सुनीथोवाच-
विश्वास-प्रस्तुतिः
सत्यमुक्तं त्वया भद्रे एवमेतत्करोम्यहम्
अनया विद्यया विप्रं मोहयिष्यामि नान्यथा ॥ १ ॥
मूलम्
सत्यमुक्तं त्वया भद्रे एवमेतत्करोम्यहम्
अनया विद्यया विप्रं मोहयिष्यामि नान्यथा ॥ १ ॥
विश्वास-प्रस्तुतिः
साहाय्यं देहि मे पुण्यं येन गच्छामि साम्प्रतम्
एवमुक्ता तया रम्भा तामुवाच मनस्विनीम् ॥ २ ॥
मूलम्
साहाय्यं देहि मे पुण्यं येन गच्छामि साम्प्रतम्
एवमुक्ता तया रम्भा तामुवाच मनस्विनीम् ॥ २ ॥
विश्वास-प्रस्तुतिः
कीदृग्ददामि साहाय्यं तत्त्वं कथय भामिनि
दूतत्वं गच्छ मे भद्रे एतं प्रति सुसाम्प्रतम् ॥ ३ ॥
मूलम्
कीदृग्ददामि साहाय्यं तत्त्वं कथय भामिनि
दूतत्वं गच्छ मे भद्रे एतं प्रति सुसाम्प्रतम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
एवमुक्तं तया तां तु रम्भां प्रति सुलोचनाम्
एवमेव प्रतिज्ञातं रम्भया देवयोषिता ॥ ४ ॥
मूलम्
एवमुक्तं तया तां तु रम्भां प्रति सुलोचनाम्
एवमेव प्रतिज्ञातं रम्भया देवयोषिता ॥ ४ ॥
विश्वास-प्रस्तुतिः
करिष्ये तव साहाय्यमादेशो मम दीयताम्
सद्भावेन विशालाक्षी रूपयौवनशालिनी ॥ ५ ॥
मूलम्
करिष्ये तव साहाय्यमादेशो मम दीयताम्
सद्भावेन विशालाक्षी रूपयौवनशालिनी ॥ ५ ॥
विश्वास-प्रस्तुतिः
मायया दिव्यरूपा सा सम्बभूव वरानना
रूपेणाप्रतिमालोके मोहयन्ती जगत्त्रयम् ॥ ६ ॥
मूलम्
मायया दिव्यरूपा सा सम्बभूव वरानना
रूपेणाप्रतिमालोके मोहयन्ती जगत्त्रयम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
मेरोश्चैव महापुण्ये शिखरे चारुकन्दरे
नानाधातुसमाकीर्णे नानारत्नोपशोभिते ॥ ७ ॥
मूलम्
मेरोश्चैव महापुण्ये शिखरे चारुकन्दरे
नानाधातुसमाकीर्णे नानारत्नोपशोभिते ॥ ७ ॥
विश्वास-प्रस्तुतिः
देववृक्षैः समाकीर्णे बहुपुष्पोपशोभिते
देववृन्दसमाकीर्णे गन्धर्वाप्सरसेविते ॥ ८ ॥
मूलम्
देववृक्षैः समाकीर्णे बहुपुष्पोपशोभिते
देववृन्दसमाकीर्णे गन्धर्वाप्सरसेविते ॥ ८ ॥
विश्वास-प्रस्तुतिः
मनोहरे सुरम्ये च शीतच्छायासमाकुले
चन्दनानामशोकानां तरूणां चारुहासिनी ॥ ९ ॥
मूलम्
मनोहरे सुरम्ये च शीतच्छायासमाकुले
चन्दनानामशोकानां तरूणां चारुहासिनी ॥ ९ ॥
विश्वास-प्रस्तुतिः
दोलायां सा समारूढा सर्वशृङ्गारशोभिता
कौशेयेन सुनीलेन राजमाना वरानना ॥ १० ॥
मूलम्
दोलायां सा समारूढा सर्वशृङ्गारशोभिता
कौशेयेन सुनीलेन राजमाना वरानना ॥ १० ॥
विश्वास-प्रस्तुतिः
बन्धूकपुष्पवर्णेन कञ्चुकेन द्विजोत्तम
सर्वाङ्गसुन्दरी बाला वीणातालकराविला ॥ ११ ॥
मूलम्
बन्धूकपुष्पवर्णेन कञ्चुकेन द्विजोत्तम
सर्वाङ्गसुन्दरी बाला वीणातालकराविला ॥ ११ ॥
विश्वास-प्रस्तुतिः
गायमाना वरं गीतं सुस्वरं विश्वमोहनम्
ताभिः परिवृता बाला सखीभिः सुमनोहरा ॥ १२ ॥
मूलम्
गायमाना वरं गीतं सुस्वरं विश्वमोहनम्
ताभिः परिवृता बाला सखीभिः सुमनोहरा ॥ १२ ॥
विश्वास-प्रस्तुतिः
अङ्गस्तु कन्दरे पुण्ये एकान्ते ध्यानमास्थितः
कामक्रोधविहीनस्तु ध्यायमानो जनार्दनम् ॥ १३ ॥
मूलम्
अङ्गस्तु कन्दरे पुण्ये एकान्ते ध्यानमास्थितः
कामक्रोधविहीनस्तु ध्यायमानो जनार्दनम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
स श्रुत्वा सुस्वरं गीतं मधुरं सुमनोहरम्
तालमानक्रियोपेतं सर्वसत्वविकर्षणम् ॥ १४ ॥
मूलम्
स श्रुत्वा सुस्वरं गीतं मधुरं सुमनोहरम्
तालमानक्रियोपेतं सर्वसत्वविकर्षणम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
ध्यानाच्चचाल तेजस्वी मायागीतेन मोहितः
समुत्थायासनात्तूर्णं वीक्षमाणो मुहुर्मुहुः ॥ १५ ॥
मूलम्
ध्यानाच्चचाल तेजस्वी मायागीतेन मोहितः
समुत्थायासनात्तूर्णं वीक्षमाणो मुहुर्मुहुः ॥ १५ ॥
विश्वास-प्रस्तुतिः
जगाम तत्र वेगेन मायाचलितमानसः
दोलासंस्थां विलोक्यैव वीणादण्डकराविलाम् ॥ १६ ॥
मूलम्
जगाम तत्र वेगेन मायाचलितमानसः
दोलासंस्थां विलोक्यैव वीणादण्डकराविलाम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
हसमानां सुगायन्तीं पूर्णचन्द्रनिभाननाम्
मोहितस्तेन गीतेन रूपेणापि महायशाः ॥ १७ ॥
मूलम्
हसमानां सुगायन्तीं पूर्णचन्द्रनिभाननाम्
मोहितस्तेन गीतेन रूपेणापि महायशाः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तस्या लावण्यभावेन मन्मथस्य शराहतः
आकुलव्याकुलज्ञान ऋषिपुत्रो द्विजोत्तमः ॥ १८ ॥
मूलम्
तस्या लावण्यभावेन मन्मथस्य शराहतः
आकुलव्याकुलज्ञान ऋषिपुत्रो द्विजोत्तमः ॥ १८ ॥
विश्वास-प्रस्तुतिः
प्रलपत्यतिमोहेन जृम्भते च पुनः पुनः
स्वेदः कम्पोथ सन्तापस्तस्याजायत तत्क्षणात् ॥ १९ ॥
मूलम्
प्रलपत्यतिमोहेन जृम्भते च पुनः पुनः
स्वेदः कम्पोथ सन्तापस्तस्याजायत तत्क्षणात् ॥ १९ ॥
विश्वास-प्रस्तुतिः
मुह्यन्निव महामोहैर्ग्लानश्चलितमानसः
वेपमानस्ततस्त्वङ्गो दूयमानः समागतः ॥ २० ॥
मूलम्
मुह्यन्निव महामोहैर्ग्लानश्चलितमानसः
वेपमानस्ततस्त्वङ्गो दूयमानः समागतः ॥ २० ॥
विश्वास-प्रस्तुतिः
तामालोक्य विशालाक्षीं मृत्युकन्यां यशस्विनीम्
अथोवाच महात्मा स सुनीथां चारुहासिनीम् ॥ २१ ॥
मूलम्
तामालोक्य विशालाक्षीं मृत्युकन्यां यशस्विनीम्
अथोवाच महात्मा स सुनीथां चारुहासिनीम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
का त्वं कस्य वरारोहे सखीभिः परिवारिता
केन कार्येण सम्प्राप्ता केन त्वं प्रेषिता वनम् ॥ २२ ॥
मूलम्
का त्वं कस्य वरारोहे सखीभिः परिवारिता
केन कार्येण सम्प्राप्ता केन त्वं प्रेषिता वनम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
तवाङ्गं सुन्दरं सर्वमत्र भाति महावने
समाचक्ष्व ममाद्यैव प्रसादसुमुखी भव ॥ २३ ॥
मूलम्
तवाङ्गं सुन्दरं सर्वमत्र भाति महावने
समाचक्ष्व ममाद्यैव प्रसादसुमुखी भव ॥ २३ ॥
विश्वास-प्रस्तुतिः
मायामोहेन सम्मुग्धस्तस्याः कर्म न विन्दति
मार्गणैर्मन्मथस्यापि परिविद्धो महामुनिः ॥ २४ ॥
मूलम्
मायामोहेन सम्मुग्धस्तस्याः कर्म न विन्दति
मार्गणैर्मन्मथस्यापि परिविद्धो महामुनिः ॥ २४ ॥
विश्वास-प्रस्तुतिः
एवंविधं महद्वाक्यं समाकर्ण्य महामतेः
नोवाच किञ्चित्सा विप्रं समालोक्य सखीमुखम् ॥ २५ ॥
मूलम्
एवंविधं महद्वाक्यं समाकर्ण्य महामतेः
नोवाच किञ्चित्सा विप्रं समालोक्य सखीमुखम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
रम्भां च प्रेरयामास सुनीथा सञ्ज्ञया सखीम्
समुवाच ततो रम्भा सादरं तं द्विजं प्रति ॥ २६ ॥
मूलम्
रम्भां च प्रेरयामास सुनीथा सञ्ज्ञया सखीम्
समुवाच ततो रम्भा सादरं तं द्विजं प्रति ॥ २६ ॥
विश्वास-प्रस्तुतिः
इयं कन्या महाभागा मृत्योश्चापि महात्मनः
सुनीथाख्या प्रसिद्धेयं सर्वलक्षणसम्पदा ॥ २७ ॥
मूलम्
इयं कन्या महाभागा मृत्योश्चापि महात्मनः
सुनीथाख्या प्रसिद्धेयं सर्वलक्षणसम्पदा ॥ २७ ॥
विश्वास-प्रस्तुतिः
पतिमन्विच्छती बाला धर्मवन्तं तपोनिधिम्
शान्तं दान्तं महाप्राज्ञं वेदविद्याविशारदम् ॥ २८ ॥
मूलम्
पतिमन्विच्छती बाला धर्मवन्तं तपोनिधिम्
शान्तं दान्तं महाप्राज्ञं वेदविद्याविशारदम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
एवंविधं महद्वाक्यं समाकर्ण्य महामुनिः
तामुवाच ततस्त्वङ्गो रम्भामप्सरसां वराम् ॥ २९ ॥
मूलम्
एवंविधं महद्वाक्यं समाकर्ण्य महामुनिः
तामुवाच ततस्त्वङ्गो रम्भामप्सरसां वराम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
मया चाराधितो विष्णुः सर्वविश्वमयो हरिः
तेन दत्तो वरो मह्यं पुत्राख्यः सर्वसिद्धिदः ॥ ३० ॥
मूलम्
मया चाराधितो विष्णुः सर्वविश्वमयो हरिः
तेन दत्तो वरो मह्यं पुत्राख्यः सर्वसिद्धिदः ॥ ३० ॥
विश्वास-प्रस्तुतिः
तन्निमित्तमहं भद्रे सुतार्थं नित्यमेव च
कस्यचित्पुण्यवीर्यस्य कन्यामेकां प्रचिन्तये ॥ ३१ ॥
मूलम्
तन्निमित्तमहं भद्रे सुतार्थं नित्यमेव च
कस्यचित्पुण्यवीर्यस्य कन्यामेकां प्रचिन्तये ॥ ३१ ॥
विश्वास-प्रस्तुतिः
सदैवाहं न पश्यामि सुभार्यां सत्यमीदृशीम्
इयं धर्मस्य वै कन्या धर्माचारा वरानना ॥ ३२ ॥
मूलम्
सदैवाहं न पश्यामि सुभार्यां सत्यमीदृशीम्
इयं धर्मस्य वै कन्या धर्माचारा वरानना ॥ ३२ ॥
विश्वास-प्रस्तुतिः
मामेवं हि भजत्वेषा यदि कान्तमिहेच्छति
यं यमिच्छेदियं बाला तं ददामि न संशयः ॥ ३३ ॥
मूलम्
मामेवं हि भजत्वेषा यदि कान्तमिहेच्छति
यं यमिच्छेदियं बाला तं ददामि न संशयः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अदेयं देयमित्याह अस्याः सङ्गमकारणात्
एकमेवं त्वया देयं श्रूयतां द्विजसत्तम ॥ ३४ ॥
मूलम्
अदेयं देयमित्याह अस्याः सङ्गमकारणात्
एकमेवं त्वया देयं श्रूयतां द्विजसत्तम ॥ ३४ ॥
विश्वास-प्रस्तुतिः
रम्भोवाच-
विप्रेन्द्र त्वं शृणुष्वेह प्रतिज्ञां वच्मि साम्प्रतम्
एषा नैव त्वया त्याज्या धर्मपत्नी तवैव हि ॥ ३५ ॥
मूलम्
रम्भोवाच-
विप्रेन्द्र त्वं शृणुष्वेह प्रतिज्ञां वच्मि साम्प्रतम्
एषा नैव त्वया त्याज्या धर्मपत्नी तवैव हि ॥ ३५ ॥
विश्वास-प्रस्तुतिः
अस्या दोषो गुणो नैव ग्राह्य एव त्वया कदा
इत्यर्थे प्रत्ययं विप्र प्रत्यक्षं परिदर्शय ॥ ३६ ॥
मूलम्
अस्या दोषो गुणो नैव ग्राह्य एव त्वया कदा
इत्यर्थे प्रत्ययं विप्र प्रत्यक्षं परिदर्शय ॥ ३६ ॥
विश्वास-प्रस्तुतिः
स्वहस्तं देहि विप्रेन्द्र सत्यप्रत्ययकारकम्
एवमस्तु मया दत्तो ह्यस्या हस्तो न संशयः ॥ ३७ ॥
मूलम्
स्वहस्तं देहि विप्रेन्द्र सत्यप्रत्ययकारकम्
एवमस्तु मया दत्तो ह्यस्या हस्तो न संशयः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
एवं सम्बधिकं कृत्वा सत्यप्रत्ययकारकम्
गान्धर्वेण विवाहेन सुनीथामुपयेमिवान् ॥ ३८ ॥
मूलम्
सूत उवाच-
एवं सम्बधिकं कृत्वा सत्यप्रत्ययकारकम्
गान्धर्वेण विवाहेन सुनीथामुपयेमिवान् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तस्मै दत्वा सुनीथां तां रम्भा हृष्टेन चेतसा
सा तां चामन्त्रयित्वा वै गता गेहं स्वकं पुनः ॥ ३९ ॥
मूलम्
तस्मै दत्वा सुनीथां तां रम्भा हृष्टेन चेतसा
सा तां चामन्त्रयित्वा वै गता गेहं स्वकं पुनः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
प्रहृष्टचेतसः सख्यः स्वस्थानं परिजग्मिरे
गतासु तासु सर्वासु सखीषु द्विजसत्तमः ॥ ४० ॥
मूलम्
प्रहृष्टचेतसः सख्यः स्वस्थानं परिजग्मिरे
गतासु तासु सर्वासु सखीषु द्विजसत्तमः ॥ ४० ॥
विश्वास-प्रस्तुतिः
रेमे त्वङ्गस्तया सार्धं प्रियया भार्यया सह
तस्यामुत्पाद्य तनयं सर्वलक्षणसंयुतम् ॥ ४१ ॥
मूलम्
रेमे त्वङ्गस्तया सार्धं प्रियया भार्यया सह
तस्यामुत्पाद्य तनयं सर्वलक्षणसंयुतम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
चकार नाम तस्यैव वेनाख्यं तनयस्य हि
ववृधे स महातेजाः सुनीथातनयस्तदा ॥ ४२ ॥
मूलम्
चकार नाम तस्यैव वेनाख्यं तनयस्य हि
ववृधे स महातेजाः सुनीथातनयस्तदा ॥ ४२ ॥
विश्वास-प्रस्तुतिः
वेदशास्त्रमधीत्यैव धनुर्वेदं गुणान्वितम्
सर्वासामपि मेधावी विद्यानां पारमेयिवान् ॥ ४३ ॥
मूलम्
वेदशास्त्रमधीत्यैव धनुर्वेदं गुणान्वितम्
सर्वासामपि मेधावी विद्यानां पारमेयिवान् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अङ्गस्य तनयो वेनः शिष्टाचारेण वर्तते
स वेनो ब्राह्मणश्रेष्ठः क्षत्त्राचारपरोऽभवत् ॥ ४४ ॥
मूलम्
अङ्गस्य तनयो वेनः शिष्टाचारेण वर्तते
स वेनो ब्राह्मणश्रेष्ठः क्षत्त्राचारपरोऽभवत् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
दिवि चेन्द्रो यथा भाति सर्वतेजःसमन्वितः
भात्येवं तु महाप्राज्ञः स्वबलेन पराक्रमैः ॥ ४५ ॥
मूलम्
दिवि चेन्द्रो यथा भाति सर्वतेजःसमन्वितः
भात्येवं तु महाप्राज्ञः स्वबलेन पराक्रमैः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
चाक्षुषस्यान्तरे प्राप्ते वैवस्वतसमागते
प्रजापालं विना लोके प्रजाः सीदन्ति सर्वदा ॥ ४६ ॥
मूलम्
चाक्षुषस्यान्तरे प्राप्ते वैवस्वतसमागते
प्रजापालं विना लोके प्रजाः सीदन्ति सर्वदा ॥ ४६ ॥
विश्वास-प्रस्तुतिः
ऋषयो धर्मतत्त्वज्ञाः प्रजाहेतोस्तपोधनाः
व्यचिन्तयन्महीपालं धर्मज्ञं सत्यपण्डितम् ॥ ४७ ॥
मूलम्
ऋषयो धर्मतत्त्वज्ञाः प्रजाहेतोस्तपोधनाः
व्यचिन्तयन्महीपालं धर्मज्ञं सत्यपण्डितम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
तं वेनमेव ददृशुः सम्पन्नं लक्षणैर्युतम्
प्राजापत्ये पदे पुण्ये अभ्यषिञ्चन्द्विजोत्तमाः ॥ ४८ ॥
मूलम्
तं वेनमेव ददृशुः सम्पन्नं लक्षणैर्युतम्
प्राजापत्ये पदे पुण्ये अभ्यषिञ्चन्द्विजोत्तमाः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
अभिषिक्ते महाभागे त्वङ्गपुत्रे तदा नृपे
ते प्रजापतयः सर्वे जग्मुश्चैव तपोवनम् ॥ ४९ ॥
मूलम्
अभिषिक्ते महाभागे त्वङ्गपुत्रे तदा नृपे
ते प्रजापतयः सर्वे जग्मुश्चैव तपोवनम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
गतेषु तेषु सर्वेषु वेनो राज्यमकारयत्
सूत उवाच-
सा सुनीथा सुतं दृष्ट्वा सर्वराज्यप्रसाधकम् ॥ ५० ॥
मूलम्
गतेषु तेषु सर्वेषु वेनो राज्यमकारयत्
सूत उवाच-
सा सुनीथा सुतं दृष्ट्वा सर्वराज्यप्रसाधकम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
विशङ्कते प्रभावेण शापात्तस्य महात्मनः
मम पुत्रो महाभागो धर्मत्राता भविष्यति ॥ ५१ ॥
मूलम्
विशङ्कते प्रभावेण शापात्तस्य महात्मनः
मम पुत्रो महाभागो धर्मत्राता भविष्यति ॥ ५१ ॥
विश्वास-प्रस्तुतिः
इत्येवं चिन्तयेन्नित्यं पूर्वपापाद्विशङ्किता
धर्माङ्गानि सुपुण्यानि सुताग्रे परिदर्शयेत् ॥ ५२ ॥
मूलम्
इत्येवं चिन्तयेन्नित्यं पूर्वपापाद्विशङ्किता
धर्माङ्गानि सुपुण्यानि सुताग्रे परिदर्शयेत् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
सत्यभावादि कान्पुण्यान्गुणान्सा वै प्रकाशयेत्
इत्युवाच सुतं सा हि अहं धर्मसुता सुत ॥ ५३ ॥
मूलम्
सत्यभावादि कान्पुण्यान्गुणान्सा वै प्रकाशयेत्
इत्युवाच सुतं सा हि अहं धर्मसुता सुत ॥ ५३ ॥
विश्वास-प्रस्तुतिः
पिता ते धर्मतत्त्वज्ञस्तस्माद्धर्मं समाचर
इत्येवं बोधयेन्नित्यं पुत्रं वेनं तदा सती ॥ ५४ ॥
मूलम्
पिता ते धर्मतत्त्वज्ञस्तस्माद्धर्मं समाचर
इत्येवं बोधयेन्नित्यं पुत्रं वेनं तदा सती ॥ ५४ ॥
विश्वास-प्रस्तुतिः
मातापित्रोस्तयोर्वाक्यं प्रजायुक्तं प्रपालयेत्
एवं वेनः प्रजापालः सञ्जातःक्षितिमण्डले ॥ ५५ ॥
मूलम्
मातापित्रोस्तयोर्वाक्यं प्रजायुक्तं प्रपालयेत्
एवं वेनः प्रजापालः सञ्जातःक्षितिमण्डले ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सुखेन जीवते लोकःप्रजाधर्मेणरञ्जिताः
एवं राज्यप्रभावं तु वेनस्यापि महात्मनः ॥ ५६ ॥
मूलम्
सुखेन जीवते लोकःप्रजाधर्मेणरञ्जिताः
एवं राज्यप्रभावं तु वेनस्यापि महात्मनः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
धर्मभावाः प्रवर्तन्ते तस्मिञ्छासति पार्थिवे ॥ ५७ ॥
मूलम्
धर्मभावाः प्रवर्तन्ते तस्मिञ्छासति पार्थिवे ॥ ५७ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने षट्त्रिंशोऽध्यायः ३६