०३५

रम्भोवाच-

विश्वास-प्रस्तुतिः

ब्रह्मा अव्यक्तसम्भूतस्तस्माज्जज्ञे प्रजापतिः
अत्रिर्नाम स धर्मात्मा तस्य पुत्रो महामनाः ॥ १ ॥

मूलम्

अङ्गो नाम अयं भद्रे नन्दनं वनमागतः
इन्द्रस्य सम्पदं दृष्ट्वा लीलातेजसमुत्तमाम् ॥ २ ॥

कृता स्पृहा अनेनापि इन्द्रस्य सदृशे पदे
ईदृशो हि यदा पुत्रो मम स्याद्धर्मसंयुतः ॥ ३ ॥

सुश्रेयो मे भवेज्जन्म यशः कीर्ति समन्वितम्
आराधितो हृषीकेशस्तपोभिर्नियमैस्तथा ॥ ४ ॥

सुप्रसन्ने हृषीकेशे वरं याचितवानयम्
इन्द्रस्य सदृशं पुत्रं विष्णुतेजः पराक्रमम् ॥ ५ ॥

वैष्णवं सर्वपापघ्नं देहि मे मधुसूदन
दत्तवान्स तदा पुत्रमीदृशं सर्वधारकम् ॥ ६ ॥

तदाप्रभृति विप्रेन्द्रः पुण्यां कन्यां प्रपश्यति
यथा त्वं चारुसर्वाङ्गी तथायं परिपश्यति ॥ ७ ॥

एनं गच्छ वरारोहे अस्मात्पुत्रो भविष्यति
पुण्यात्मा पुण्यधर्मज्ञो विष्णुतेजः पराक्रमः ॥ ८ ॥

एतत्ते सर्वमाख्यातं तथाहं पृच्छिता त्वया
अयं भर्ता भवत्यर्हो भवेदेव न संशयः ॥ ९ ॥

सुशङ्खस्यापि यः शापो वृथा सोऽपि भविष्यति
अस्माज्जाते महाभागे पुत्रे धर्मप्रचारिणि ॥ १० ॥

भविष्यसि सुखी भद्रे सत्यं सत्यं वदाम्यहम्
सुक्षेत्रे कृषिकारस्तु बीजं वपति तत्परः ॥ ११ ॥

स तथा भुञ्जते देवि यथा बीजं तथा फलम्
अन्यथा नैव जायेत तत्सर्वं सदृशं भवेत् ॥ १२ ॥

अयमेष महाभागस्तपस्वी पुण्यवीर्यवान्
अस्य वीर्यात्समुत्पन्नो अस्यैवगुणसम्पदा ॥ १३ ॥

युक्तः पुत्रो महातेजाःसर्वदेहभृतां वरः
भविष्यति महाभाग्यो युक्तात्मा योगतत्ववित् ॥ १४ ॥

एवं हि वाक्यं तु निशम्य बाला रम्भाप्रियोक्तं शिवदायकं तत्
विचिन्त्य बुद्ध्येह सुनीथया तदा तत्त्वार्थमेतत्परिसत्यमेव हि ॥ १५ ॥

इति श्रीपद्मपुराणे भूमिखण्डेवेनोपाख्याने पञ्चत्रिंशोऽध्यायः ३५