०३९

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

कथं वेनो गतः स्वर्गं पापं त्यक्त्वा प्रदूरतः
तन्नो विस्तरतोऽत्रापि वद सत्यवतां वर ॥ १ ॥

मूलम्

कथं वेनो गतः स्वर्गं पापं त्यक्त्वा प्रदूरतः
तन्नो विस्तरतोऽत्रापि वद सत्यवतां वर ॥ १ ॥

विश्वास-प्रस्तुतिः

सूतउवाच-
ऋषीणां पुण्यसंसर्गात्संवादाच्च द्विजोत्तम
कायस्य मथनात्पापो बहिस्तस्य विनिर्गतः ॥ २ ॥

मूलम्

सूतउवाच-
ऋषीणां पुण्यसंसर्गात्संवादाच्च द्विजोत्तम
कायस्य मथनात्पापो बहिस्तस्य विनिर्गतः ॥ २ ॥

विश्वास-प्रस्तुतिः

पश्चाद्वेनः स पुण्यात्मा ज्ञानं लेभे च शाश्वतम्
रेवाया दक्षिणे कूले तपश्चचार स द्विजाः ॥ ३ ॥

मूलम्

पश्चाद्वेनः स पुण्यात्मा ज्ञानं लेभे च शाश्वतम्
रेवाया दक्षिणे कूले तपश्चचार स द्विजाः ॥ ३ ॥

विश्वास-प्रस्तुतिः

तृणबिन्दोर्ऋषेश्चैव आश्रमे पापनाशने
वर्षाणां तु शतं साग्रं कामक्रोधविवर्जितः ॥ ४ ॥

मूलम्

तृणबिन्दोर्ऋषेश्चैव आश्रमे पापनाशने
वर्षाणां तु शतं साग्रं कामक्रोधविवर्जितः ॥ ४ ॥

विश्वास-प्रस्तुतिः

तस्योग्रतपसादेवः शङ्खचक्रगदाधरः
प्रसन्नोभून्महाभागा निष्पापस्य नृपस्य वै ॥ ५ ॥

मूलम्

तस्योग्रतपसादेवः शङ्खचक्रगदाधरः
प्रसन्नोभून्महाभागा निष्पापस्य नृपस्य वै ॥ ५ ॥

विश्वास-प्रस्तुतिः

उवाच च प्रसन्नोऽस्मि व्रियतां वरउत्तमः
वेन उवाच-
यदि देव प्रसन्नोऽसि देहि मे वरमुत्तमम् ॥ ६ ॥

मूलम्

उवाच च प्रसन्नोऽस्मि व्रियतां वरउत्तमः
वेन उवाच-
यदि देव प्रसन्नोऽसि देहि मे वरमुत्तमम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

अनेनापि शरीरेण गन्तुमिच्छामि त्वत्पदम्
पित्रा सार्धं महाभाग मात्रा चैव सुरेश्वर
तवैव तेजसा देव तद्विष्णोः परमं पदम् ॥ ७ ॥

मूलम्

अनेनापि शरीरेण गन्तुमिच्छामि त्वत्पदम्
पित्रा सार्धं महाभाग मात्रा चैव सुरेश्वर
तवैव तेजसा देव तद्विष्णोः परमं पदम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

श्रीवासुदेव उवाच-
क्वगतोऽसौ महामोहो येन त्वं मोहितो नृप
लोभेन मोहयुक्तेन तमोमार्गे निपातितः ॥ ८ ॥

मूलम्

श्रीवासुदेव उवाच-
क्वगतोऽसौ महामोहो येन त्वं मोहितो नृप
लोभेन मोहयुक्तेन तमोमार्गे निपातितः ॥ ८ ॥

विश्वास-प्रस्तुतिः

वेन उवाच-
यन्मे पूर्वकृतं पापं तेनाहं मोहितो विभो
अतो मामुद्धरास्मात्त्वं पापाच्चैव सुदारुणात् ॥ ९ ॥

मूलम्

वेन उवाच-
यन्मे पूर्वकृतं पापं तेनाहं मोहितो विभो
अतो मामुद्धरास्मात्त्वं पापाच्चैव सुदारुणात् ॥ ९ ॥

विश्वास-प्रस्तुतिः

प्रजप्तव्यमथो पठ्यं तद्वदानुग्रहाद्विभो
भगवानुवाच-
साधु भूप महाभाग पापं ते नाशमागतम् ॥ १० ॥

मूलम्

प्रजप्तव्यमथो पठ्यं तद्वदानुग्रहाद्विभो
भगवानुवाच-
साधु भूप महाभाग पापं ते नाशमागतम् ॥ १० ॥

विश्वास-प्रस्तुतिः

शुद्धोसि तपसा च त्वं ततः पुण्यं वदाम्यहम्
पुरा वै ब्रह्मणा तात पृष्टोहं भवता यथा ॥ ११ ॥

मूलम्

शुद्धोसि तपसा च त्वं ततः पुण्यं वदाम्यहम्
पुरा वै ब्रह्मणा तात पृष्टोहं भवता यथा ॥ ११ ॥

विश्वास-प्रस्तुतिः

तस्मै यदुदितं वत्स तत्ते सर्वं वदाम्यहम्
एकदा ब्रह्मणा ध्यानस्थितेन नाभिपङ्कजे ॥ १२ ॥

मूलम्

तस्मै यदुदितं वत्स तत्ते सर्वं वदाम्यहम्
एकदा ब्रह्मणा ध्यानस्थितेन नाभिपङ्कजे ॥ १२ ॥

विश्वास-प्रस्तुतिः

प्रादुरास तदा तस्य वरदानाय सुव्रत
तेन पृष्टं महत्पुण्यं स्तोत्रं पापप्रणाशनम् ॥ १३ ॥

मूलम्

प्रादुरास तदा तस्य वरदानाय सुव्रत
तेन पृष्टं महत्पुण्यं स्तोत्रं पापप्रणाशनम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

वासुदेवाभिधानं च सुगतिप्रदमिच्छता
स्तोत्राणां परमं तस्मै वासुदेवाभिधं महत् ॥ १४ ॥

मूलम्

वासुदेवाभिधानं च सुगतिप्रदमिच्छता
स्तोत्राणां परमं तस्मै वासुदेवाभिधं महत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

सर्वसौख्यप्रदं नॄणां पठतां जपतां सदा
उपादिशं महाभाग विष्णुप्रीतिकरं परम् ॥ १५ ॥

मूलम्

सर्वसौख्यप्रदं नॄणां पठतां जपतां सदा
उपादिशं महाभाग विष्णुप्रीतिकरं परम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

विष्णुरुवाच-
एतत्सर्वं जगद्व्याप्तं मया त्वव्यक्तमूर्तिना
अतो मां मुनयः प्राहुर्विष्णुं विष्णुपरायणाः ॥ १६ ॥

मूलम्

विष्णुरुवाच-
एतत्सर्वं जगद्व्याप्तं मया त्वव्यक्तमूर्तिना
अतो मां मुनयः प्राहुर्विष्णुं विष्णुपरायणाः ॥ १६ ॥

विश्वास-प्रस्तुतिः

वसन्ति यत्र भूतानि वसत्येषु च यो विभुः
स वासुदेवो विज्ञेयो विद्वद्भिरहमादरात् ॥ १७ ॥

मूलम्

वसन्ति यत्र भूतानि वसत्येषु च यो विभुः
स वासुदेवो विज्ञेयो विद्वद्भिरहमादरात् ॥ १७ ॥

विश्वास-प्रस्तुतिः

सङ्कर्षति प्रजाश्चान्ते ह्यव्यक्ताय यतो विभुः
ततः सङ्कर्षणो नाम्ना विज्ञेयः शरणागतैः ॥ १८ ॥

मूलम्

सङ्कर्षति प्रजाश्चान्ते ह्यव्यक्ताय यतो विभुः
ततः सङ्कर्षणो नाम्ना विज्ञेयः शरणागतैः ॥ १८ ॥

विश्वास-प्रस्तुतिः

इङ्गिते कामरूपोहं बहु स्यामिति काम्यया
प्रद्युम्नोहं बुधैस्तस्माद्विज्ञेयोस्मि सुतार्थिभिः ॥ १९ ॥

मूलम्

इङ्गिते कामरूपोहं बहु स्यामिति काम्यया
प्रद्युम्नोहं बुधैस्तस्माद्विज्ञेयोस्मि सुतार्थिभिः ॥ १९ ॥

विश्वास-प्रस्तुतिः

अत्र लोके विना चेशौ सर्वेशौ हरकेशवौ
निरुद्धोहं योगबलान्न केनातोनिरुद्धवत् ॥ २० ॥

मूलम्

अत्र लोके विना चेशौ सर्वेशौ हरकेशवौ
निरुद्धोहं योगबलान्न केनातोनिरुद्धवत् ॥ २० ॥

विश्वास-प्रस्तुतिः

विश्वाख्योहं प्रतिजगज्ज्ञानविज्ञानसंयुतः
अहमित्यभिमानी च जाग्रच्चिन्तासमाकुलः ॥ २१ ॥

मूलम्

विश्वाख्योहं प्रतिजगज्ज्ञानविज्ञानसंयुतः
अहमित्यभिमानी च जाग्रच्चिन्तासमाकुलः ॥ २१ ॥

विश्वास-प्रस्तुतिः

तैजसोहं जगच्चेष्टामयश्चेन्द्रियरूपवान्
ज्ञानकर्मसमुद्रिक्तः स्वप्नावस्थां गतो ह्यहम् ॥ २२ ॥

मूलम्

तैजसोहं जगच्चेष्टामयश्चेन्द्रियरूपवान्
ज्ञानकर्मसमुद्रिक्तः स्वप्नावस्थां गतो ह्यहम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

प्राज्ञोहमधिदैवात्मा विश्वाधिष्ठानगोचरः
सुषुप्तावास्थितो लोकादुदासीनो विकल्पितः ॥ २३ ॥

मूलम्

प्राज्ञोहमधिदैवात्मा विश्वाधिष्ठानगोचरः
सुषुप्तावास्थितो लोकादुदासीनो विकल्पितः ॥ २३ ॥

विश्वास-प्रस्तुतिः

तुरीयोऽहं निर्विकारी गुणावस्थाविवर्जितः
निर्लिप्तः साक्षिवद्विश्व प्रतिबिम्बित विग्रहः ॥ २४ ॥

मूलम्

तुरीयोऽहं निर्विकारी गुणावस्थाविवर्जितः
निर्लिप्तः साक्षिवद्विश्व प्रतिबिम्बित विग्रहः ॥ २४ ॥

विश्वास-प्रस्तुतिः

चिदाभासश्चिदानन्दश्चिन्मयश्चित्स्वरूपवान्
नित्योक्षरो ब्रह्मरूपो ब्रह्मन्नेवमवेहि माम् ॥ २५ ॥

मूलम्

चिदाभासश्चिदानन्दश्चिन्मयश्चित्स्वरूपवान्
नित्योक्षरो ब्रह्मरूपो ब्रह्मन्नेवमवेहि माम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

भगवानुवाच-
इत्युक्त्वान्तर्दधे विष्णुः स्वरूपं ब्रह्मणे पुरा
सोपि ज्ञात्वा जगद्व्याप्तिं कृतात्मा समभूत्क्षणात् ॥ २६ ॥

मूलम्

भगवानुवाच-
इत्युक्त्वान्तर्दधे विष्णुः स्वरूपं ब्रह्मणे पुरा
सोपि ज्ञात्वा जगद्व्याप्तिं कृतात्मा समभूत्क्षणात् ॥ २६ ॥

विश्वास-प्रस्तुतिः

राजंस्त्वमपि शुद्धात्मा पृथोर्जन्मन एव च
तथाप्याराधय विभुं स्तोत्रेणानेन सुव्रत ॥ २७ ॥

मूलम्

राजंस्त्वमपि शुद्धात्मा पृथोर्जन्मन एव च
तथाप्याराधय विभुं स्तोत्रेणानेन सुव्रत ॥ २७ ॥

विश्वास-प्रस्तुतिः

तुष्टो विष्णुस्तमभ्याह वरं वरय मानद
वेन उवाच-
सुगतिं देहि मे विष्णो दुष्कृतात्तारयस्व माम् ॥ २८ ॥

मूलम्

तुष्टो विष्णुस्तमभ्याह वरं वरय मानद
वेन उवाच-
सुगतिं देहि मे विष्णो दुष्कृतात्तारयस्व माम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

शरणं त्वां प्रपन्नोस्मि कारणं वद सद्गतेः
विष्णुरुवाच-
पूर्वमेव महाभाग त्वङ्गेनापि महात्मना ॥ २९ ॥

मूलम्

शरणं त्वां प्रपन्नोस्मि कारणं वद सद्गतेः
विष्णुरुवाच-
पूर्वमेव महाभाग त्वङ्गेनापि महात्मना ॥ २९ ॥

विश्वास-प्रस्तुतिः

अहमाराधितस्तेन तस्मै दत्तो वरो मया
प्रयास्यसि महाभाग वैष्णवं लोकमुत्तमम् ॥ ३० ॥

मूलम्

अहमाराधितस्तेन तस्मै दत्तो वरो मया
प्रयास्यसि महाभाग वैष्णवं लोकमुत्तमम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

कर्मणा स्वेन विप्रेन्द्र पुण्येन नृपनन्दन
आत्मार्थे त्वं महाभाग वरमेव प्रयाचय ॥ ३१ ॥

मूलम्

कर्मणा स्वेन विप्रेन्द्र पुण्येन नृपनन्दन
आत्मार्थे त्वं महाभाग वरमेव प्रयाचय ॥ ३१ ॥

विश्वास-प्रस्तुतिः

शृणु वेन महाभाग वृत्तान्तं पूर्वसम्भवम्
तव मात्रे पुरा दत्तः शापः क्रुद्धेन भूपते ॥ ३२ ॥

मूलम्

शृणु वेन महाभाग वृत्तान्तं पूर्वसम्भवम्
तव मात्रे पुरा दत्तः शापः क्रुद्धेन भूपते ॥ ३२ ॥

विश्वास-प्रस्तुतिः

सुशङ्खेन सुनीथायै बाल्ये पूर्वं महात्मना
ततस्त्वङ्गे वरो दत्तो मयैव विदितात्मना ॥ ३३ ॥

मूलम्

सुशङ्खेन सुनीथायै बाल्ये पूर्वं महात्मना
ततस्त्वङ्गे वरो दत्तो मयैव विदितात्मना ॥ ३३ ॥

विश्वास-प्रस्तुतिः

त्वां समुद्धर्त्तुकामेन सुपुत्रस्ते भविष्यति
एवमुक्त्वा तु पितरं तवाहं गुणवत्सल ॥ ३४ ॥

मूलम्

त्वां समुद्धर्त्तुकामेन सुपुत्रस्ते भविष्यति
एवमुक्त्वा तु पितरं तवाहं गुणवत्सल ॥ ३४ ॥

विश्वास-प्रस्तुतिः

भवदङ्गात्समुद्भूतः करिष्ये लोकपालनम्
दिवीन्द्रो हि यथा भाति तथाहं भूतले स्थितः ॥ ३५ ॥

मूलम्

भवदङ्गात्समुद्भूतः करिष्ये लोकपालनम्
दिवीन्द्रो हि यथा भाति तथाहं भूतले स्थितः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

आत्मा वै जायते पुत्र इति सत्यवती श्रुतिः
अतस्त्वं सुगतिं वत्स लभिष्यसि वरान्मम ॥ ३६ ॥

मूलम्

आत्मा वै जायते पुत्र इति सत्यवती श्रुतिः
अतस्त्वं सुगतिं वत्स लभिष्यसि वरान्मम ॥ ३६ ॥

विश्वास-प्रस्तुतिः

गत्यर्थमात्मनो राजन्दानमेकं समाचर
यस्त्वां पातकरूपोऽहं सुनीथायाः परन्तप ॥ ३७ ॥

मूलम्

गत्यर्थमात्मनो राजन्दानमेकं समाचर
यस्त्वां पातकरूपोऽहं सुनीथायाः परन्तप ॥ ३७ ॥

विश्वास-प्रस्तुतिः

अब्रुवन्नग्नरूपेण कर्तुं त्वां तु विधर्मगम्
अन्यथा तु सुशङ्खस्य वाक्यमेवान्यथा भवेत् ॥ ३८ ॥

मूलम्

अब्रुवन्नग्नरूपेण कर्तुं त्वां तु विधर्मगम्
अन्यथा तु सुशङ्खस्य वाक्यमेवान्यथा भवेत् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

अतो विधिर्निषेधश्च ह्यहमेव नृपोत्तम
कर्मानुरूपफलदो बुद्ध्यतीतो गुणाग्रहः ॥ ३९ ॥

मूलम्

अतो विधिर्निषेधश्च ह्यहमेव नृपोत्तम
कर्मानुरूपफलदो बुद्ध्यतीतो गुणाग्रहः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

दानमेव परं श्रेष्ठं दानं सर्वप्रभावकम्
तस्माद्दानं ददस्व त्वं दानात्पुण्यं प्रवर्तते ॥ ४० ॥

मूलम्

दानमेव परं श्रेष्ठं दानं सर्वप्रभावकम्
तस्माद्दानं ददस्व त्वं दानात्पुण्यं प्रवर्तते ॥ ४० ॥

विश्वास-प्रस्तुतिः

दानेन नश्यते पापं तस्माद्दानं ददस्व हि
अश्वमेधादिभिर्यज्ञैर्यजस्व नृपसत्तम ॥ ४१ ॥

मूलम्

दानेन नश्यते पापं तस्माद्दानं ददस्व हि
अश्वमेधादिभिर्यज्ञैर्यजस्व नृपसत्तम ॥ ४१ ॥

विश्वास-प्रस्तुतिः

भूमिदानादिकं दानं ब्राह्मणेभ्यो ददस्व वै
सुदानात्प्राप्यते भोगः सुदानात्प्राप्यते यशः ॥ ४२ ॥

मूलम्

भूमिदानादिकं दानं ब्राह्मणेभ्यो ददस्व वै
सुदानात्प्राप्यते भोगः सुदानात्प्राप्यते यशः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सुदानाज्जायते कीर्तिः सुदानात्प्राप्यते सुखम्
दानेन स्वर्गमाप्नोति फलं तत्र भुनक्ति च ॥ ४३ ॥

मूलम्

सुदानाज्जायते कीर्तिः सुदानात्प्राप्यते सुखम्
दानेन स्वर्गमाप्नोति फलं तत्र भुनक्ति च ॥ ४३ ॥

विश्वास-प्रस्तुतिः

दत्तस्यापि सुदानस्य श्रद्धायुक्तस्य सत्तम
काले प्राप्ते व्रजेत्तीर्थं पुण्यस्यापि फलं त्विदम् ॥ ४४ ॥

मूलम्

दत्तस्यापि सुदानस्य श्रद्धायुक्तस्य सत्तम
काले प्राप्ते व्रजेत्तीर्थं पुण्यस्यापि फलं त्विदम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

पात्रभूताय विप्राय श्रद्धापूतेन चेतसा
यो ददाति महादानं मयि भावं निवेश्य च ॥ ४५ ॥

मूलम्

पात्रभूताय विप्राय श्रद्धापूतेन चेतसा
यो ददाति महादानं मयि भावं निवेश्य च ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तस्याहं सकलं दद्मि मनसा यंयमिच्छति
वेन उवाच-
कालं दानस्य मे ब्रूहि कीदृक्कालस्य लक्षणम् ॥ ४६ ॥

मूलम्

तस्याहं सकलं दद्मि मनसा यंयमिच्छति
वेन उवाच-
कालं दानस्य मे ब्रूहि कीदृक्कालस्य लक्षणम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

तीर्थस्यापि च यद्रूपं पात्रस्यापि सुलक्षणम्
दानस्यापि जगन्नाथ विधिं विस्तरतो वद ॥ ४७ ॥

मूलम्

तीर्थस्यापि च यद्रूपं पात्रस्यापि सुलक्षणम्
दानस्यापि जगन्नाथ विधिं विस्तरतो वद ॥ ४७ ॥

विश्वास-प्रस्तुतिः

प्रसादसुमुखो भूत्वा दया मे यदि वर्त्तते
श्रीकृष्ण उवाच-
दानकालं प्रवक्ष्यामि नित्यं नैमित्तिकं नृप ॥ ४८ ॥

मूलम्

प्रसादसुमुखो भूत्वा दया मे यदि वर्त्तते
श्रीकृष्ण उवाच-
दानकालं प्रवक्ष्यामि नित्यं नैमित्तिकं नृप ॥ ४८ ॥

विश्वास-प्रस्तुतिः

काम्यं चान्यं महाराज चतुर्थप्रापकं पुनः
सूर्योदयस्य वेलायां पापं नश्यति सर्वतः ॥ ४९ ॥

मूलम्

काम्यं चान्यं महाराज चतुर्थप्रापकं पुनः
सूर्योदयस्य वेलायां पापं नश्यति सर्वतः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

अन्धकाराधिका घोरा नराणां नाशकारकाः
दिवि सूर्यो ममांशोऽयं तेजसां कल्पितो निधिः ॥ ५० ॥

मूलम्

अन्धकाराधिका घोरा नराणां नाशकारकाः
दिवि सूर्यो ममांशोऽयं तेजसां कल्पितो निधिः ॥ ५० ॥

विश्वास-प्रस्तुतिः

तस्यैव तेजसा दग्धा भस्मतां यान्ति किल्बिषाः
उदयन्तं ममांशं यो दृष्ट्वा दत्ते तु वार्यपि ॥ ५१ ॥

मूलम्

तस्यैव तेजसा दग्धा भस्मतां यान्ति किल्बिषाः
उदयन्तं ममांशं यो दृष्ट्वा दत्ते तु वार्यपि ॥ ५१ ॥

विश्वास-प्रस्तुतिः

तस्य किं कथ्यते भूप नित्यं पुण्यविवर्द्धनम्
सम्प्राप्तायां सुवेलायां तस्यां पुण्यकरो नरः ॥ ५२ ॥

मूलम्

तस्य किं कथ्यते भूप नित्यं पुण्यविवर्द्धनम्
सम्प्राप्तायां सुवेलायां तस्यां पुण्यकरो नरः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

स्नात्वाभ्यर्च्य पितॄन्देवान्दानदाता भवेत्पुनः
यथाशक्तिप्रभावेन श्रद्धापूतेन चेतसा ॥ ५३ ॥

मूलम्

स्नात्वाभ्यर्च्य पितॄन्देवान्दानदाता भवेत्पुनः
यथाशक्तिप्रभावेन श्रद्धापूतेन चेतसा ॥ ५३ ॥

विश्वास-प्रस्तुतिः

अन्नं पयः फलं पुष्पं वस्त्रं ताम्बूलभूषणम्
हेमरत्नादिकं चैव तस्य पुण्यमनन्तकम् ॥ ५४ ॥

मूलम्

अन्नं पयः फलं पुष्पं वस्त्रं ताम्बूलभूषणम्
हेमरत्नादिकं चैव तस्य पुण्यमनन्तकम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

मध्याह्ने तु ततो राजन्नपराह्णे तथैव च
मामुद्दिश्य च यो दद्यात्तस्य पुण्यमनन्तकम् ॥ ५५ ॥

मूलम्

मध्याह्ने तु ततो राजन्नपराह्णे तथैव च
मामुद्दिश्य च यो दद्यात्तस्य पुण्यमनन्तकम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

खाद्यपानादिकं मिष्ट लेपनं गन्धकुङ्कुमम्
कर्पूरादिकमेवापि वस्त्रालङ्कारसंयुतम् ॥ ५६ ॥

मूलम्

खाद्यपानादिकं मिष्ट लेपनं गन्धकुङ्कुमम्
कर्पूरादिकमेवापि वस्त्रालङ्कारसंयुतम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

अविच्छिन्नं ददात्येवं भोगसौख्यप्रदायकम्
नित्यकालो मया ख्यातो दानपूजार्थिनां शुभः ॥ ५७ ॥

मूलम्

अविच्छिन्नं ददात्येवं भोगसौख्यप्रदायकम्
नित्यकालो मया ख्यातो दानपूजार्थिनां शुभः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

अथातः सम्प्रवक्ष्यामि नैमित्तिकमनुत्तमम्
त्रिकालेष्वपि दातव्यं दानमेव न संशयः ॥ ५८ ॥

मूलम्

अथातः सम्प्रवक्ष्यामि नैमित्तिकमनुत्तमम्
त्रिकालेष्वपि दातव्यं दानमेव न संशयः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

शून्यं दिनं न कर्तव्यमात्मनो हितमिच्छता
यस्मिन्काले प्रदत्तं हि किञ्चिद्दानं नराधिप ॥ ५९ ॥

मूलम्

शून्यं दिनं न कर्तव्यमात्मनो हितमिच्छता
यस्मिन्काले प्रदत्तं हि किञ्चिद्दानं नराधिप ॥ ५९ ॥

विश्वास-प्रस्तुतिः

तत्प्रभावान्महाप्राज्ञो बहुसामर्थ्यसंयुतः
धनाढ्यो गुणवान्प्राज्ञः पण्डितोऽपि विचक्षणः ॥ ६० ॥

मूलम्

तत्प्रभावान्महाप्राज्ञो बहुसामर्थ्यसंयुतः
धनाढ्यो गुणवान्प्राज्ञः पण्डितोऽपि विचक्षणः ॥ ६० ॥

विश्वास-प्रस्तुतिः

पक्षं मासं दिनं यावन्न दत्तं वै यदाशनम्
तमेव वारयाम्येव भक्ष्याच्चैव नरोत्तमम् ॥ ६१ ॥

मूलम्

पक्षं मासं दिनं यावन्न दत्तं वै यदाशनम्
तमेव वारयाम्येव भक्ष्याच्चैव नरोत्तमम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

स्वमलं भक्षितं चैव अदत्वा दानमुत्तमम्
उत्पादयाम्यहं रोगं सर्वभोगनिवारणम् ॥ ६२ ॥

मूलम्

स्वमलं भक्षितं चैव अदत्वा दानमुत्तमम्
उत्पादयाम्यहं रोगं सर्वभोगनिवारणम् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

तेषां कायेष्वसन्तुष्टो बहुपीडाप्रदायकम्
मन्दानलेन संयुक्तं ज्वरसन्तापकारकम् ॥ ६३ ॥

मूलम्

तेषां कायेष्वसन्तुष्टो बहुपीडाप्रदायकम्
मन्दानलेन संयुक्तं ज्वरसन्तापकारकम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

त्रिकालेषु न दत्तं यैर्ब्राह्मणेषु सुरेषु च
स्वयमश्नाति मिष्टं तु तेन पापं महत्कृतम् ॥ ६४ ॥

मूलम्

त्रिकालेषु न दत्तं यैर्ब्राह्मणेषु सुरेषु च
स्वयमश्नाति मिष्टं तु तेन पापं महत्कृतम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

प्रायश्चित्तेन रौद्रेण तमेवं परिशोधयेत्
उपवासैर्महाराज कायशोषकरादिकैः ॥ ६५ ॥

मूलम्

प्रायश्चित्तेन रौद्रेण तमेवं परिशोधयेत्
उपवासैर्महाराज कायशोषकरादिकैः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

चर्मकारो यथा चर्म कुण्डस्थोपरि निर्घृणः
शोधयेच्च कषायैश्च तच्चर्मस्फोटयेद्यथा ॥ ६६ ॥

मूलम्

चर्मकारो यथा चर्म कुण्डस्थोपरि निर्घृणः
शोधयेच्च कषायैश्च तच्चर्मस्फोटयेद्यथा ॥ ६६ ॥

विश्वास-प्रस्तुतिः

तथाहं पापकर्तारं शोधयामि न संशयः
औषधीनां सुयोगाच्च कषायैः कटुकैर्ध्रुवम् ॥ ६७ ॥

मूलम्

तथाहं पापकर्तारं शोधयामि न संशयः
औषधीनां सुयोगाच्च कषायैः कटुकैर्ध्रुवम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

उष्णोदकैश्च सन्तापैर्वैद्यरूपेण नान्यथा
अन्ये भुञ्जन्ति तस्योग्र भोगान्पुण्यान्मनोनुगान् ॥ ६८ ॥

मूलम्

उष्णोदकैश्च सन्तापैर्वैद्यरूपेण नान्यथा
अन्ये भुञ्जन्ति तस्योग्र भोगान्पुण्यान्मनोनुगान् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

किं करोति समर्थश्च न दत्तं दानमुत्तमम्
महता पापरूपेण तमेवं परितापये ॥ ६९ ॥

मूलम्

किं करोति समर्थश्च न दत्तं दानमुत्तमम्
महता पापरूपेण तमेवं परितापये ॥ ६९ ॥

विश्वास-प्रस्तुतिः

नित्यकालस्य यद्दानमात्मार्थं पापिभिर्यथा
न दत्तं राजराजेन्द्र श्रद्धापूतेन चेतसा ॥ ७० ॥

मूलम्

नित्यकालस्य यद्दानमात्मार्थं पापिभिर्यथा
न दत्तं राजराजेन्द्र श्रद्धापूतेन चेतसा ॥ ७० ॥

विश्वास-प्रस्तुतिः

तथा ताञ्जारयाम्येतानुपायैर्दारुणैः किल
वासुदेव उवाच-
नैमित्तिकं तथा कालं पुण्यं चैव तवाग्रतः ॥ ७१ ॥

मूलम्

तथा ताञ्जारयाम्येतानुपायैर्दारुणैः किल
वासुदेव उवाच-
नैमित्तिकं तथा कालं पुण्यं चैव तवाग्रतः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

प्रवक्ष्यामि नरश्रेष्ठ सुबुद्ध्या शृणु तत्परः
अमावास्या महाराज पौर्णमासी तथैव च ॥ ७२ ॥

मूलम्

प्रवक्ष्यामि नरश्रेष्ठ सुबुद्ध्या शृणु तत्परः
अमावास्या महाराज पौर्णमासी तथैव च ॥ ७२ ॥

विश्वास-प्रस्तुतिः

यदा भवति सङ्क्रान्तिर्व्यतीपातो नरेश्वर
वैधृतिश्च यदा प्रोक्ता यदा एकादशी भवेत् ॥ ७३ ॥

मूलम्

यदा भवति सङ्क्रान्तिर्व्यतीपातो नरेश्वर
वैधृतिश्च यदा प्रोक्ता यदा एकादशी भवेत् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

महामाघी तथाषाढी वैशाखी कार्तिकी तथा
अमासोमसमायोगे मन्वादिषु युगादिषु ॥ ७४ ॥

मूलम्

महामाघी तथाषाढी वैशाखी कार्तिकी तथा
अमासोमसमायोगे मन्वादिषु युगादिषु ॥ ७४ ॥

विश्वास-प्रस्तुतिः

गजच्छाया तथा प्रोक्ता पितृक्षया तथैव च
एते नैमित्तिकाः ख्यातास्तवाग्रे नृपसत्तम ॥ ७५ ॥

मूलम्

गजच्छाया तथा प्रोक्ता पितृक्षया तथैव च
एते नैमित्तिकाः ख्यातास्तवाग्रे नृपसत्तम ॥ ७५ ॥

विश्वास-प्रस्तुतिः

एतेषु दीयते दानं तस्य दानस्य यत्फलम्
तत्फलं तु प्रवक्ष्यामि श्रूयतां नृपसत्तम ॥ ७६ ॥

मूलम्

एतेषु दीयते दानं तस्य दानस्य यत्फलम्
तत्फलं तु प्रवक्ष्यामि श्रूयतां नृपसत्तम ॥ ७६ ॥

विश्वास-प्रस्तुतिः

मामुद्दिश्य नरो भक्त्या ब्राह्मणाय प्रयच्छति
तस्याहं निर्विकल्पेन प्रयच्छामि न संशयः ॥ ७७ ॥

मूलम्

मामुद्दिश्य नरो भक्त्या ब्राह्मणाय प्रयच्छति
तस्याहं निर्विकल्पेन प्रयच्छामि न संशयः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

गृहं सौख्यं महाराज स्वर्गमोक्षादिकं बहु
काम्यं कालं प्रवक्ष्यामि दानस्य फलदायकम् ॥ ७८ ॥

मूलम्

गृहं सौख्यं महाराज स्वर्गमोक्षादिकं बहु
काम्यं कालं प्रवक्ष्यामि दानस्य फलदायकम् ॥ ७८ ॥

विश्वास-प्रस्तुतिः

व्रतानामेव सर्वेषां देवादीनां तथैव च
दानस्य पुण्यकालं तु सम्प्रोक्तं द्विजसत्तमैः ॥ ७९ ॥

मूलम्

व्रतानामेव सर्वेषां देवादीनां तथैव च
दानस्य पुण्यकालं तु सम्प्रोक्तं द्विजसत्तमैः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

आभ्युदयिकमेवापि कालं वक्ष्यामि ते नृप
मखानामेव सर्वेषां वैवाहिकमनुत्तमम् ॥ ८० ॥

मूलम्

आभ्युदयिकमेवापि कालं वक्ष्यामि ते नृप
मखानामेव सर्वेषां वैवाहिकमनुत्तमम् ॥ ८० ॥

विश्वास-प्रस्तुतिः

पुत्रस्य जातमात्रस्य चौलमौञ्ज्यादिकं तथा
प्रासादध्वजदेवानां प्रतिष्ठादिककर्मणि ॥ ८१ ॥

मूलम्

पुत्रस्य जातमात्रस्य चौलमौञ्ज्यादिकं तथा
प्रासादध्वजदेवानां प्रतिष्ठादिककर्मणि ॥ ८१ ॥

विश्वास-प्रस्तुतिः

वापीकूपतडागानां गृहवास्तुमयं नृप
तदाभ्युदयिकं प्रोक्तं मातॄणां यत्र पूजनम् ॥ ८२ ॥

मूलम्

वापीकूपतडागानां गृहवास्तुमयं नृप
तदाभ्युदयिकं प्रोक्तं मातॄणां यत्र पूजनम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

तस्मिन्काले ददेद्दानं सर्वसिद्धिप्रदायकम्
आभ्युदयिक एवायं कालः प्रोक्तो नृपोत्तम ॥ ८३ ॥

मूलम्

तस्मिन्काले ददेद्दानं सर्वसिद्धिप्रदायकम्
आभ्युदयिक एवायं कालः प्रोक्तो नृपोत्तम ॥ ८३ ॥

विश्वास-प्रस्तुतिः

अन्यच्चैव प्रवक्ष्यामि पापपीडानिवारणम्
मृत्युकाले च सम्प्राप्ते क्षयं ज्ञात्वा नरोत्तम ॥ ८४ ॥

मूलम्

अन्यच्चैव प्रवक्ष्यामि पापपीडानिवारणम्
मृत्युकाले च सम्प्राप्ते क्षयं ज्ञात्वा नरोत्तम ॥ ८४ ॥

विश्वास-प्रस्तुतिः

तत्र दानं प्रदातव्यं यममार्गसुखप्रदम्
नित्यनैमित्तिकाः कालाः काम्याभ्युदयिकास्तथा ॥ ८५ ॥

मूलम्

तत्र दानं प्रदातव्यं यममार्गसुखप्रदम्
नित्यनैमित्तिकाः कालाः काम्याभ्युदयिकास्तथा ॥ ८५ ॥

विश्वास-प्रस्तुतिः

अन्त्यःकालो महाराज समाख्यातस्तवाग्रतः
एते कालाः समाख्याताः स्वकर्मफलदायकाः ॥ ८६ ॥

मूलम्

अन्त्यःकालो महाराज समाख्यातस्तवाग्रतः
एते कालाः समाख्याताः स्वकर्मफलदायकाः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

तीर्थस्य लक्षणं राजन्प्रवक्ष्यामि तवाग्रतः
सुतीर्थानामियं गङ्गा भाति पुण्या सरस्वती ॥ ८७ ॥

मूलम्

तीर्थस्य लक्षणं राजन्प्रवक्ष्यामि तवाग्रतः
सुतीर्थानामियं गङ्गा भाति पुण्या सरस्वती ॥ ८७ ॥

विश्वास-प्रस्तुतिः

रेवा च यमुना तापी तथा चर्मण्वती नदी
सरयूर्घर्घरा वेणा सर्वपापप्रणाशिनी ॥ ८८ ॥

मूलम्

रेवा च यमुना तापी तथा चर्मण्वती नदी
सरयूर्घर्घरा वेणा सर्वपापप्रणाशिनी ॥ ८८ ॥

विश्वास-प्रस्तुतिः

कावेरी कपिला चान्या विशाला विश्वतारणी
गोदावरी समाख्याता तुङ्गभद्रा नरोत्तम ॥ ८९ ॥

मूलम्

कावेरी कपिला चान्या विशाला विश्वतारणी
गोदावरी समाख्याता तुङ्गभद्रा नरोत्तम ॥ ८९ ॥

विश्वास-प्रस्तुतिः

पापानां भीतिदा नित्यं भीमरथ्या प्रपठ्यते
देविका कृष्णगङ्गा च अन्याः सरिद्वरोत्तमाः ॥ ९० ॥

मूलम्

पापानां भीतिदा नित्यं भीमरथ्या प्रपठ्यते
देविका कृष्णगङ्गा च अन्याः सरिद्वरोत्तमाः ॥ ९० ॥

विश्वास-प्रस्तुतिः

एतासां पुण्यकालेषु सन्ति तीर्थान्यनेकशः
ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः ॥ ९१ ॥

मूलम्

एतासां पुण्यकालेषु सन्ति तीर्थान्यनेकशः
ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

तत्र तत्र प्रकर्तव्याः स्नानदानादिकाः क्रियाः
यदा न ज्ञायते नाम तासां तीर्थस्य सत्तमाः ॥ ९२ ॥

मूलम्

तत्र तत्र प्रकर्तव्याः स्नानदानादिकाः क्रियाः
यदा न ज्ञायते नाम तासां तीर्थस्य सत्तमाः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

नामोच्चारं प्रकुर्वीत विष्णुतीर्थमिदं नृप
तीर्थस्य देवता तद्वदहमेव न संशयः ॥ ९३ ॥

मूलम्

नामोच्चारं प्रकुर्वीत विष्णुतीर्थमिदं नृप
तीर्थस्य देवता तद्वदहमेव न संशयः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

मामेवमुच्चरेद्यो वै तीर्थे देवेषु साधकः
तस्य पुण्यफलं जातं मन्नाम्ना नृपनन्दन ॥ ९४ ॥

मूलम्

मामेवमुच्चरेद्यो वै तीर्थे देवेषु साधकः
तस्य पुण्यफलं जातं मन्नाम्ना नृपनन्दन ॥ ९४ ॥

विश्वास-प्रस्तुतिः

अज्ञातानां सुतीर्थानां देवानां नृपसत्तम
स्नाने दाने महाराज मन्नाम हि समुच्चरेत् ॥ ९५ ॥

मूलम्

अज्ञातानां सुतीर्थानां देवानां नृपसत्तम
स्नाने दाने महाराज मन्नाम हि समुच्चरेत् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

तीर्थानामेव राजेन्द्र धात्रा धात्र्य इमाः कृताः
सिन्धवः सर्वपुण्यानां सर्वस्थाः क्षितिमण्डले ॥ ९६ ॥

मूलम्

तीर्थानामेव राजेन्द्र धात्रा धात्र्य इमाः कृताः
सिन्धवः सर्वपुण्यानां सर्वस्थाः क्षितिमण्डले ॥ ९६ ॥

विश्वास-प्रस्तुतिः

यत्रतत्र प्रकर्त्तव्यं स्नानदानादिकं नृप
अक्षयं फलमाप्नोति सुतीर्थानां प्रसादतः ॥ ९७ ॥

मूलम्

यत्रतत्र प्रकर्त्तव्यं स्नानदानादिकं नृप
अक्षयं फलमाप्नोति सुतीर्थानां प्रसादतः ॥ ९७ ॥

विश्वास-प्रस्तुतिः

तीर्थरूपा महापुण्याः सागरा सप्त एव च
मानसाद्यास्तथा राजन्सरस्यश्च प्रकीर्तिताः ॥ ९८ ॥

मूलम्

तीर्थरूपा महापुण्याः सागरा सप्त एव च
मानसाद्यास्तथा राजन्सरस्यश्च प्रकीर्तिताः ॥ ९८ ॥

विश्वास-प्रस्तुतिः

निर्झराः पल्वलाः प्रोक्तास्तीर्थरूपा न संशयः
स्वल्पा नद्यो महाराज तासु तीर्थं प्रतिष्ठितम् ॥ ९९ ॥

मूलम्

निर्झराः पल्वलाः प्रोक्तास्तीर्थरूपा न संशयः
स्वल्पा नद्यो महाराज तासु तीर्थं प्रतिष्ठितम् ॥ ९९ ॥

खातेष्वेवं च सर्वेषु वर्जयित्वा च कूपकम्
पर्वतास्तीर्थरूपाश्च मेर्वाद्याश्च महीतले १००
यज्ञभूमिश्च यज्ञश्च अग्निहोत्रे यथा स्थितः
श्राद्धभूमिस्तथा शुद्धा देवशाला तथा पुनः १०१
होमशाला तथा प्रोक्ता वेदाध्ययनवेश्म च
गृहेषु पुण्यसंयुक्तं गोस्थानं वरमुत्तमम् १०२
सोमपायी भवेद्यत्र तीर्थं तत्र प्रतिष्ठितम्
आरामो यत्र वै पुण्यो अश्वत्थो यत्र तिष्ठति १०३
ब्रह्मवृक्षो भवेद्यत्र वटवृक्षस्तथैव च
अन्ये च वन्यसंस्थाने तत्र तीर्थं प्रतिष्ठितम् १०४
एते तीर्थाः समाख्याताः पितामाता तथैव च
पुराणं पठ्यते यत्र गुरुर्यत्र स्वयं स्थितः १०५
सुभार्या तिष्ठते यत्र तत्र तीर्थं न संशयः
सुपुत्रस्तिष्ठते यत्र तत्र तीर्थं न संशयः १०६
एते तीर्थाः समाख्याता राजवेश्म तथैव च
वेन उवाच-
पात्रस्य लक्षणं ब्रूहि यस्मै देयं सुरोत्तम १०७
प्रसादसुमुखो भूत्वा कृपया मम माधव
वासुदेव उवाच-
शृणु राजन्महाप्राज्ञ पात्रस्यापि सुलक्षणम् १०८
यस्मै देयं सुदानं च श्रद्धापूतैर्महात्मभिः
ब्राह्मणं सुकुलोपेतं वेदाध्ययनतत्परम् १०९
शान्तं दान्तं तपोयुक्तं शुक्लमेव विशेषतः
प्रज्ञावन्तं ज्ञानवन्तं देवपूजनतत्परम् ११०
सत्यवन्तं महापुण्यं वैष्णवं ज्ञानपण्डितम्
धर्मज्ञं मुक्तलौल्यं च पाखण्डैस्तु विवर्जितम् १११
एवं पात्रं समाख्यातमन्यदेवं वदाम्यहम्
एवमेतैर्गुणैर्युक्तं स्वसृपुत्रं नरोत्तमम् ११२
एतं पात्रं विजानीहि दुहितुस्तनयं ततः
जामातरं महाराज भावैरेतैश्च संयुतम् ११३
गुरुं च दीक्षितं चैव पात्रभूतं नरोत्तम
एतान्येव सुपात्राणि दानयोग्यानि सत्तम ११४
वेदाचारसमोपेतस्तृप्तिं नैव च गच्छति
वर्जयेत्किल तं विप्रं तथा काणं सुधूर्तकम् ११५
अतिकृष्णं महाराज कपिलं परिवर्जयेत्
कर्कटाक्षं सुनीलं च श्यावदन्तं विवर्जयेत् ११६
नीलदन्तं तथा राजन्पीतदन्तं तथैव च
गोघ्नं सुकृष्णदन्तं च बर्बरं चातिपांशुलम् ११७
हीनाङ्गमधिकाङ्गं च कुष्ठिनं कुनखं तथा
दुश्चर्माणं महाराज खल्वाटं परिवर्जयेत् ११८
अन्यायेषु रता यस्य जाया विप्रस्य कस्य च
तस्मै दानं न दातव्यं यदि ब्रह्मसमो भवेत् ११९
स्त्रीजिताय न दातव्यं शाखारण्डे महामते
व्याधिताय न दातव्यं मृतभोजिषु भूपते १२०
चोराय च न दातव्यं स यद्यत्रिसमो भवेत्
अतृप्ताय न दातव्यं शावं तु परिवर्जयेत् १२१
अतिस्तब्धाय नो देयं शठाय च विशेषतः
वेदशास्त्रसमायुक्तः सदाचारेण वर्जितः १२२
श्राद्धे दाने च राजेन्द्र नैव युक्तः कदा भवेत्
अथ दानं प्रवक्ष्यामि सफलं पुण्यदायकम् १२३
कालतीर्थसुपात्राणां श्रद्धा योगात्प्रजायते
नास्ति श्रद्धासमं पुण्यं नास्ति श्रद्धासमं सुखम् १२४
नास्ति श्रद्धासमं तीर्थं संसारे प्राणिनां नृप
श्रद्धाभावेन संयुक्तो मामेवं परिसंस्मरेत् १२५
पात्रहस्ते प्रदातव्यं स्वल्पमेव नृपोत्तम
एवंविधस्य दानस्य विधियुक्तस्य यत्फलम् १२६
अनन्तं तदवाप्नोति मत्प्रसादात्सुखी भवेत् १२७
इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे
वेनोपाख्याने एकोनचत्वारिंशोऽध्यायः ३९