सूत उवाच-
विश्वास-प्रस्तुतिः
एवं सम्बोधितो वेनः पापभावं गतः किल
पुरुषेण तेन जैनेन महापापेन मोहितः ॥ १ ॥
मूलम्
एवं सम्बोधितो वेनः पापभावं गतः किल
पुरुषेण तेन जैनेन महापापेन मोहितः ॥ १ ॥
विश्वास-प्रस्तुतिः
नमस्कृत्य ततः पादौ तस्यैव च दुरात्मनः
वेदधर्मं परित्यज्य सत्यधर्मादिकां क्रियाम् ॥ २ ॥
मूलम्
नमस्कृत्य ततः पादौ तस्यैव च दुरात्मनः
वेदधर्मं परित्यज्य सत्यधर्मादिकां क्रियाम् ॥ २ ॥
विश्वास-प्रस्तुतिः
सुयज्ञानां निवृत्तिः स्याद्वेदानां हितथैव च
पुण्यशास्त्रमयो धर्मस्तदा नैव प्रवर्तितः ॥ ३ ॥
मूलम्
सुयज्ञानां निवृत्तिः स्याद्वेदानां हितथैव च
पुण्यशास्त्रमयो धर्मस्तदा नैव प्रवर्तितः ॥ ३ ॥
विश्वास-प्रस्तुतिः
सर्वपापमयो लोकः सञ्जातस्तस्य शासनात्
नैव यागाश्च वेदाश्च धर्मशास्त्रार्थमुत्तमम् ॥ ४ ॥
मूलम्
सर्वपापमयो लोकः सञ्जातस्तस्य शासनात्
नैव यागाश्च वेदाश्च धर्मशास्त्रार्थमुत्तमम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
न दानाध्ययनं विप्रास्तस्मिञ्छासति पार्थिवे
एवं धर्मप्रलोपोभून्महत्पापं प्रवर्तितम् ॥ ५ ॥
मूलम्
न दानाध्ययनं विप्रास्तस्मिञ्छासति पार्थिवे
एवं धर्मप्रलोपोभून्महत्पापं प्रवर्तितम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
अङ्गेन वार्यमाणस्तु अन्यथा कुरुते भृशम्
न ननाम पितुः पादौ मातुश्चैव दुरात्मवान् ॥ ६ ॥
मूलम्
अङ्गेन वार्यमाणस्तु अन्यथा कुरुते भृशम्
न ननाम पितुः पादौ मातुश्चैव दुरात्मवान् ॥ ६ ॥
विश्वास-प्रस्तुतिः
सनकस्यापि विप्रस्य अहमेकः प्रतापवान्
पित्रा निवार्यमाणश्च मात्रा चैव दुरात्मवान् ॥ ७ ॥
मूलम्
सनकस्यापि विप्रस्य अहमेकः प्रतापवान्
पित्रा निवार्यमाणश्च मात्रा चैव दुरात्मवान् ॥ ७ ॥
विश्वास-प्रस्तुतिः
न करोति शुभं पुण्यं तीर्थदानादिकं कदा
आत्मभावानुरूपं च बहुकालं महायशाः ॥ ८ ॥
मूलम्
न करोति शुभं पुण्यं तीर्थदानादिकं कदा
आत्मभावानुरूपं च बहुकालं महायशाः ॥ ८ ॥
विश्वास-प्रस्तुतिः
पुनः सर्वैर्विचार्यैवं कस्मात्पापी व्यजायत
अङ्गप्रजापतेः पुत्रो वंशलाञ्छनमागतः ॥ ९ ॥
मूलम्
पुनः सर्वैर्विचार्यैवं कस्मात्पापी व्यजायत
अङ्गप्रजापतेः पुत्रो वंशलाञ्छनमागतः ॥ ९ ॥
विश्वास-प्रस्तुतिः
पुनः पप्रच्छ धर्मात्मा सुतां मृत्योर्महात्मनः
कस्य दोषात्समुत्पन्नो वद सत्यं मम प्रिये ॥ १० ॥
मूलम्
पुनः पप्रच्छ धर्मात्मा सुतां मृत्योर्महात्मनः
कस्य दोषात्समुत्पन्नो वद सत्यं मम प्रिये ॥ १० ॥
विश्वास-प्रस्तुतिः
सुनीथोवाच-
पूर्वमेव स्ववृत्तान्तमात्मपुण्यं च नन्दिनी
समाचष्ट च अङ्गाय मम दोषान्महामते ॥ ११ ॥
मूलम्
सुनीथोवाच-
पूर्वमेव स्ववृत्तान्तमात्मपुण्यं च नन्दिनी
समाचष्ट च अङ्गाय मम दोषान्महामते ॥ ११ ॥
विश्वास-प्रस्तुतिः
बाल्ये कृतं मया पापं सुशङ्खस्य महात्मनः
तपसि संस्थितस्यापि नान्यत्किञ्चित्कृतं मया ॥ १२ ॥
मूलम्
बाल्ये कृतं मया पापं सुशङ्खस्य महात्मनः
तपसि संस्थितस्यापि नान्यत्किञ्चित्कृतं मया ॥ १२ ॥
विश्वास-प्रस्तुतिः
शप्ताहं कुप्यता तेन दुष्टा ते सन्ततिर्भवेत्
इति जाने महाभाग तेनायं दुष्टतां गतः ॥ १३ ॥
मूलम्
शप्ताहं कुप्यता तेन दुष्टा ते सन्ततिर्भवेत्
इति जाने महाभाग तेनायं दुष्टतां गतः ॥ १३ ॥
विश्वास-प्रस्तुतिः
समाकर्ण्य महातेजास्तया सह वनं ययौ
गते तस्मिन्महाभागे सभार्ये च वने तदा ॥ १४ ॥
मूलम्
समाकर्ण्य महातेजास्तया सह वनं ययौ
गते तस्मिन्महाभागे सभार्ये च वने तदा ॥ १४ ॥
विश्वास-प्रस्तुतिः
सप्तैते ऋषयस्तत्र वेनपार्श्वं गतास्तथा
समाहूय ततः प्रोचुरङ्गस्य तनयं प्रति ॥ १५ ॥
मूलम्
सप्तैते ऋषयस्तत्र वेनपार्श्वं गतास्तथा
समाहूय ततः प्रोचुरङ्गस्य तनयं प्रति ॥ १५ ॥
विश्वास-प्रस्तुतिः
ऋषय ऊचुः-
मा वेन साहसं कार्षीःप्रजापालो भवानिह
त्वया सर्वमिदं लोकं त्रैलोक्यं सचराचरम् ॥ १६ ॥
मूलम्
ऋषय ऊचुः-
मा वेन साहसं कार्षीःप्रजापालो भवानिह
त्वया सर्वमिदं लोकं त्रैलोक्यं सचराचरम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
धर्मे चैव महाभाग सकलं हि प्रतिष्ठितम्
पापकर्मपरित्यज्य पुण्यं कर्म समाचर ॥ १७ ॥
मूलम्
धर्मे चैव महाभाग सकलं हि प्रतिष्ठितम्
पापकर्मपरित्यज्य पुण्यं कर्म समाचर ॥ १७ ॥
विश्वास-प्रस्तुतिः
एवमुक्तेषु तेष्वेव प्रहसन्वाक्यमब्रवीत्
वेन उवाच-
अहमेव परो धर्मोऽहमेवार्हः सनातनः ॥ १८ ॥
मूलम्
एवमुक्तेषु तेष्वेव प्रहसन्वाक्यमब्रवीत्
वेन उवाच-
अहमेव परो धर्मोऽहमेवार्हः सनातनः ॥ १८ ॥
विश्वास-प्रस्तुतिः
अहं धाता अहं गोप्ता अहं वेदार्थ एव च
अहं धर्मो महापुण्यो जैनधर्मः सनातनः ॥ १९ ॥
मूलम्
अहं धाता अहं गोप्ता अहं वेदार्थ एव च
अहं धर्मो महापुण्यो जैनधर्मः सनातनः ॥ १९ ॥
विश्वास-प्रस्तुतिः
मामेव कर्मणा विप्रा भजध्वं धर्मरूपिणम्
ऋषय उचुः-
ब्राह्मणाः क्षत्त्रिया वैश्यास्त्रयोवर्णा द्विजातयः ॥ २० ॥
मूलम्
मामेव कर्मणा विप्रा भजध्वं धर्मरूपिणम्
ऋषय उचुः-
ब्राह्मणाः क्षत्त्रिया वैश्यास्त्रयोवर्णा द्विजातयः ॥ २० ॥
विश्वास-प्रस्तुतिः
सर्वेषामेव वर्णानां श्रुतिरेषा सनातनी
वेदाचारेण वर्तन्ते तेन जीवन्ति जन्तवः ॥ २१ ॥
मूलम्
सर्वेषामेव वर्णानां श्रुतिरेषा सनातनी
वेदाचारेण वर्तन्ते तेन जीवन्ति जन्तवः ॥ २१ ॥
विश्वास-प्रस्तुतिः
ब्रह्मवंशात्समुद्भूतो भवान्ब्राह्मण एव च
पश्चाद्राजा पृथिव्याश्च सञ्जातः कृतविक्रमः ॥ २२ ॥
मूलम्
ब्रह्मवंशात्समुद्भूतो भवान्ब्राह्मण एव च
पश्चाद्राजा पृथिव्याश्च सञ्जातः कृतविक्रमः ॥ २२ ॥
विश्वास-प्रस्तुतिः
राजपुण्येन राजेन्द्र सुखं जीवन्ति वै द्विजाः
राज्ञः पापेन नश्यन्ति तस्मात्पुण्यं समाचर ॥ २३ ॥
मूलम्
राजपुण्येन राजेन्द्र सुखं जीवन्ति वै द्विजाः
राज्ञः पापेन नश्यन्ति तस्मात्पुण्यं समाचर ॥ २३ ॥
विश्वास-प्रस्तुतिः
समादृतस्त्वया धर्मः कृतश्चापि नराधिप
त्रेतायुगस्य कर्मापि द्वापरस्य तथा नहि ॥ २४ ॥
मूलम्
समादृतस्त्वया धर्मः कृतश्चापि नराधिप
त्रेतायुगस्य कर्मापि द्वापरस्य तथा नहि ॥ २४ ॥
विश्वास-प्रस्तुतिः
कलेश्चैव प्रवेशं तु वर्त्तयिष्यन्ति मानवाः
जैनधर्मं समाश्रित्य सर्वे पापप्रमोहिताः ॥ २५ ॥
मूलम्
कलेश्चैव प्रवेशं तु वर्त्तयिष्यन्ति मानवाः
जैनधर्मं समाश्रित्य सर्वे पापप्रमोहिताः ॥ २५ ॥
विश्वास-प्रस्तुतिः
वेदाचारं परित्यज्य पापं यास्यन्ति मानवाः
पापस्य मूलमेवं वै जैनधर्मं न संशयः ॥ २६ ॥
मूलम्
वेदाचारं परित्यज्य पापं यास्यन्ति मानवाः
पापस्य मूलमेवं वै जैनधर्मं न संशयः ॥ २६ ॥
विश्वास-प्रस्तुतिः
अनेन मुग्धा राजेन्द्र महामोहेन पातिताः
मानवाः पापसङ्घातास्तेषां नाशाय नान्यथा ॥ २७ ॥
मूलम्
अनेन मुग्धा राजेन्द्र महामोहेन पातिताः
मानवाः पापसङ्घातास्तेषां नाशाय नान्यथा ॥ २७ ॥
विश्वास-प्रस्तुतिः
भविष्यत्येव गोविन्दः सर्वपापापहारकः
स्वेच्छारूपं समासाद्य संहरिष्यति पातकात् ॥ २८ ॥
मूलम्
भविष्यत्येव गोविन्दः सर्वपापापहारकः
स्वेच्छारूपं समासाद्य संहरिष्यति पातकात् ॥ २८ ॥
विश्वास-प्रस्तुतिः
पापेषु सङ्गतेष्वेवं म्लेच्छनाशाय वै पुनः
कल्किरेव स्वयं देवो भविष्यति न संशयः ॥ २९ ॥
मूलम्
पापेषु सङ्गतेष्वेवं म्लेच्छनाशाय वै पुनः
कल्किरेव स्वयं देवो भविष्यति न संशयः ॥ २९ ॥
विश्वास-प्रस्तुतिः
व्यवहारं कलेश्चैव त्यज पुण्यं समाश्रय
वर्तयस्व हि सत्येन प्रजापालो भवस्व हि ॥ ३० ॥
मूलम्
व्यवहारं कलेश्चैव त्यज पुण्यं समाश्रय
वर्तयस्व हि सत्येन प्रजापालो भवस्व हि ॥ ३० ॥
विश्वास-प्रस्तुतिः
वेन उवाच-
अहं ज्ञानवतां श्रेष्ठः सर्वं ज्ञातं मया इह
योऽन्यथा वर्तते चैव स दण्ड्यो भवति ध्रुवम् ॥ ३१ ॥
मूलम्
वेन उवाच-
अहं ज्ञानवतां श्रेष्ठः सर्वं ज्ञातं मया इह
योऽन्यथा वर्तते चैव स दण्ड्यो भवति ध्रुवम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
अत्यर्थं भाषमाणं तं राजानं पापचेतनम्
कुपितास्ते महात्मानः सर्वे वै ब्रह्मणः सुताः ॥ ३२ ॥
मूलम्
अत्यर्थं भाषमाणं तं राजानं पापचेतनम्
कुपितास्ते महात्मानः सर्वे वै ब्रह्मणः सुताः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
कुपितेष्वेव विप्रेषु वेनो राजा महात्मसु
ब्रह्मशापभयात्तेषां वल्मीकं प्रविवेश ह ॥ ३३ ॥
मूलम्
कुपितेष्वेव विप्रेषु वेनो राजा महात्मसु
ब्रह्मशापभयात्तेषां वल्मीकं प्रविवेश ह ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अथ ते मुनयः क्रुद्धा वेनं पश्यन्ति सर्वतः
ज्ञात्वा प्रनष्टं भूपं तं वल्मीकस्थं सुसाम्प्रतम् ॥ ३४ ॥
मूलम्
अथ ते मुनयः क्रुद्धा वेनं पश्यन्ति सर्वतः
ज्ञात्वा प्रनष्टं भूपं तं वल्मीकस्थं सुसाम्प्रतम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
बलादानिन्युस्तं विप्राः क्रूरं तं पापचेतनम्
दृष्ट्वा च पापकर्माणं मुनयः सुसमाहिताः ॥ ३५ ॥
मूलम्
बलादानिन्युस्तं विप्राः क्रूरं तं पापचेतनम्
दृष्ट्वा च पापकर्माणं मुनयः सुसमाहिताः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सव्यं पाणिं ममन्थुस्ते भूपस्य जातमन्यवः
तस्माज्जातो महाह्रस्वो नीलवर्णो भयङ्करः ॥ ३६ ॥
मूलम्
सव्यं पाणिं ममन्थुस्ते भूपस्य जातमन्यवः
तस्माज्जातो महाह्रस्वो नीलवर्णो भयङ्करः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
बर्बरो रक्तनेत्रस्तु बाणपाणिर्धनुर्द्धरः
सर्वेषामेव पापानां निषादानां बभूव ह ॥ ३७ ॥
मूलम्
बर्बरो रक्तनेत्रस्तु बाणपाणिर्धनुर्द्धरः
सर्वेषामेव पापानां निषादानां बभूव ह ॥ ३७ ॥
विश्वास-प्रस्तुतिः
धाता पालयिता राजा म्लेच्छानां तु विशेषतः
तं दृष्ट्वा पापकर्माणमृषयस्तु महामते ॥ ३८ ॥
मूलम्
धाता पालयिता राजा म्लेच्छानां तु विशेषतः
तं दृष्ट्वा पापकर्माणमृषयस्तु महामते ॥ ३८ ॥
विश्वास-प्रस्तुतिः
ममन्थुर्दक्षिणं पाणिं वेनस्यापि महात्मनः
तस्माज्जातो महात्मा स येन दुग्धा वसुन्धरा ॥ ३९ ॥
मूलम्
ममन्थुर्दक्षिणं पाणिं वेनस्यापि महात्मनः
तस्माज्जातो महात्मा स येन दुग्धा वसुन्धरा ॥ ३९ ॥
विश्वास-प्रस्तुतिः
पृथुर्नाम महाप्राज्ञो राजराजो महाबलः
तस्य पुण्यप्रसादाच्च वेनो धर्मार्थकोविदः ॥ ४० ॥
मूलम्
पृथुर्नाम महाप्राज्ञो राजराजो महाबलः
तस्य पुण्यप्रसादाच्च वेनो धर्मार्थकोविदः ॥ ४० ॥
विश्वास-प्रस्तुतिः
चक्रवर्तिपदं भुक्त्वा प्रसादात्तस्य चक्रिणः
जगाम वैष्णवं लोकं तद्विष्णोः परमं पदम् ॥ ४१ ॥
मूलम्
चक्रवर्तिपदं भुक्त्वा प्रसादात्तस्य चक्रिणः
जगाम वैष्णवं लोकं तद्विष्णोः परमं पदम् ॥ ४१ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्यानेऽष्टत्रिंशोऽध्यायः ३८