सूत उवाच-
विश्वास-प्रस्तुतिः
यथा शप्ता वने पूर्वं सुशङ्खेन महात्मना
तासु सर्वं समाख्यातं सखीष्वेव विचेष्टितम् ॥ १ ॥
मूलम्

आत्मनश्च महाभागा दुःखेनातिप्रपीडिता
सुनीथोवाच-
अन्यच्चैव प्रवक्ष्यामि सख्यः शृण्वन्तु साम्प्रतम् ॥ २ ॥

मदीयरूपसम्पत्ति वयः सगुणसम्पदः
विलोक्य तातश्चिन्तात्मा सञ्जातो मम कारणात् ॥ ३ ॥

देवेभ्यो दातुकामोऽसौ मुनिभ्यस्तु महायशाः
मां च हस्ते विगृह्यैव सर्वान्वाक्यमुदाहरत् ॥ ४ ॥

गुणयुक्ता सुता बाला ममेयं चारुलोचना
दातुकामोस्मि भद्रं वो गुणिने सुमहात्मने ॥ ५ ॥

मृत्योर्वाक्यं ततो देवा ऋषयः शुश्रुवुस्तदा
तमूचुर्भाषमाणं ते देवा इन्द्र पुरोगमाः ॥ ६ ॥

तव कन्या गुणाढ्येयं शीलानां परमो निधिः
दोषेणैकेन सन्दुष्टा ऋषिशापेन तेन वै ॥ ७ ॥

अस्यामुत्पत्स्यते पुत्रो यस्य वीर्यात्पुमान्किल
भविता स महापापी पुण्यवंशविनाशकः ॥ ८ ॥

गङ्गातोयेन सम्पूर्णः कुम्भ एव प्रदृश्यते
सुरायाबिन्दुनालिप्तो मद्यकुम्भः प्रजायते ॥ ९ ॥

पापस्य पापसंसर्गात्कुलं पापि प्रजायते
आरनालस्य वै बिन्दुः क्षीरमध्ये प्रयाति चेत् ॥ १० ॥

पश्चान्नाशयते क्षीरमात्मरूपं प्रकाशयेत्
तद्वद्विनाशयेद्वंशं पापः पुत्रो न संशयः ॥ ११ ॥

अनेनापि हि दोषेण तवेयं पापभागिनी
अन्यस्मै दीयतां गच्छ देवैरुक्तः पिता मम ॥ १२ ॥

देवैश्चापि सगन्धर्वैर्ऋषिभिश्च महात्मभिः
तैश्चापि सम्परित्यक्तः पिता मे दुःखपीडितः ॥ १३ ॥

ममान्ये चापि स्वीकारं न कुर्वन्ति हि सज्जनाः
एवं पापमयं कर्म मया चैव पुरा कृतम् ॥ १४ ॥

सन्तप्ता दुःखशोकेन वनमेव समाश्रिता
तप एव चरिष्यामि करिष्ये कायशोषणम् ॥ १५ ॥

भवतीभिः सुपृष्टाहं कार्यकारणमेव हि
मम चिन्तानुगं कर्म मया तद्वः प्रकाशितम् ॥ १६ ॥

एवमुक्त्वा सुनीथा सा मृत्योः कन्या यशस्विनी
विरराम च दुःखार्ता किञ्चिन्नोवाच वै पुनः ॥ १७ ॥

सख्य ऊचुः-
दुःखमेव महाभागे त्यज कायविनाशनम्
नास्ति कस्य कुले दोषो देवैः पापं समाश्रितम् ॥ १८ ॥

जिह्ममुक्तं पुरा तेन ब्रह्मणा हरसन्निधौ
देवैश्चापि स हि त्यक्तो ब्रह्माऽपूज्यतमोऽभवत् ॥ १९ ॥

ब्रह्महत्या प्रयुक्तोऽसौ देवराजोपि पश्य भोः
देवैः सार्धं महाभागस्त्रैलोक्यं परिभुञ्जति ॥ २० ॥

गौतमस्य प्रियां भार्यामहल्यां गतवान्पुरा
परदाराभिगामी स देवत्वे परिवर्त्तते ॥ २१ ॥

ब्रह्महत्योपमं कर्म दारुणं कृतवान्हरः
ब्रह्मणस्तु कपालेन चाद्यापि परिवर्तते ॥ २२ ॥

देवानमन्तितं देवमृषयो वेदपारगाः
आदित्यः कुष्ठसंयुक्तस्त्रैलोक्यं च प्रकाशयेत् ॥ २३ ॥

लोकानमन्तितं देवं देवाद्याः सचराचराः
कृष्णो भुङ्क्ते महाशापं भार्गवेण कृतं पुरा ॥ २४ ॥

गुरुभार्याङ्गतश्चन्द्रः क्षयी तेन प्रजायते
भविष्यति महातेजा राजराजः प्रतापवान् ॥ २५ ॥

पाण्डुपुत्रो महाप्राज्ञो धर्मात्मा स युधिष्ठिरः
गुरोश्चैव वधार्थाय अनृतं स वदिष्यति ॥ २६ ॥

एतेष्वेव महत्पापं वर्तते च महत्सु च
वैगुण्यं कस्य वै नास्ति कस्य नास्ति च लाञ्छनम् ॥ २७ ॥

भवती स्वल्पदोषेण विलिप्तासि वरानने
उपकारं करिष्यामस्तवैव वरवर्णिनि ॥ २८ ॥
मूलम्
भवती स्वल्पदोषेण विलिप्तासि वरानने
उपकारं करिष्यामस्तवैव वरवर्णिनि ॥ २८ ॥
विश्वास-प्रस्तुतिः
तवाङ्गे ये गुणाः सन्ति सत्यस्त्रीणां यथा शुभे
अन्यत्रापि न पश्यामस्तान्गुणांश्चारुलोचने ॥ २९ ॥

रूपमेव गुणः स्त्रीणां प्रथमं भूषणं शुभे
शीलमेव द्वितीयं च तृतीयं सत्यमेव च ॥ ३० ॥

आर्जवत्वं चतुर्थं च पञ्चमं धर्ममेव हि
मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने ॥ ३१ ॥

शुद्धत्वं सप्तमं बाले अन्तर्बाह्येषु योषितम्
अष्टमं हि पितुर्भावः शुश्रूषा नवमं किल ॥ ३२ ॥

सहिष्णुर्दशमं प्रोक्तं रतिश्चैकादशं तथा
पातिव्रत्यं ततः प्रोक्तं द्वादशं वरवर्णिनि ॥ ३३ ॥

तैस्त्वं सम्भूषिता बाले मा बिभेषि वरानने
येनोपायेन ते भर्ता भविष्यति सुधर्मधृक् ॥ ३४ ॥

तमुपायं प्रपश्यामस्तवार्थं वयमेव हि
तामूचुस्ता वराः सख्यो मा त्वं वै साहसं कुरु ॥ ३५ ॥

एवमुक्ता सुनीथा सा पुनरूचे सखीस्तु ताः
कथयध्वं ममोपायं येन भर्ता भविष्यति ॥ ३६ ॥

तामूचुस्ता वरा नार्यो रम्भाद्याश्चारुलोचनाः
रूपमाधुर्यसंयुक्ता भवती भूतिवर्द्धनी ॥ ३७ ॥

ब्रह्मशापेन सम्भीता वयमत्र समागताः
तां प्रोचुश्च विशालाक्षीं मृत्योः कन्यां सुलोचनाम् ॥ ३८ ॥

विद्यामेकां प्रदास्यामः पुरुषाणां प्रमोहिनीम्
सर्वमायाविदां भद्रे सर्वभद्रप्रदायिनीम् ॥ ३९ ॥

विद्याबलं ततो दद्युस्तस्यैताः सुखदायकम्
यं यं मोहयितुं भद्रे इच्छस्येवं सुरादिकम् ॥ ४० ॥

तं तं सद्यो मोहय वा इत्युक्ता सा तथाऽकरोत्
विद्यायां हि सुसिद्धायां सा सुनीथा सुनन्दिता ॥ ४१ ॥

भ्रमत्येवं सखीभिस्तु पुरुषान्सा विपश्यति
अटमानागता पुण्यं नन्दनं वनमुत्तमम् ॥ ४२ ॥

गङ्गातीरे ततो दृष्ट्वा ब्राह्मणं रूपसंयुतम्
सर्वलक्षणसम्पन्नं सूर्यतेजः समप्रभम् ॥ ४३ ॥

रूपेणाप्रतिमं लोके द्वितीयमिव मन्मथम्
देवरूपं महाभागं भाग्यवन्तं सुभाग्यदम् ॥ ४४ ॥

अनौपम्यं महात्मानं विष्णुतेजः समप्रभम्
वैष्णवं सर्वपापघ्नं विष्णुतुल्यपराक्रमम् ॥ ४५ ॥

कामक्रोधविहीनं तमत्रिवंशविभूषणम् ॥ ४६ ॥
मूलम्
कामक्रोधविहीनं तमत्रिवंशविभूषणम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा सुरूपं तपसां स्वरूपं दिव्यप्रभावं परितप्यमानम्
पप्रच्छ रम्भां सुसखीं सरागा कोयं दिविष्ठः प्रवरो महात्मा ॥ ४७ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने चतुस्त्रिंशोऽध्यायः ३४