतिव्रता
मां त्यक्त्वा स गतो भर्ता तीर्थ साधनतत्परः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तेनाहं दुःखिता सख्यो वियोगेनाति पीडिता
जीवनाशो वरं श्रेष्ठो वरं वै विषभक्षणम् ॥ ५३ ॥
मूलम्
तेनाहं दुःखिता सख्यो वियोगेनाति पीडिता
जीवनाशो वरं श्रेष्ठो वरं वै विषभक्षणम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
वरमग्निप्रवेशश्च वरं कायविनाशनम्
नारीं प्रियां परित्यज्य भर्ता याति सुनिष्ठुरः ॥ ५४ ॥
मूलम्
वरमग्निप्रवेशश्च वरं कायविनाशनम्
नारीं प्रियां परित्यज्य भर्ता याति सुनिष्ठुरः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
भर्तृत्यागो वरं नैव प्राणत्यागो वरं सखि
वियोगं न समर्थाहं सहितुं नित्यदारुणम् ॥ ५५ ॥
मूलम्
भर्तृत्यागो वरं नैव प्राणत्यागो वरं सखि
वियोगं न समर्थाहं सहितुं नित्यदारुणम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तेनाहं दुःखिता सख्यो वियोगेनापि नित्यशः
सख्य ऊचुः-
तीर्थयात्रां गतो भर्ता पुनरेष्यति ते पतिः ॥ ५६ ॥
मूलम्
तेनाहं दुःखिता सख्यो वियोगेनापि नित्यशः
सख्य ऊचुः-
तीर्थयात्रां गतो भर्ता पुनरेष्यति ते पतिः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
वृथा शोषयसे कायं वृथाशोकं करोषि वै
वृथा त्वं तप्यसे बाले वृथा भोगान्परित्यजेः ॥ ५७ ॥
मूलम्
वृथा शोषयसे कायं वृथाशोकं करोषि वै
वृथा त्वं तप्यसे बाले वृथा भोगान्परित्यजेः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
पिबस्व पानं भुङ्क्ष्व त्वं स्वप्रदत्तं हि पूर्वकम्
कस्य भर्ता सुताः कस्य कस्य स्वजनबान्धवाः ॥ ५८ ॥
मूलम्
पिबस्व पानं भुङ्क्ष्व त्वं स्वप्रदत्तं हि पूर्वकम्
कस्य भर्ता सुताः कस्य कस्य स्वजनबान्धवाः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
कः कस्य नास्ति संसारे सम्बन्धः केन चैव हि
भक्ष्यते भुज्यते बाले संसारस्य हि तत्फलम् ॥ ५९ ॥
मूलम्
कः कस्य नास्ति संसारे सम्बन्धः केन चैव हि
भक्ष्यते भुज्यते बाले संसारस्य हि तत्फलम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
मृते प्राणिनि कोऽश्नाति को हि पश्यति तत्फलम्
पीयते भुज्यते बाले एतत्संसारतः फलम् ॥ ६० ॥
मूलम्
मृते प्राणिनि कोऽश्नाति को हि पश्यति तत्फलम्
पीयते भुज्यते बाले एतत्संसारतः फलम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
सुकलोवाच-
भवतीभिः प्रयुक्तं यत्तन्न स्याद्वेदसम्मतम्
यातु भर्तुः पृथग्भूता तिष्ठत्येका सदैव हि ॥ ६१ ॥
मूलम्
सुकलोवाच-
भवतीभिः प्रयुक्तं यत्तन्न स्याद्वेदसम्मतम्
यातु भर्तुः पृथग्भूता तिष्ठत्येका सदैव हि ॥ ६१ ॥
विश्वास-प्रस्तुतिः
पापभूता भवेन्नारी तां न मन्यन्ति सज्जनाः
भर्तुः सार्धं सदा सख्यो दृष्टो वेदेषु सर्वदा ॥ ६२ ॥
मूलम्
पापभूता भवेन्नारी तां न मन्यन्ति सज्जनाः
भर्तुः सार्धं सदा सख्यो दृष्टो वेदेषु सर्वदा ॥ ६२ ॥
विश्वास-प्रस्तुतिः
सम्बन्धः पुण्यसंसर्गाज्जायते नात्र संशयः
नारीणां च सदा तीर्थं भर्ता शास्त्रेषु पठ्यते ॥ ६३ ॥
मूलम्
सम्बन्धः पुण्यसंसर्गाज्जायते नात्र संशयः
नारीणां च सदा तीर्थं भर्ता शास्त्रेषु पठ्यते ॥ ६३ ॥
विश्वास-प्रस्तुतिः
तमेवावाहयेन्नित्यं वाचा कायेन कर्मभिः
मनसा पूजयेन्नित्यं भावसत्येन तत्परा ॥ ६४ ॥
मूलम्
तमेवावाहयेन्नित्यं वाचा कायेन कर्मभिः
मनसा पूजयेन्नित्यं भावसत्येन तत्परा ॥ ६४ ॥
विश्वास-प्रस्तुतिः
भर्तुः पार्श्वं महातीर्थं दक्षिणाङ्गं सदैव हि
तमाश्रित्य यदा नारी गृहस्था परिवर्त्तयेत् ॥ ६५ ॥
मूलम्
भर्तुः पार्श्वं महातीर्थं दक्षिणाङ्गं सदैव हि
तमाश्रित्य यदा नारी गृहस्था परिवर्त्तयेत् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
यजते दानपुण्यैश्च तस्य दानस्य यत्फलम्
वाराणस्यां च गङ्गायां यत्फलं न च पुष्करे ॥ ६६ ॥
मूलम्
यजते दानपुण्यैश्च तस्य दानस्य यत्फलम्
वाराणस्यां च गङ्गायां यत्फलं न च पुष्करे ॥ ६६ ॥
विश्वास-प्रस्तुतिः
द्वारकायां न चावन्त्यां केदारे शशिभूषणे
लभते नैव सा नारी यजमाना सदा किल ॥ ६७ ॥
मूलम्
द्वारकायां न चावन्त्यां केदारे शशिभूषणे
लभते नैव सा नारी यजमाना सदा किल ॥ ६७ ॥
विश्वास-प्रस्तुतिः
तादृशं फलमेवं सा न प्राप्नोति कदा सखि
सुमुखं पुत्रसौभाग्यं स्नानं दानं च भूषणम् ॥ ६८ ॥
मूलम्
तादृशं फलमेवं सा न प्राप्नोति कदा सखि
सुमुखं पुत्रसौभाग्यं स्नानं दानं च भूषणम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
वस्त्रालङ्कारसौभाग्यं रूपं तेजः फलं सदा
यशः कीर्तिमवाप्नोति गुणं च वरवर्णिनी ॥ ६९ ॥
मूलम्
वस्त्रालङ्कारसौभाग्यं रूपं तेजः फलं सदा
यशः कीर्तिमवाप्नोति गुणं च वरवर्णिनी ॥ ६९ ॥
विश्वास-प्रस्तुतिः
भर्तुः प्रसादात्सर्वं च लभते नात्र संशयः
विद्यमाने यदा कान्ते अन्यं धर्मं करोति या ॥ ७० ॥
मूलम्
भर्तुः प्रसादात्सर्वं च लभते नात्र संशयः
विद्यमाने यदा कान्ते अन्यं धर्मं करोति या ॥ ७० ॥
विश्वास-प्रस्तुतिः
निष्फलं जायते तस्याः पुंश्चली परिकथ्यते
नारीणां यौवनं रूपमवतारं स्मृतं ध्रुवम् ॥ ७१ ॥
मूलम्
निष्फलं जायते तस्याः पुंश्चली परिकथ्यते
नारीणां यौवनं रूपमवतारं स्मृतं ध्रुवम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
एकस्यापि हि भर्तुश्च तस्यार्थे भूमिमण्डले
सुपुत्रा सुयशा नारी परिकथ्येत वै सदा ॥ ७२ ॥
मूलम्
एकस्यापि हि भर्तुश्च तस्यार्थे भूमिमण्डले
सुपुत्रा सुयशा नारी परिकथ्येत वै सदा ॥ ७२ ॥
विश्वास-प्रस्तुतिः
तुष्टे भर्तरि संसारे दृश्या नारी न संशयः
पतिहीना भवेन्नारी भवेत्सा भूमिमण्डले ॥ ७३ ॥
मूलम्
तुष्टे भर्तरि संसारे दृश्या नारी न संशयः
पतिहीना भवेन्नारी भवेत्सा भूमिमण्डले ॥ ७३ ॥
विश्वास-प्रस्तुतिः
कुतस्तस्याः सुखं रूपं यशः कीर्तिः सुता भुवि
सुदौर्भाग्यं महद्दुःखं संसारे परिभुज्यते ॥ ७४ ॥
मूलम्
कुतस्तस्याः सुखं रूपं यशः कीर्तिः सुता भुवि
सुदौर्भाग्यं महद्दुःखं संसारे परिभुज्यते ॥ ७४ ॥
विश्वास-प्रस्तुतिः
पापभागा भवेत्सा च दुःखाचारा सदैव हि
तुष्टे भर्तरि तस्यास्तु तुष्टाः सर्वाश्च देवताः ॥ ७५ ॥
मूलम्
पापभागा भवेत्सा च दुःखाचारा सदैव हि
तुष्टे भर्तरि तस्यास्तु तुष्टाः सर्वाश्च देवताः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
तुष्टे भर्तरि तुष्यन्ति ऋषयो देवमानवाः
भर्ता नाथो गुरुर्भर्ता देवता दैवतैः सह ॥ ७६ ॥
मूलम्
तुष्टे भर्तरि तुष्यन्ति ऋषयो देवमानवाः
भर्ता नाथो गुरुर्भर्ता देवता दैवतैः सह ॥ ७६ ॥
विश्वास-प्रस्तुतिः
भर्ता तीर्थश्च पुण्यश्च नारीणां नृपनन्दन
शृङ्गारं भूषणं रूपं वर्णं सौगन्धमेव च ॥ ७७ ॥
मूलम्
भर्ता तीर्थश्च पुण्यश्च नारीणां नृपनन्दन
शृङ्गारं भूषणं रूपं वर्णं सौगन्धमेव च ॥ ७७ ॥
विश्वास-प्रस्तुतिः
कृत्वा सा तिष्ठते नित्यं वर्जयित्वा सुपर्वसु
शृङ्गारैर्भूषणैः सा तु शुशुभे सा यदा पतिः ॥ ७८ ॥
मूलम्
कृत्वा सा तिष्ठते नित्यं वर्जयित्वा सुपर्वसु
शृङ्गारैर्भूषणैः सा तु शुशुभे सा यदा पतिः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
पत्याविना भवत्येवं क्षीरं सर्पमुखे यथा
भर्तुरर्थे महाभागा सुव्रता चारुमङ्गला ॥ ७९ ॥
मूलम्
पत्याविना भवत्येवं क्षीरं सर्पमुखे यथा
भर्तुरर्थे महाभागा सुव्रता चारुमङ्गला ॥ ७९ ॥
विश्वास-प्रस्तुतिः
गते भर्तरि या नारी शृङ्गारं कुरुते यदि
रूपं वर्णं च तत्सर्वं शवरूपेण जायते ॥ ८० ॥
मूलम्
गते भर्तरि या नारी शृङ्गारं कुरुते यदि
रूपं वर्णं च तत्सर्वं शवरूपेण जायते ॥ ८० ॥
विश्वास-प्रस्तुतिः
वदन्ति भूतले लोकाः पुंश्चलीयं न संशयः
तस्माद्भर्तुर्वियुक्ता या नार्याः शृणुत भूतले ॥ ८१ ॥
मूलम्
वदन्ति भूतले लोकाः पुंश्चलीयं न संशयः
तस्माद्भर्तुर्वियुक्ता या नार्याः शृणुत भूतले ॥ ८१ ॥
विश्वास-प्रस्तुतिः
इच्छन्त्या वै महासौख्यं भवितव्यं कदाचन
सुजायायाः परो धर्मो भर्ता शास्त्रेषु गीयते ॥ ८२ ॥
मूलम्
इच्छन्त्या वै महासौख्यं भवितव्यं कदाचन
सुजायायाः परो धर्मो भर्ता शास्त्रेषु गीयते ॥ ८२ ॥
विश्वास-प्रस्तुतिः
तस्माद्वै शाश्वतो धर्मो न त्याज्यो भार्यया किल
एवं धर्मं विजानामि कथं भर्ता परित्यजेत् ॥ ८३ ॥
मूलम्
तस्माद्वै शाश्वतो धर्मो न त्याज्यो भार्यया किल
एवं धर्मं विजानामि कथं भर्ता परित्यजेत् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
इत्यर्थे श्रूयते सख्य इतिहासः पुरातनः
सुदेवायाश्च चरितं सुपुण्यं पापनाशनम् ॥ ८४ ॥
मूलम्
इत्यर्थे श्रूयते सख्य इतिहासः पुरातनः
सुदेवायाश्च चरितं सुपुण्यं पापनाशनम् ॥ ८४ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित
एकचत्वारिंशोऽध्यायः ४१