वेन उवाच-
विश्वास-प्रस्तुतिः
नित्यदानफलं देव त्वत्तः पूर्वं मया श्रुतम्
नैमित्तिकस्य दानस्य दत्तस्यापि हि यत्फलम् ॥ १ ॥
मूलम्

तत्फलं मे समाचक्ष्व त्वत्प्रसादात्प्रयत्नतः
महातृप्तिं न गच्छामि श्रोतुं श्रद्धा प्रवर्तते ॥ २ ॥

विष्णुरुवाच-
नैमित्तिकं प्रवक्ष्यामि दानमेव नृपोत्तम
महापर्वणि सम्प्राप्ते येन दानानि श्रद्धया ॥ ३ ॥

सत्पात्रेभ्यः प्रदत्तानि तस्य पुण्यफलं शृणु
गजं रथं प्रदत्ते यो ह्यश्वं चापि नृपोत्तम ॥ ४ ॥

स च भृत्यैस्तु संयुक्तः पुण्यदेशे नृपोत्तमः
जायते हि महाराज मत्प्रसादान्न संशयः ॥ ५ ॥

राजा भवति धर्मात्मा ज्ञानवान्बलवान्सुधीः
अजेयः सर्वभूतानां महातेजाः प्रजायते ॥ ६ ॥

महापर्वणि सम्प्राप्ते भूमिदानं ददाति यः
गोदानं वा महाराज सर्वभोगपतिर्भवेत् ॥ ७ ॥

ब्राह्मणाय सुपुण्याय दानं दद्यात्प्रयत्नतः
महादानानि यो दद्यात्तीर्थे पर्वणि पात्रवित् ॥ ८ ॥

तेषां चिह्नं प्रवक्ष्यामि भूपतित्वं प्रजायते
तीर्थे पर्वणि सम्प्राप्ते गुप्तदानं ददाति यः ॥ ९ ॥

निधीनामाशुसम्प्राप्तिरक्षरा परिजायते
महापर्वणि सम्प्राप्ते तीर्थेषु ब्राह्मणाय च ॥ १० ॥

सुचैलं च महादानं काञ्चनेन समन्वितम्
पुण्यं फलं प्रवक्ष्यामि तस्य दानस्य भूपते ॥ ११ ॥

जायन्ते बहवः पुत्राः सुगुणा वेदपारगाः
आयुष्मन्तः प्रजावन्तो यशः पुण्यसमन्विताः ॥ १२ ॥

विपुलाश्चैव जायन्ते स्फीता लक्ष्मीर्महामते
सौख्यं च लभते पुण्यं धर्मवान्परिजायते ॥ १३ ॥

महापर्वणि सम्प्राप्ते तीर्थे गत्वा प्रयत्नतः
कपिलां काञ्चनीं दद्याद्ब्राह्मणाय महात्मने ॥ १४ ॥

तस्य पुण्यं प्रवक्ष्यामि दानस्य च महामते
कपिलादो महाराज सर्वसौख्यान्प्रभुञ्जति ॥ १५ ॥

यावद्ब्रह्मा प्रजीवेत्स तावत्तिष्ठति तत्र सः
महापर्वणि सम्प्राप्ते अलङ्कृत्य च गां तदा ॥ १६ ॥

काञ्चनेनापि संयुक्तां वस्त्रालङ्कारभूषणैः
तस्य दानस्य राजेन्द्र फलभोगं वदाम्यहम् ॥ १७ ॥

विपुला जायते लक्ष्मीर्दानभोगसमाकुला
सर्वविद्यापतिर्भूत्वा विष्णुभक्तो भवेत्किल ॥ १८ ॥

विष्णुलोके वसेन्मर्त्यो यावत्तिष्ठति मेदिनी
तीर्थं गत्वा तु यो दद्याद्ब्राह्मणाय विभूषणम् ॥ १९ ॥

भुक्त्वा तु विपुलान्भोगानिन्द्रेण क्रीडते सह
महापर्वणि सम्प्राप्ते वस्त्रं च द्विजपुङ्गवे ॥ २० ॥

दत्त्वान्नं भूमिसंयुक्तं पात्रे श्रद्धासमन्वितः
मोदते स तु वैकुण्ठे विष्णुतुल्यपराक्रमः ॥ २१ ॥

सवस्त्रं काञ्चनं दत्त्वा द्विजाय परिशान्तये
स्वेच्छया अग्निसदृशो वैकुण्ठे स वसेत्सुखी ॥ २२ ॥

सुवर्णस्य सुकुम्भं च घृतेन परिपूरयेत्
पिधानं रौप्यं कर्तव्यं वस्त्रहारैरलङ्कृतम् ॥ २३ ॥

पुष्पमालान्वितं कुर्याद्ब्रह्मसूत्रेण शोभितम्
प्रतिष्ठितं वेदमन्त्रैस्तं सम्पूज्य महामते ॥ २४ ॥

उपचारैः पवित्रैश्च षोडशैः परिपूजयेत्
स्वलङ्कृत्य ततो दद्याद्ब्राह्मणाय महात्मने ॥ २५ ॥

षोडशैव ततो गावः सवस्त्राः कांस्यदोहनाः
कुम्भयुक्ताश्च चत्वारो दक्षिणां च सकाञ्चनाम् ॥ २६ ॥

तथा द्वादशका गावो वस्त्रालङ्कारभूषणाः
पृथग्भूताय विप्राय दातव्या नात्र संशयः ॥ २७ ॥

एवमादीनि दानानि अन्यानि नृपनन्दन
तीर्थकालं सुसम्प्राप्य विप्रावसथमेव च ॥ २८ ॥

श्रद्धाभावेन दातव्यं बहुपुण्यकरं भवेत्
विष्णुरुवाच-
विष्णुमुद्दिश्य यद्दानं कामनापरिकल्पितम् ॥ २९ ॥

तस्य दानस्य भावेन भावनापरिभावितः
तादृक्फलं समश्नाति मानुषो नात्र संशयः ॥ ३० ॥

अभ्युदयं प्रवक्ष्यामि यज्ञादिषु प्रवर्तते
तेन दानेन तस्यापि श्रद्धया च द्विजोत्तम ॥ ३१ ॥

प्रज्ञावृद्धिं समाप्नोति न च दुःखं प्रविन्दति
भोगान्भुनक्ति धर्मात्मा जीवमानस्तु साम्प्रतम् ॥ ३२ ॥

ऐन्द्रांस्तु भुङ्क्ते भोगान्स दाता दिव्यां गतिं गतः
स्वकुलं नयते स्वर्गं कल्पानां च सहस्रकम् ॥ ३३ ॥

एवमाभ्युदयं प्रोक्तं प्राप्तं तेषु वदाम्यहम्
कायस्य च क्षयं ज्ञात्वा जरया परिपीडितः ॥ ३४ ॥

दानं तेन प्रदातव्यमाशां कस्य न कारयेत्
मृते च मयि मे पुत्रा अन्ये स्वजनबान्धवाः ॥ ३५ ॥

कथमेते भविष्यन्ति मां विना सुहृदो मम
तेषां मोहात्प्रमुग्धो वै न ददाति स किञ्चन ॥ ३६ ॥

मृत्युं प्रयाति मोहात्मा रुदन्ति मित्रबान्धवाः
दुःखेन पीडिताः सर्वे मायामोहेन पीडिताः ॥ ३७ ॥

सङ्कल्पयन्ति दानानि मोक्षं वै चिन्तयन्ति च
तस्मिन्मृते महाराज मायामोहे गते सति ॥ ३८ ॥

विस्मरन्ति च दानानि लोभात्मानो ददन्ति न
योऽसौ मृतो महाराज यमपन्थं सुदुःखितः ॥ ३९ ॥

तृषाक्षुधासमाक्रान्तो बहुदुःखैः प्रपीडितः
तस्माद्दानं प्रदातव्यं स्वयमेव न संशयः ॥ ४० ॥

कस्य पुत्राश्च पौत्राश्च कस्य भार्या नृपोत्तम
संसारे नास्ति कः कस्य तस्माद्दानं प्रदीयते ॥ ४१ ॥

ज्ञानवता प्रदातव्यं स्वयमेव न संशयः
अन्नं पानं च ताम्बूलमुदकं काञ्चनं तथा ॥ ४२ ॥

युग्मं वस्त्रं च छत्रं च स्वयमेव न संशयः
जलपात्राण्यनेकानि सोदकानि नृपोत्तम ॥ ४३ ॥

वाहनानि विचित्राणि यानान्येव महामते
नानागन्धान्सकर्पूरं यमपन्थ सुखप्रदे ॥ ४४ ॥

उपानहौ प्रदातव्ये यदीच्छेद्विपुलं सुखम्
एतैर्दानैर्महाराज यमपन्थं सुखेन वै ॥ ४५ ॥

प्रयाति मानवो राजन्यमदूतैरलङ्कृतम् ॥ ४६ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे
वेनोपाख्याने चत्वारिंशोऽध्यायः ४०