सूत उवाच-
विश्वास-प्रस्तुतिः
अथ त्वङ्गो महातेजा दृष्ट्वा इन्द्रस्य सम्पदम्
भोगं चैव विलासं च लीलां तस्य महात्मनः ॥ १ ॥
मूलम्

कथं मे इन्द्र सदृशः पुत्रः स्याद्धर्मसंयुतः
चिन्तयित्वा क्षणं चैव अङ्गो धर्मभृतां वरः ॥ २ ॥

स्वकं गेहं समायातः स त्वङ्गः सत्यतत्परः
अत्रिं पप्रच्छ पितरं प्रणतो नम्रकन्धरः ॥ ३ ॥

कोऽयं पुण्यः समाचारैरिन्द्रत्वं भुञ्जते महत्
कस्य पुण्यस्य वै पुष्टिः किं कृतं कर्म कीदृशम् ॥ ४ ॥

कीदृशं तप एतस्य कमाराधितवान्पुरा
एतन्मे विस्तरेण त्वं ब्रूहि सत्यवतां वर ॥ ५ ॥

अत्रिरुवाच-
साधुसाधु महाभाग यद्येवं पृच्छसे मयि
चरित्रमिन्द्रस्य वत्स तन्मे निगदतः शृणु ॥ ६ ॥

सुव्रतो नाम मेधावी पुरा ब्राह्मणसत्तमः
तेन कृष्णो हृषीकेशस्तपसा चैव तोषितः ॥ ७ ॥

पुण्यगर्भं पुनः प्राप्तो ह्यदित्याः कश्यपात्किल
विष्णोश्चैव प्रसादेन सुरराजो बभूव ह ॥ ८ ॥

अङ्ग उवाच-
कथमिन्द्रसमः पुत्रो मम स्यात्पुत्रवत्सल
तदुपायं समाचक्ष्व भवाञ्ज्ञानवतां वरः ॥ ९ ॥

समासेनैव तस्यैव सुव्रतस्य महात्मनः
चरित्रमखिलं पुण्यं निशामय महामते ॥ १० ॥
मूलम्
अत्रिरुवाच-
समासेनैव तस्यैव सुव्रतस्य महात्मनः
चरित्रमखिलं पुण्यं निशामय महामते ॥ १० ॥
विश्वास-प्रस्तुतिः
यथा सुव्रत मेधावी पुराराधितवान्हरिम्
तस्य भावं च भक्तिं च ध्यानं चैव महात्मनः ॥ ११ ॥

समालोक्य जगन्नाथो दत्तवान्वै महत्पदम्
स ऐन्द्रं सर्वभोगाढ्यं त्रैलोक्यं सचराचरम् ॥ १२ ॥

विष्णोश्चैव प्रसादाच्च पदं भुङ्क्ते त्रिलोकधृक्
एवं ते सर्वमाख्यातमिन्द्रस्यापि विचेष्टितम् ॥ १३ ॥

भक्त्या तुष्यति गोविन्दो भावध्यानेन सत्तम
सर्वं ददाति तुष्टात्मा भक्त्या सन्तोषितो हरिः ॥ १४ ॥

तस्मादाराध्य गोविन्दं सर्वदं सर्वसम्भवम्
सर्वज्ञं सर्ववेत्तारं सर्वेषां पुरुषं वरम् ॥ १५ ॥

तस्मात्प्राप्स्यसि सर्वं त्वं यद्यदिच्छसि नन्दन ॥ १६ ॥

सुखस्य दाता परमार्थदाता मोक्षस्य दाता जगतां हि नाथः
तस्मात्तमाराधय गच्छ पुत्र सम्प्राप्स्यसे इन्द्रसमं हि पुत्रम् ॥ १७ ॥

आकर्ण्य वाक्यं परमार्थयुक्तमुक्तं महात्मा ऋषिणा हि तेन
सङ्गृह्य तत्त्वं वचनस्य तस्य प्रणम्य तं शाश्वतमभ्ययात्सः ॥ १८ ॥

आमन्त्र्य चाङ्गः पितरं महात्मा ब्रह्मात्मजं ब्रह्मसमानमेव
सम्प्राप्तवान्मेरुगिरेस्तु शृङ्गं तं काञ्चनै रत्नमयैः समेतम् ॥ १९ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे
वेनोपाख्याने एकत्रिंशोऽध्यायः ३१