सप्तत्रिंशोऽध्यायः 2.37
विश्वास-प्रस्तुतिः
ऋषय ऊचुः-
एवं वेनस्य चैवासीत्सृष्टिरेव महात्मनः
धर्माचारं परित्यज्य कथं पापमतिर्भवेत् ॥ १ ॥
मूलम्

सूत उवाच-
ज्ञानविज्ञानसम्पन्ना मुनयस्तत्त्ववेदिनः
शुभाशुभं वदन्त्येवं तन्न स्यादिह चान्यथा ॥ २ ॥

तप्यमानेन तेनापि सुशङ्खेन महात्मना
दत्तः शापः कथं विप्रा न यथावच्च जायते ॥ ३ ॥

वेनस्य पातकाचारं सर्वमेव वदाम्यहम्
तस्मिञ्छासति धर्मज्ञे प्रजापाले महात्मनि ॥ ४ ॥

पुरुषः कश्चिदायातश्छद्म लिङ्गधरस्तदा
नग्नरूपोवमहाकायःवशिरोमुण्डो महाप्रभः ॥ ५ ॥

मार्जनीं शिखिपत्राणां कक्षायां स हि धारयन्
गृहीतं पानपात्रं तु नालिकेरमयं करे ॥ ६ ॥

पठमानो ह्यसच्छास्त्रं वेदधर्मविदूषकम्
यत्र वेनो महाराजस्तत्रायातस्त्वरान्वितः ॥ ७ ॥

सभायां तस्य वेनस्य प्रविवेश स पापवान्
तं दृष्ट्वा समनुप्राप्तं वेनः प्रश्नं तदाकरोत् ॥ ८ ॥

भवान्को हि समायात ईदृग्रूपधरो मम
सभायां वर्तमानस्य पुरः कस्मात्समागतः ॥ ९ ॥

को वेषः किं नु ते नाम को धर्मः कर्म ते वद
को वेदस्ते क आचारः किं तपः का प्रभावना ॥ १० ॥

किं ज्ञानं कः प्रभावस्ते किं सत्यं धर्मलक्षणम्
तत्त्वं सर्वं समाचक्ष्व ममाग्रे सत्यमेव च ॥ ११ ॥

श्रुत्वा वेनस्य तद्वाक्यं पापो वाक्यमुदाहरत्
पातक उवाच-
करोष्येवं वृथा राज्यं महामूढो न संशयः ॥ १२ ॥

अहं धर्मस्य सर्वस्वमहं पूज्यतमोसुरैः
अहं ज्ञानमहं सत्यमहं धाता सनातनः ॥ १३ ॥
मूलम्
अहं धर्मस्य सर्वस्वमहं पूज्यतमोसुरैः
अहं ज्ञानमहं सत्यमहं धाता सनातनः ॥ १३ ॥
विश्वास-प्रस्तुतिः
अहं धर्मं अहं मोक्षः सर्वदेवमयो ह्यहम्
ब्रह्मदेहात्समुद्भूतः सत्यसन्धोऽस्मि नान्यथा ॥ १४ ॥

जिनरूपं विजानीहि सत्यधर्मकलेवरम्
मामेव हि प्रधावन्ति योगिनो ज्ञानतत्पराः ॥ १५ ॥

वेन उवाच-
तवैव कीदृशं कर्म किं ते दर्शनमेव च
किमाचारो वदस्वैहि इत्युक्तं तेन भूभुजा ॥ १६ ॥

अर्हन्तो देवता यत्र निर्ग्रन्थो दृश्यते गुरुः
दया चैव परो धर्मस्तत्र मोक्षः प्रदृश्यते ॥ १७ ॥

दर्शनेस्मिन्न सन्देह आचारान्प्रवदाम्यहम्
यजनं याजनं नास्ति वेदाध्ययनमेव च ॥ १८ ॥

नास्ति सन्ध्या तपो दानं स्वधास्वाहाविवर्जितम्
हव्यकव्यादिकं नास्ति नैव यज्ञादिका क्रिया ॥ १९ ॥

पितॄणां तर्पणं नास्ति नातिथिर्वैश्वदेविकम्
क्षपणस्य वरा पूजा अर्हतो ध्यानमुत्तमम् ॥ २० ॥

अयं धर्मसमाचारो जैनमार्गे प्रदृश्यते
एतत्ते सर्वमाख्यातं निजधर्मस्यलक्षणम् ॥ २१ ॥

वेदप्रोक्तो यथा धर्मो यत्र यज्ञादिकाः क्रियाः
पितॄणां तर्पणं श्राद्धं वैश्वदेवं न दृश्यते ॥ २२ ॥

न दानं तप एवास्ति क्वास्ते धर्मस्य लक्षणम्
वद सत्यं ममाग्रे तु दयाधर्मं च कीदृशम् ॥ २३ ॥

पञ्चतत्त्वप्रवृद्धोयं प्राणिनां काय एव च
आत्मा वायुस्वरूपोयं तेषां नास्ति प्रसङ्गता ॥ २४ ॥

यथा जलेषु भूतानामपिसङ्गमवेहि तत्
जायते बुद्बुदाकारं तद्वद्भूतसमागमः ॥ २५ ॥

पृथ्वीभावो रजःस्थस्तु चापस्तत्रैव संस्थिताः
ज्योतिस्तत्र प्रदृश्येत सुवायुर्वर्तते त्रिषु ॥ २६ ॥

आकाशमावृणोत्पश्चाद्बुद्बुदत्वं प्रजायते
अप्सुमध्ये प्रभात्येव सुतेजो वर्तुलं वरम् ॥ २७ ॥

क्षणमात्रं प्रदृश्येत क्षणान्नैव च दृश्यते
तद्वद्भूतसमायोगः सर्वत्र परिदृश्यते ॥ २८ ॥

अन्तकाले प्रयात्यात्मा पञ्च पञ्चसु यान्ति ते
मोहमुग्धास्ततो मर्त्या वर्तन्ते च परस्परम् ॥ २९ ॥

श्राद्धं कुर्वन्ति मोहेन क्षयाहे पितृतर्पणम्
क्वास्ते मृतः समश्नाति कीदृशोऽसौ नृपोत्तम ॥ ३० ॥

किं ज्ञानं कीदृशं कायं केन दृष्टं वदस्व नः
मिष्टान्नं भोजयित्वा च तृप्ता यान्ति च ब्राह्मणाः ॥ ३१ ॥

कस्य श्राद्धं प्रदीयेत सा तु श्रद्धा निरर्थिका
अन्यदेवं प्रवक्ष्यामि वेदानां कर्म दारुणम् ॥ ३२ ॥

यदातिथिर्गृहे याति महोक्षं पचते द्विजः
अजं वा राजराजेन्द्र अतिथिं परिभोजयेत् ॥ ३३ ॥

अश्वमेधमखे अश्वं गोमेधे वृषमेव च
नरमेधे नरं राजन्वाजपेये तथा ह्यजान् ॥ ३४ ॥

राजसूये महाराज प्राणिनां घातनं बहु
पुण्डरीके गजं हन्याद्गजमेधेऽथ कुञ्जरम् ॥ ३५ ॥

सौत्रामण्यां पशुं मेध्यं मेषमेव प्रदृश्यते
नानारूपेषु सर्वेषु श्रूयतां नृपनन्दन ॥ ३६ ॥

नानाजातिविशेषाणां पशूनां घातनं स्मृतम्
यच्चापि दीयते दानं किं तद्दानस्य लक्षणम् ॥ ३७ ॥

ज्ञेयं तदन्नमुच्छिष्टं क्रियते भूरिभोजनम्
अत्यन्तदोषहीनांस्तान्हिंसन्ति यन्महामखे ॥ ३८ ॥

तत्र किं दृश्यते धर्मः किं फलं तत्र भूपते
पशूनां मारणं यत्र निर्दिष्टं वेदपण्डितैः ॥ ३९ ॥

तस्माद्विनष्टधर्मं च न पुण्यं मोक्षदायकम्
दयां विना हि यो धर्मः स धर्मो विफलायते ॥ ४० ॥

जीवानां पालनं यत्र तत्र धर्मो न संशयः
स्वाहाकारः स्वधाकारस्तपः सत्यं नृपोत्तम ॥ ४१ ॥

दयाहीनं चापलं स्यान्नास्ति धर्मस्तु तत्र हि
एते वेदा न वेदाः स्युर्दया यत्र न विद्यते ॥ ४२ ॥

दयादानपरो नित्यं जीवमेव प्ररक्षयेत्
चाण्डालोऽप्यथ शूद्रो वा स वै ब्राह्मण उच्यते ॥ ४३ ॥

ब्राह्मणो निर्दयो यो वै पशुघातपरायणः
स वै सुनिर्दयः पापी कठिनः क्रूरचेतनः ॥ ४४ ॥

वञ्चकैः कथितो वेदो यो वेदो ज्ञानवर्जितः
यत्र ज्ञानं भवेन्नित्यं तत्र वेदः प्रतिष्ठति ॥ ४५ ॥

दयाहीनेषु वेदेषु विप्रेषु च महामते
नास्ति सत्यं क्रिया तत्र वेदविप्रेषु वै तदा ॥ ४६ ॥

वेदा न वेदा राजेन्द्र ब्राह्मणाः सत्यवर्जिताः
दानस्यापि फलं नास्ति तस्माद्दानं न दीयते ॥ ४७ ॥

यथा श्राद्धस्य वै चिह्नं तथा दानस्य लक्षणम्
जिनस्यापि च यद्धर्मं भुक्तिमुक्तिप्रदायकम् ॥ ४८ ॥

तवाग्रेऽहं प्रवक्ष्यामि बहुपुण्यप्रदायकम्
आदौ दया प्रकर्तव्या शान्तभूतेन चेतसा ॥ ४९ ॥

आराधयेद्धृदा देवं जिनं येन चराचरम्
मनसा शुद्धभावेन जिनमेकं प्रपूजयेत् ॥ ५० ॥

नमस्कारः प्रकर्तव्यस्तस्य देवस्य नान्यथा
मातापित्रोस्तु वै पादौ कदा नैव प्रवन्दयेत् ॥ ५१ ॥

अन्येषामपि का वार्ता श्रूयतां राजसत्तम
वेन उवाच-
एते विप्राश्च आचार्या गङ्गाद्याः सरितस्तथा ॥ ५२ ॥

वदन्ति पुण्यतीर्थानि बहुपुण्यप्रदानि च
तत्किं वदस्व सत्यं मे यदि धर्ममिहेच्छसि ॥ ५३ ॥

आकाशाद्वै महाराज मेघा वर्षन्ति वै जलम्
भूमौ हि पर्वतेष्वेवं सर्वत्र पतिते जलम् ॥ ५४ ॥

स आप्लाव्य ततस्तिष्ठेद्दयां सर्वत्र भावयेत्
नद्यः पापप्रवाहास्तु तासु तीर्थं श्रुतं कथम् ॥ ५५ ॥

जलाशया महाराज तडागाः सागरास्तथा
पृथिव्याधारकाश्चैव गिरयो अश्मराशयः ॥ ५६ ॥

नास्त्येतेषु च वै तीर्थं जलैर्जलदमुत्तमम्
स्नाने यदा महत्पुण्यं कस्मान्मत्स्येषु वै नहि ॥ ५७ ॥

दृष्टा स्नानेन वै सिद्धिर्मीनाः शुद्ध्यन्ति नान्यथा
यत्र जिनस्तत्र तीर्थं तत्र धर्मः सनातनः ॥ ५८ ॥

तपोदानादिकं सर्वं पुण्यं तत्र प्रतिष्ठितम् ॥ ५९ ॥

एको जिनः सर्वमयो नृपेन्द्र नास्त्येव धर्मं परमं हि तीर्थम्
अयं तु लाभः परमस्तु तस्माद्ध्य्यास्व नित्यं सुसुखो भविष्यसि ॥ ६० ॥

विनिन्द्य धर्मं सकलं सवेदं दानं सपुण्यं परयज्ञरूपम्
पापस्वभावैर्बहुबोधितो नृपस्त्वङ्गस्य पुत्रो भुवि तेन पापिना ॥ ६१ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे
वेनोपाख्याने सप्तत्रिंशोऽध्यायः ३७