०३३

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

शप्ता गन्धर्वपुत्रेण सुशङ्खेन महात्मना
तस्य शापात्कथं जाता किं किं कर्म कृतं तया ॥ १ ॥

मूलम्

सा लेभे कीदृशं पुत्रं तस्य शापाद्द्विजोत्तम
सुनीथायाश्च चरितं त्वं नो विस्तरतो वद ॥ २ ॥

सूत उवाच-
सुशङ्खेनापि तेनैव सा शप्ता तनुमध्यमा
पितुः स्थानं गता सा तु सुनीथा दुःखपीडिता ॥ ३ ॥

पितरं चात्मनश्चैव चरितं च प्रकाशितम्
श्रुतवान्सोपि धर्मात्मा मृत्युः सत्यवतां वर ॥ ४ ॥

तामुवाच सुनीथां तु सुतां शप्तां महात्मना
भवत्या दुष्कृतं पापं धर्म तेजः प्रणाशनम् ॥ ५ ॥

कस्मात्कृतं महाभागे सुशान्तस्य हि ताडनम्
विरुद्धं सर्वलोकस्य भवत्या परिकल्पितम् ॥ ६ ॥

कामक्रोधविहीनं तं सुशान्तं धर्मवत्सलम्
तपोमार्गे विलीनं च परब्रह्मणि संस्थितम् ॥ ७ ॥

तमेवघातयेद्यो वै तस्य पापं शृणुष्व हि
पापात्मा जायते पुत्रः किल्बिषं लभते बहु ॥ ८ ॥

ताडन्तं ताडयेद्यो वै क्रोशन्तं क्रोशयेत्पुनः
तस्य पापं स वै भुङ्क्ते ताडितस्य न संशयः ॥ ९ ॥

स वै शान्तः स जितात्मा ताडयन्तं न ताडयेत्
निर्दोषं प्रति येनापि ताडनं च कृतं सुते ॥ १० ॥

पश्चान्मोहेन पापेन निर्दोषेऽपि च ताडयेत्
निर्दोषं प्रति येनापि हृद्रोगः क्रियते वृथा ॥ ११ ॥

निर्दोषं ताडयेत्पश्चान्मोहात्पापेन केनचित्
स पापी पापमाप्नोति निर्दोषस्य शरीरजम् ॥ १२ ॥

निर्दोषो घातयेत्तं वै ताडन्तं पापचेतसम्
पुनरुत्थाय वेगेन साहसात्पापचेतनम् ॥ १३ ॥

पापकर्तुश्च यत्पापं निर्दोषं प्रति गच्छति
ताडनं नैव तस्माद्वै कार्यं दोषवतोऽपि च ॥ १४ ॥

दुष्कृतं च महत्पुत्रि त्वयैव परिपालितम्
शप्ता तेनापि याद्यैव तस्मात्पुण्यं समाचर ॥ १५ ॥

सतां सङ्गं समासाद्य सदैव परिवर्तय
योगध्यानेन ज्ञानेन परिवर्तय नन्दिनि ॥ १६ ॥

सतां सङ्गो महापुण्यो बहुश्रेयो विधायकः
बाले पश्य सुदृष्टान्तं सतां सङ्गस्य यद्गुणम् ॥ १७ ॥

अपां संस्पर्शनात्पानात्स्नानात्तत्र महाधियः
मुनयः सिद्धिमायान्ति बाह्याभ्यन्तरक्षालिताः ॥ १८ ॥

शुचिष्मन्तो भवन्त्येते लोकाः सर्वे चराचराः
आपः शान्ताः सुशीताश्च मृदुगात्राः प्रियङ्कराः ॥ १९ ॥

निर्मला रसवत्यश्च पुण्यवीर्या मलापहाः
तथा सन्तस्त्वया ज्ञेया निषेव्याश्च प्रयत्नतः ॥ २० ॥

यथा वह्निप्रसङ्गाच्च मलं त्यजति काञ्चनम्
तथा सतां हि संसर्गात्पापं त्यजति मानवः ॥ २१ ॥

सत्यवह्निः प्रदीप्तश्च प्रज्वलेत्पुण्यतेजसा
सत्येन दीप्ततेजास्तु ज्ञानेनापि सुनिर्मलः ॥ २२ ॥

अत्युष्णो ध्यानभावेन अस्पृश्यः पापजैर्नरैः
सत्यवह्नेः प्रसङ्गाच्च पापं सर्वं विनश्यति ॥ २३ ॥

तस्मात्सत्यस्य संसर्गः कर्तव्यः सर्वथा त्वया
पापभारं परित्यज्य पुण्यमेवं समाश्रय ॥ २४ ॥

एवं पित्रा सुनीथा सा दुःखिता प्रतिबोधिता
नमस्कृत्य पितुः पादौ गता सा निर्जनं वनम् ॥ २५ ॥

कामं क्रोधं परित्यज्य बाल्यभावं तपस्विनी
मोहद्रोहौ च मायां च त्यक्त्वा एकान्तमास्थिता ॥ २६ ॥

तस्याः सख्यः समाजग्मुः क्रीडार्थं लीलयान्विताः
तां ददृशुर्विशालाक्ष्यः सुनीथां दुःखभागिनीम् ॥ २७ ॥

ध्यायन्तीं चिन्तयानां तामूचुश्चिन्तापरायणाः
कस्माच्चिन्तसि भद्रे त्वमनया चिन्तयान्विता ॥ २८ ॥

तन्नो वै कारणं ब्रूहि चिन्तादुःखप्रदायिनी
एकैव सार्थकी चिन्ता धर्मस्यार्थे विचिन्त्यते ॥ २९ ॥

द्वितीया सार्थका चिन्ता योगिनां धर्मनन्दिनी
अन्या निरर्थिका चिन्ता तां नैव परिकल्पयेत् ॥ ३० ॥

कायनाशकरी चिन्ता बल तेजः प्रणाशिनी
नाशयेत्सर्वसौख्यं तु रूपहानिं निदर्शयेत् ॥ ३१ ॥

तृष्णां मोहं तथा लोभमेतांश्चिन्ता हि प्रापयेत्
पापमुत्पादयेच्चिन्ता चिन्तिता च दिने दिने ॥ ३२ ॥

चिन्ताव्याधिप्रकाशाय नरकाय प्रकल्पयेत्
तस्माच्चिन्तां परित्यज्य चानुवर्तस्व शोभने ॥ ३३ ॥

अर्जितं कर्मणा पूर्वं स्वयमेव नरेण तु
तदेव भुङ्क्तेऽसौ जन्तुर्ज्ञानवान्न विचिन्तयेत् ॥ ३४ ॥

तस्माच्चिन्तां परित्यज्य सुखदुःखादिकं वद
तासां तद्वचनं श्रुत्वा सुनीथा वाक्यमब्रवीत् ॥ ३५ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे वेनोपाख्याने
सुनीथाचरितं नाम त्रयस्त्रिंशोऽध्यायः ३३