सूत उवाच-
विश्वास-प्रस्तुतिः
नानारत्नैः सुदीप्ताङ्गो हाटकेनापि सर्वतः
राजमानो गिरिश्रेष्ठो यथा सूर्यः स्वरश्मिभिः ॥ १ ॥
मूलम्
नानारत्नैः सुदीप्ताङ्गो हाटकेनापि सर्वतः
राजमानो गिरिश्रेष्ठो यथा सूर्यः स्वरश्मिभिः ॥ १ ॥
विश्वास-प्रस्तुतिः
छायामशोकां सम्प्राप्य शीतलां सुखदायिनीम्
ध्यायन्ति योगिनः सर्वे उपविष्टा दृढासने ॥ २ ॥
मूलम्
छायामशोकां सम्प्राप्य शीतलां सुखदायिनीम्
ध्यायन्ति योगिनः सर्वे उपविष्टा दृढासने ॥ २ ॥
विश्वास-प्रस्तुतिः
क्वचित्तपन्ति मुनयः क्वचिद्गायन्ति किन्नराः
सन्तुष्टा ऋषिगन्धर्वा वीणातालकराविलाः ॥ ३ ॥
मूलम्
क्वचित्तपन्ति मुनयः क्वचिद्गायन्ति किन्नराः
सन्तुष्टा ऋषिगन्धर्वा वीणातालकराविलाः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तालमानलये लीनाः स्वरैः सप्तभिरन्वितैः
मूर्च्छनारत्निसंयुक्तैर्व्यक्तं गीतं मनोहरम् ॥ ४ ॥
मूलम्
तालमानलये लीनाः स्वरैः सप्तभिरन्वितैः
मूर्च्छनारत्निसंयुक्तैर्व्यक्तं गीतं मनोहरम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
तस्मिन्वै पर्वतश्रेष्ठे चन्दनच्छायसंश्रिताः
गन्धर्वा गीततत्वज्ञा गीतं गायन्ति तत्पराः ॥ ५ ॥
मूलम्
तस्मिन्वै पर्वतश्रेष्ठे चन्दनच्छायसंश्रिताः
गन्धर्वा गीततत्वज्ञा गीतं गायन्ति तत्पराः ॥ ५ ॥
विश्वास-प्रस्तुतिः
नृत्यन्ति योषितस्तत्र देवानां पर्वत्तोत्तमे
पापहा पुण्यदो दिव्यः सुश्रेयसां प्रदायकः ॥ ६ ॥
मूलम्
नृत्यन्ति योषितस्तत्र देवानां पर्वत्तोत्तमे
पापहा पुण्यदो दिव्यः सुश्रेयसां प्रदायकः ॥ ६ ॥
विश्वास-प्रस्तुतिः
वेदध्वनिः समधुरः श्रूयते पर्वतोत्तमे
चन्दनाशोकपुन्नागैः शालैस्तालैस्तमालकैः ॥ ७ ॥
मूलम्
वेदध्वनिः समधुरः श्रूयते पर्वतोत्तमे
चन्दनाशोकपुन्नागैः शालैस्तालैस्तमालकैः ॥ ७ ॥
विश्वास-प्रस्तुतिः
वटैस्तु मेघसङ्काशै राजते पर्वतोत्तमः
सन्तानकैः कल्पवृक्षै रम्भापादपसङ्कुलैः ॥ ८ ॥
मूलम्
वटैस्तु मेघसङ्काशै राजते पर्वतोत्तमः
सन्तानकैः कल्पवृक्षै रम्भापादपसङ्कुलैः ॥ ८ ॥
विश्वास-प्रस्तुतिः
नगेन्द्रो भाति सर्वत्र नाकवृक्षैः सुपुष्पितैः
नानाधातुसमाकीर्णो नानारत्नचयो गिरिः ॥ ९ ॥
मूलम्
नगेन्द्रो भाति सर्वत्र नाकवृक्षैः सुपुष्पितैः
नानाधातुसमाकीर्णो नानारत्नचयो गिरिः ॥ ९ ॥
विश्वास-प्रस्तुतिः
नानाकौतुकसंयुक्तो नानामङ्गलसंयुतः
वेदवृन्दैः सुसञ्जुष्टो ह्यप्सरोगणसङ्कुलः ॥ १० ॥
मूलम्
नानाकौतुकसंयुक्तो नानामङ्गलसंयुतः
वेदवृन्दैः सुसञ्जुष्टो ह्यप्सरोगणसङ्कुलः ॥ १० ॥
विश्वास-प्रस्तुतिः
ऋषिभिर्मुनिभिः सिद्धैर्गन्धर्वैःपरिभातिसः
गजैश्चाचलसङ्काशैः सिंहनादैर्विराजते ॥ ११ ॥
मूलम्
ऋषिभिर्मुनिभिः सिद्धैर्गन्धर्वैःपरिभातिसः
गजैश्चाचलसङ्काशैः सिंहनादैर्विराजते ॥ ११ ॥
विश्वास-प्रस्तुतिः
शरभैर्मत्तशार्दूलैर्मृगधूर्तैरलङ्कृतः
वापीकूपतडागैश्च सम्पूर्णैर्विमलोदकैः ॥ १२ ॥
मूलम्
शरभैर्मत्तशार्दूलैर्मृगधूर्तैरलङ्कृतः
वापीकूपतडागैश्च सम्पूर्णैर्विमलोदकैः ॥ १२ ॥
विश्वास-प्रस्तुतिः
हंसकारण्डवाकीर्णैः सर्वत्र परिशोभते
कनकोत्पलैश्च श्वेतैश्च रक्तोत्पलैर्विराजते ॥ १३ ॥
मूलम्
हंसकारण्डवाकीर्णैः सर्वत्र परिशोभते
कनकोत्पलैश्च श्वेतैश्च रक्तोत्पलैर्विराजते ॥ १३ ॥
विश्वास-प्रस्तुतिः
नदीस्रवणसङ्घातैर्विमलैश्चोदकैस्तथा
शालतालैश्च रूपैश्च सगजैः स्फाटिकैस्तथा ॥ १४ ॥
मूलम्
नदीस्रवणसङ्घातैर्विमलैश्चोदकैस्तथा
शालतालैश्च रूपैश्च सगजैः स्फाटिकैस्तथा ॥ १४ ॥
विश्वास-प्रस्तुतिः
विस्तीर्णैः काञ्चनैर्दिव्यैः सूर्यवह्निसमप्रभैः
शिलातलैश्च सम्पूर्णः शैलराजो विराजते ॥ १५ ॥
मूलम्
विस्तीर्णैः काञ्चनैर्दिव्यैः सूर्यवह्निसमप्रभैः
शिलातलैश्च सम्पूर्णः शैलराजो विराजते ॥ १५ ॥
विश्वास-प्रस्तुतिः
विमानैर्देवतानां च प्रासादैः पर्वतोत्तमैः
हंसचन्द्रप्रतीकाशैर्हेमदण्डैरलङ्कृतः ॥ १६ ॥
मूलम्
विमानैर्देवतानां च प्रासादैः पर्वतोत्तमैः
हंसचन्द्रप्रतीकाशैर्हेमदण्डैरलङ्कृतः ॥ १६ ॥
विश्वास-प्रस्तुतिः
कलशैश्चामरैर्युक्तैः प्रासादैः परिशोभितः
नानागुणप्रमुदित देववृन्दैश्च शोभितः ॥ १७ ॥
मूलम्
कलशैश्चामरैर्युक्तैः प्रासादैः परिशोभितः
नानागुणप्रमुदित देववृन्दैश्च शोभितः ॥ १७ ॥
विश्वास-प्रस्तुतिः
देववृन्दैरनेकैश्च गन्धर्वैश्चारणैस्तथा
सर्वत्र राजते पुण्यो मेरुर्गिरिवरोत्तमः ॥ १८ ॥
मूलम्
देववृन्दैरनेकैश्च गन्धर्वैश्चारणैस्तथा
सर्वत्र राजते पुण्यो मेरुर्गिरिवरोत्तमः ॥ १८ ॥
विश्वास-प्रस्तुतिः
तस्माद्गङ्गामहापुण्या पुण्यतोया महानदी
प्रसूता पुण्यतीर्थाढ्या हंसपद्मैः समाकुला ॥ १९ ॥
मूलम्
तस्माद्गङ्गामहापुण्या पुण्यतोया महानदी
प्रसूता पुण्यतीर्थाढ्या हंसपद्मैः समाकुला ॥ १९ ॥
विश्वास-प्रस्तुतिः
मुनिभिः सेव्यमाना सा ऋषिसङ्घैर्महानदी
एवङ्गुणं गिरिश्रेष्ठं पुण्यकौतुकमङ्गलम् ॥ २० ॥
मूलम्
मुनिभिः सेव्यमाना सा ऋषिसङ्घैर्महानदी
एवङ्गुणं गिरिश्रेष्ठं पुण्यकौतुकमङ्गलम् ॥ २० ॥
विश्वास-प्रस्तुतिः
अङ्गश्चात्रिसुतः पुण्यः प्रविवेश महामुनिः
गङ्गातीरे सुपुण्ये च एकान्ते चारुकन्दरे ॥ २१ ॥
मूलम्
अङ्गश्चात्रिसुतः पुण्यः प्रविवेश महामुनिः
गङ्गातीरे सुपुण्ये च एकान्ते चारुकन्दरे ॥ २१ ॥
विश्वास-प्रस्तुतिः
तत्रोपविश्य मेधावी कामक्रोधविवर्जितः
सर्वेन्द्रियाणि संयम्य हृषीकेशं मनोगतम् ॥ २२ ॥
मूलम्
तत्रोपविश्य मेधावी कामक्रोधविवर्जितः
सर्वेन्द्रियाणि संयम्य हृषीकेशं मनोगतम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
ध्यायमानः स धर्मात्मा कृष्णं क्लेशापहं प्रभुम्
आसने शयने याने ध्याने च मधुसूदनम् ॥ २३ ॥
मूलम्
ध्यायमानः स धर्मात्मा कृष्णं क्लेशापहं प्रभुम्
आसने शयने याने ध्याने च मधुसूदनम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
नित्यं पश्यति युक्तात्मा योगयुक्तो जितेन्द्रियः
चराचरेषु जीवेषु तेषु पश्यति केशवम् ॥ २४ ॥
मूलम्
नित्यं पश्यति युक्तात्मा योगयुक्तो जितेन्द्रियः
चराचरेषु जीवेषु तेषु पश्यति केशवम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
आर्द्रेषु चैव शुष्केषु सर्वेष्वन्येषु स द्विजः
एवं वर्षशतं जातं तप्यमानस्य तस्य च ॥ २५ ॥
मूलम्
आर्द्रेषु चैव शुष्केषु सर्वेष्वन्येषु स द्विजः
एवं वर्षशतं जातं तप्यमानस्य तस्य च ॥ २५ ॥
विश्वास-प्रस्तुतिः
समालोक्य जगन्नाथश्चक्रपाणिर्द्विजोत्तमम्
बहुविघ्नान्सुघोरांश्च दर्शयत्येव नित्यशः ॥ २६ ॥
मूलम्
समालोक्य जगन्नाथश्चक्रपाणिर्द्विजोत्तमम्
बहुविघ्नान्सुघोरांश्च दर्शयत्येव नित्यशः ॥ २६ ॥
विश्वास-प्रस्तुतिः
तेजसा तस्य देवस्य नृसिंहस्य महात्मनः
निरातङ्कः स धर्मात्मा दहत्यग्निरिवेन्धनम् ॥ २७ ॥
मूलम्
तेजसा तस्य देवस्य नृसिंहस्य महात्मनः
निरातङ्कः स धर्मात्मा दहत्यग्निरिवेन्धनम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
नियमैः संयमैश्चान्यैरुपवासैर्द्विजोत्तमः
क्षीयमाणस्तु सञ्जातो दीप्यमानः स्वतेजसा ॥ २८ ॥
मूलम्
नियमैः संयमैश्चान्यैरुपवासैर्द्विजोत्तमः
क्षीयमाणस्तु सञ्जातो दीप्यमानः स्वतेजसा ॥ २८ ॥
विश्वास-प्रस्तुतिः
सूर्यपावकसङ्काशस्त्वङ्ग एवं प्रदृश्यते
एवं तपःसु निरतं ध्यायमानं जनार्दनम् ॥ २९ ॥
मूलम्
सूर्यपावकसङ्काशस्त्वङ्ग एवं प्रदृश्यते
एवं तपःसु निरतं ध्यायमानं जनार्दनम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
आविर्भूयाब्रवीद्देवो वरं वरय मानद
तं च दृष्ट्वा हृषीकेशमङ्गः परम निर्वृतः ॥ ३० ॥
मूलम्
आविर्भूयाब्रवीद्देवो वरं वरय मानद
तं च दृष्ट्वा हृषीकेशमङ्गः परम निर्वृतः ॥ ३० ॥
विश्वास-प्रस्तुतिः
तुष्टाव प्रणतो भूत्वा वासुदेवं प्रसन्नधीः ॥ ३१ ॥
मूलम्
तुष्टाव प्रणतो भूत्वा वासुदेवं प्रसन्नधीः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
अङ्ग उवाच-
त्वं गतिः सर्वभूतानां भूतभावन पावन
भूतात्मा सर्वभूतेश नमस्तुभ्यं गुणात्मने ॥ ३२ ॥
मूलम्
अङ्ग उवाच-
त्वं गतिः सर्वभूतानां भूतभावन पावन
भूतात्मा सर्वभूतेश नमस्तुभ्यं गुणात्मने ॥ ३२ ॥
विश्वास-प्रस्तुतिः
गुणरूपाय गुह्याय गुणातीताय ते नमः
गुणाय गुणकर्त्रे च गुणाढ्याय गुणात्मने ॥ ३३ ॥
मूलम्
गुणरूपाय गुह्याय गुणातीताय ते नमः
गुणाय गुणकर्त्रे च गुणाढ्याय गुणात्मने ॥ ३३ ॥
विश्वास-प्रस्तुतिः
भवाय भवकर्त्रे च भक्तानां भवहारिणे
भवोद्भवाय गुह्याय नमो भवविनाशिने ॥ ३४ ॥
मूलम्
भवाय भवकर्त्रे च भक्तानां भवहारिणे
भवोद्भवाय गुह्याय नमो भवविनाशिने ॥ ३४ ॥
विश्वास-प्रस्तुतिः
यज्ञाय यज्ञरूपाय यज्ञेशाय नमोनमः
यज्ञकर्मप्रसङ्गाय नमः शङ्खधराय च ॥ ३५ ॥
मूलम्
यज्ञाय यज्ञरूपाय यज्ञेशाय नमोनमः
यज्ञकर्मप्रसङ्गाय नमः शङ्खधराय च ॥ ३५ ॥
विश्वास-प्रस्तुतिः
नमोनमो हिरण्याय नमो रथाङ्गधारिणे
सत्याय सत्यभावाय सर्वसत्यमयाय च ॥ ३६ ॥
मूलम्
नमोनमो हिरण्याय नमो रथाङ्गधारिणे
सत्याय सत्यभावाय सर्वसत्यमयाय च ॥ ३६ ॥
विश्वास-प्रस्तुतिः
धर्माय धर्मकर्त्रे च सर्वकर्त्रे च ते नमः
धर्माङ्गाय सुवीराय धर्माधाराय ते नमः ॥ ३७ ॥
मूलम्
धर्माय धर्मकर्त्रे च सर्वकर्त्रे च ते नमः
धर्माङ्गाय सुवीराय धर्माधाराय ते नमः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
नमः पुण्याय पुत्राय ह्यपुत्राय महात्मने
मायामोहविनाशाय सर्वमायाकराय ते ॥ ३८ ॥
मूलम्
नमः पुण्याय पुत्राय ह्यपुत्राय महात्मने
मायामोहविनाशाय सर्वमायाकराय ते ॥ ३८ ॥
विश्वास-प्रस्तुतिः
मायाधराय मूर्ताय त्वमूर्ताय नमोनमः
सर्वमूर्तिधरायैव शङ्कराय नमोनमः ॥ ३९ ॥
मूलम्
मायाधराय मूर्ताय त्वमूर्ताय नमोनमः
सर्वमूर्तिधरायैव शङ्कराय नमोनमः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणे ब्रह्मरूपाय परब्रह्मस्वरूपिणे
नमस्ते सर्वधाम्ने च नमो धामधराय च ॥ ४० ॥
मूलम्
ब्रह्मणे ब्रह्मरूपाय परब्रह्मस्वरूपिणे
नमस्ते सर्वधाम्ने च नमो धामधराय च ॥ ४० ॥
विश्वास-प्रस्तुतिः
श्रीमते श्रीनिवासाय श्रीधराय नमोनमः
क्षीरसागरवासाय चामृताय च ते नमः ॥ ४१ ॥
मूलम्
श्रीमते श्रीनिवासाय श्रीधराय नमोनमः
क्षीरसागरवासाय चामृताय च ते नमः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
महौषधाय घोराय महाप्रज्ञापराय च
अक्रूराय प्रमेध्याय मेध्यानां पतये नमः ॥ ४२ ॥
मूलम्
महौषधाय घोराय महाप्रज्ञापराय च
अक्रूराय प्रमेध्याय मेध्यानां पतये नमः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
अनन्ताय ह्यशेषाय चानघाय नमोनमः
आकाशस्य प्रकाशाय पक्षिरूपाय ते नमः ॥ ४३ ॥
मूलम्
अनन्ताय ह्यशेषाय चानघाय नमोनमः
आकाशस्य प्रकाशाय पक्षिरूपाय ते नमः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
हुताय हुतभोक्त्रे च हवीरूपाय ते नमः
बुद्धाय बुधरूपाय सदाबुद्धाय ते नमः ॥ ४४ ॥
मूलम्
हुताय हुतभोक्त्रे च हवीरूपाय ते नमः
बुद्धाय बुधरूपाय सदाबुद्धाय ते नमः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
नमो हव्यायकव्याय स्वधाकाराय ते नमः
स्वाहाकाराय शुद्धाय ह्यव्यक्ताय महात्मने ॥ ४५ ॥
मूलम्
नमो हव्यायकव्याय स्वधाकाराय ते नमः
स्वाहाकाराय शुद्धाय ह्यव्यक्ताय महात्मने ॥ ४५ ॥
विश्वास-प्रस्तुतिः
व्यासाय वासवायैव वसुरूपाय ते नमः
वासुदेवाय विश्वाय वह्निरूपाय ते नमः
हरये केवलायैव वामनाय नमोनमः ॥ ४६ ॥
मूलम्
व्यासाय वासवायैव वसुरूपाय ते नमः
वासुदेवाय विश्वाय वह्निरूपाय ते नमः
हरये केवलायैव वामनाय नमोनमः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
नमो नृसिंहदेवाय सत्वपालाय ते नमः ॥ ४७ ॥
मूलम्
नमो नृसिंहदेवाय सत्वपालाय ते नमः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
नमो गोविन्दगोपाय नम एकाक्षराय च
नमः सर्वाक्षरायैव हंसरूपाय ते नमः ॥ ४८ ॥
मूलम्
नमो गोविन्दगोपाय नम एकाक्षराय च
नमः सर्वाक्षरायैव हंसरूपाय ते नमः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
त्रितत्त्वाय नमस्तुभ्यं पञ्चतत्त्वाय ते नमः
पञ्चविंशतितत्त्वाय तत्त्वाधाराय वै नमः ॥ ४९ ॥
मूलम्
त्रितत्त्वाय नमस्तुभ्यं पञ्चतत्त्वाय ते नमः
पञ्चविंशतितत्त्वाय तत्त्वाधाराय वै नमः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
कृष्णाय कृष्णरूपाय लक्ष्मीनाथाय ते नमः
नमः पद्मपलाशाय आनन्दाय पराय च ॥ ५० ॥
मूलम्
कृष्णाय कृष्णरूपाय लक्ष्मीनाथाय ते नमः
नमः पद्मपलाशाय आनन्दाय पराय च ॥ ५० ॥
विश्वास-प्रस्तुतिः
नमो विश्वम्भरायैव पापनाशाय वै नमः
नमः पुण्यसुपुण्याय सत्यधर्माय ते नमः ॥ ५१ ॥
मूलम्
नमो विश्वम्भरायैव पापनाशाय वै नमः
नमः पुण्यसुपुण्याय सत्यधर्माय ते नमः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
नमोनमः शाश्वतअव्ययाय नमोनमः सङ्घ नभोमयाय
श्रीपद्मनाभाय महेश्वराय नमामि ते केशवपादपद्मम् ॥ ५२ ॥
मूलम्
नमोनमः शाश्वतअव्ययाय नमोनमः सङ्घ नभोमयाय
श्रीपद्मनाभाय महेश्वराय नमामि ते केशवपादपद्मम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
आनन्दकन्द कमलाप्रिय वासुदेव सर्वेश ईश मधुसूदन देहि दास्यम्
पादौ नमामि तव केशव जन्मजन्म कृपां कुरुष्व मम शान्तिद शङ्खपाणे ॥ ५३ ॥
मूलम्
आनन्दकन्द कमलाप्रिय वासुदेव सर्वेश ईश मधुसूदन देहि दास्यम्
पादौ नमामि तव केशव जन्मजन्म कृपां कुरुष्व मम शान्तिद शङ्खपाणे ॥ ५३ ॥
विश्वास-प्रस्तुतिः
संसारदारुणहुताशनतापदग्धं पुत्रादिबन्धुमरणैर्बहुशोकतापैः
ज्ञानाम्बुदेन मम प्लावय पद्मनाभ दीनस्य मच्छरणरूपभवस्व नाथ ॥ ५४ ॥
मूलम्
संसारदारुणहुताशनतापदग्धं पुत्रादिबन्धुमरणैर्बहुशोकतापैः
ज्ञानाम्बुदेन मम प्लावय पद्मनाभ दीनस्य मच्छरणरूपभवस्व नाथ ॥ ५४ ॥
विश्वास-प्रस्तुतिः
एवं स्तोत्रं समाकर्ण्य त्वङ्गस्यापि महात्मनः
दर्शयित्वा स्वकं रूपं घनश्यामं महौजसम् ॥ ५५ ॥
मूलम्
एवं स्तोत्रं समाकर्ण्य त्वङ्गस्यापि महात्मनः
दर्शयित्वा स्वकं रूपं घनश्यामं महौजसम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रगदापाणिं पद्महस्तं महाप्रभुम्
वैनतेयसमारूढमात्मरूपं प्रदर्शितम् ॥ ५६ ॥
मूलम्
शङ्खचक्रगदापाणिं पद्महस्तं महाप्रभुम्
वैनतेयसमारूढमात्मरूपं प्रदर्शितम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
सर्वाभरणशोभाङ्गं हारकङ्कणकुण्डलैः
राजमानं परं दिव्यं निर्मलं वनमालया ॥ ५७ ॥
मूलम्
सर्वाभरणशोभाङ्गं हारकङ्कणकुण्डलैः
राजमानं परं दिव्यं निर्मलं वनमालया ॥ ५७ ॥
विश्वास-प्रस्तुतिः
अङ्गस्याग्रे हृषीकेशः शोभमान महत्प्रभः
श्रीवत्साङ्केन पुण्येन कौस्तुभेन जनार्दनः ॥ ५८ ॥
मूलम्
अङ्गस्याग्रे हृषीकेशः शोभमान महत्प्रभः
श्रीवत्साङ्केन पुण्येन कौस्तुभेन जनार्दनः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
दर्शयित्वा स्वकं देहं सर्वदेवमयो हरिः
स उवाच महात्मानं तमङ्गमृषिसत्तमम् ॥ ५९ ॥
मूलम्
दर्शयित्वा स्वकं देहं सर्वदेवमयो हरिः
स उवाच महात्मानं तमङ्गमृषिसत्तमम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
भो भो विप्र महाभाग श्रूयतां वचनं शुभम्
मेघगम्भीरघोषेण समाभाष्य द्विजोत्तमम् ॥ ६० ॥
मूलम्
भो भो विप्र महाभाग श्रूयतां वचनं शुभम्
मेघगम्भीरघोषेण समाभाष्य द्विजोत्तमम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
तपसानेन तुष्टोस्मि वरं वरय शोभनम्
तुष्यमाणं हृषीकेशं तं दृष्ट्वा कमलापतिम् ॥ ६१ ॥
मूलम्
तपसानेन तुष्टोस्मि वरं वरय शोभनम्
तुष्यमाणं हृषीकेशं तं दृष्ट्वा कमलापतिम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
दीप्यमानं विराजन्तं विश्वरूपं जनेश्वरम्
पादाम्बुजद्वयं तस्य प्रणम्य च पुनःपुनः ॥ ६२ ॥
मूलम्
दीप्यमानं विराजन्तं विश्वरूपं जनेश्वरम्
पादाम्बुजद्वयं तस्य प्रणम्य च पुनःपुनः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
हर्षेण महताविष्टस्तमुवाच जनार्दनम्
दासोहं तव देवेश शङ्खचक्रगदाधर ॥ ६३ ॥
मूलम्
हर्षेण महताविष्टस्तमुवाच जनार्दनम्
दासोहं तव देवेश शङ्खचक्रगदाधर ॥ ६३ ॥
विश्वास-प्रस्तुतिः
वरं मे दातुकामोसि देहि त्वं वंशजं सुतम्
दिवि शक्रो यथाऽभाति सर्वतेजः समन्वितः ॥ ६४ ॥
मूलम्
वरं मे दातुकामोसि देहि त्वं वंशजं सुतम्
दिवि शक्रो यथाऽभाति सर्वतेजः समन्वितः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
तादृशं देहि मे पुत्रं सर्वलोकस्य रक्षकम्
सर्वदेवप्रियं देव ब्रह्मण्यं धर्मपण्डितम् ॥ ६५ ॥
मूलम्
तादृशं देहि मे पुत्रं सर्वलोकस्य रक्षकम्
सर्वदेवप्रियं देव ब्रह्मण्यं धर्मपण्डितम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
दातारं ज्ञानसम्पन्नं धर्मतेजः समन्वितम्
त्रैलोक्यरक्षकं कृष्ण सत्यधर्मानुपालकम् ॥ ६६ ॥
मूलम्
दातारं ज्ञानसम्पन्नं धर्मतेजः समन्वितम्
त्रैलोक्यरक्षकं कृष्ण सत्यधर्मानुपालकम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
यज्वनामुत्तमं चैकं शूरं त्रैलोक्यभूषणम्
ब्रह्मण्यं वेदविद्वांसं सत्यसन्धं जितेन्द्रियम् ॥ ६७ ॥
मूलम्
यज्वनामुत्तमं चैकं शूरं त्रैलोक्यभूषणम्
ब्रह्मण्यं वेदविद्वांसं सत्यसन्धं जितेन्द्रियम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
अजितं सर्वजेतारं विष्णुं तेजःसमप्रभम्
वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणम् ॥ ६८ ॥
मूलम्
अजितं सर्वजेतारं विष्णुं तेजःसमप्रभम्
वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
शान्तं तु तपसोपेतं सर्वशास्त्रविशारदम्
वेदज्ञं योगिनां श्रेष्ठं भवतो गुणसन्निभम् ॥ ६९ ॥
मूलम्
शान्तं तु तपसोपेतं सर्वशास्त्रविशारदम्
वेदज्ञं योगिनां श्रेष्ठं भवतो गुणसन्निभम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
ईदृशं देहि मे पुत्रं दातुकामो यदा वरम्
श्रीवासुदेव उवाच-
एभिर्गुणैः समोपेतस्तव पुत्रो भविष्यति ॥ ७० ॥
मूलम्
ईदृशं देहि मे पुत्रं दातुकामो यदा वरम्
श्रीवासुदेव उवाच-
एभिर्गुणैः समोपेतस्तव पुत्रो भविष्यति ॥ ७० ॥
विश्वास-प्रस्तुतिः
अत्रिवंशस्य वै धर्ता विश्वस्यास्य महामते
तेजसा यशसा पुण्यैः पितरं चोद्धरिष्यति ॥ ७१ ॥
मूलम्
अत्रिवंशस्य वै धर्ता विश्वस्यास्य महामते
तेजसा यशसा पुण्यैः पितरं चोद्धरिष्यति ॥ ७१ ॥
विश्वास-प्रस्तुतिः
उद्धरिष्यति यः सत्यैः पितरं च पितामहम्
भवान्यास्यति मे स्थानं तद्विष्णोः परमं पदम् ॥ ७२ ॥
मूलम्
उद्धरिष्यति यः सत्यैः पितरं च पितामहम्
भवान्यास्यति मे स्थानं तद्विष्णोः परमं पदम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा देवदेवेशस्तमङ्गं प्रति स द्विज
कस्यचित्पुण्यवीर्यस्य पुण्यां कन्यां विवाहय ॥ ७३ ॥
मूलम्
इत्युक्त्वा देवदेवेशस्तमङ्गं प्रति स द्विज
कस्यचित्पुण्यवीर्यस्य पुण्यां कन्यां विवाहय ॥ ७३ ॥
विश्वास-प्रस्तुतिः
तस्यामुत्पादय सुतं शुभं पुण्यावह प्रियम्
स भविष्यति धर्मात्मा मत्प्रसादान्महामते ॥ ७४ ॥
मूलम्
तस्यामुत्पादय सुतं शुभं पुण्यावह प्रियम्
स भविष्यति धर्मात्मा मत्प्रसादान्महामते ॥ ७४ ॥
विश्वास-प्रस्तुतिः
सर्वज्ञः सर्ववेत्ता च यादृशो वाञ्छितस्त्वया
एवं वरं ततो दत्वा अन्तर्धानं गतो हरिः ॥ ७५ ॥
मूलम्
सर्वज्ञः सर्ववेत्ता च यादृशो वाञ्छितस्त्वया
एवं वरं ततो दत्वा अन्तर्धानं गतो हरिः ॥ ७५ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने अङ्गवरप्रदानं
नाम द्वात्रिंशोऽध्यायः ३२