ऋषय ऊचुः-
विश्वास-प्रस्तुतिः
योऽसौ वेनस्त्वयाख्यातः पापाचारेण वर्तितः
तस्य पापस्य का वृत्तिः किं फलं प्राप्तवान्द्विज ॥ १ ॥
मूलम्

चरित्रं तस्य वेनस्य समाख्याहि यथा पुरा
विस्तरेण विदां श्रेष्ठ त्वं न एतन्महामते ॥ २ ॥

सूत उवाच-
चरित्रं तस्य वेनस्य वैन्यस्यापि महात्मनः
प्रवक्ष्यामि सुपुण्यं च यथान्यायं श्रुतं पुरा ॥ ३ ॥

जाते पुत्रे महाभागस्तस्मिन्पृथौ महात्मनि
विमलत्वं गतो राजा धर्मत्वं गतवान्पुनः ॥ ४ ॥

महापापानि सर्वाणि अर्जितानि नराधमैः
तीर्थसङ्गप्रसङ्गेन तेषां पापं प्रयाति च ॥ ५ ॥

सतां सङ्गात्प्रजायेत पुण्यमेव न संशयः
पापानां तु प्रसङ्गेन पापमेव प्रजायते ॥ ६ ॥

सम्भाषाद्दर्शनात्स्पर्शादासनाद्भोजनात्किल
पापिनां सङ्गमाच्चैव किल्बिषं परिसञ्चरेत् ॥ ७ ॥

तथा पुण्यात्मकानां च पुण्यमेव प्रसञ्चरेत्
महातीर्थप्रसङ्गेन पापाः शुध्यन्ति नान्यथा ॥ ८ ॥

पुण्यां गतिं प्रयान्त्येते निर्द्धूताशेष कल्मषाः
ऋषय ऊचुः-
तत्कथं यान्ति ते पापाः परां सिद्धिं द्विजोत्तम ॥ ९ ॥

तन्नो विस्तरतो ब्रूहि श्रोतुं श्रद्धा प्रवर्तते ॥ १० ॥
मूलम्
तन्नो विस्तरतो ब्रूहि श्रोतुं श्रद्धा प्रवर्तते ॥ १० ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
लुब्धकाश्च महापापाः सञ्जाता दासधीवराः
रेवा च यमुना गङ्गास्तासामम्भसि संस्थिताः ॥ ११ ॥

ज्ञानतोऽज्ञानतः स्नात्वा सङ्क्रीडन्ति च वै जले
महानद्याः प्रसङ्गेन ते यान्ति परमां गतिम् ॥ १२ ॥

दासत्वं पापसङ्घातं परित्यज्य व्रजन्ति ते
पुण्यतोयप्रसङ्गाच्च ह्याप्लुताः सर्व एव ते ॥ १३ ॥

महानद्याः प्रसङ्गाच्च अन्यासां नैव सत्तमाः
महापुण्यजनस्यापि पापं नश्यति पापिनाम् ॥ १४ ॥

प्रसङ्गाद्दर्शनात्स्पर्शान्नात्र कार्या विचारणा
अत्रार्थे श्रूयते विप्रा इतिहासोऽघनाशनः ॥ १५ ॥

तं वो अद्य प्रवक्ष्यामि बहुपुण्यप्रदायकम्
कश्चिदस्ति मृगव्याधः सुलोभाख्यो महावने ॥ १६ ॥

श्वभिर्वागुरिजालैश्च धनुर्बाणैस्तथैव च
मृगान्घातयते नित्यं पिशितास्वादलम्पटः ॥ १७ ॥

एकदा तु सुदुष्टात्मा बाणपाणिर्धनुर्धरः
श्वभिः परिवृतो दुर्गं वनं विन्ध्यस्य वै गतः ॥ १८ ॥

मृगान्रुरून्वराहांश्च भीतान्सूदितवान्बहून्
रेवातीरं समासाद्य कश्चिच्छफरघातकः ॥ १९ ॥

शफरान्सूदयित्वा स निर्जगाम बहिर्जलात्
मृगव्याधस्य लोभस्य भयत्रस्ता ततो मृगी ॥ २० ॥

जीवत्राणपरा सार्ता भीता चलितचेतना
त्वरमाणा पलायन्ती रेवातीरं समाश्रिता ॥ २१ ॥

श्वभिश्च चालिता सा तु बाणघातक्षतातुरा
श्वसनस्यापि वेगेन सुलभो मृगघातकः ॥ २२ ॥
मूलम्
श्वभिश्च चालिता सा तु बाणघातक्षतातुरा
श्वसनस्यापि वेगेन सुलभो मृगघातकः ॥ २२ ॥
विश्वास-प्रस्तुतिः
पृष्ठ एव समायाति पुरतो याति सा मृगी
दृष्टवांस्तां शफरहा बाणपाणिः समुद्यतः ॥ २३ ॥

धनुरानम्य वेगेन अनुरुध्य च तां मृगीम्
तावल्लुब्धक लोभाख्यः श्वभिः सार्द्धं समागतः ॥ २४ ॥

न हन्तव्या मदीयेयं मृगयां मे समागता
तस्य वाक्यं समाकर्ण्य मीनहा मांसलम्पटः ॥ २५ ॥

बाणं मुमोच दुष्टात्मा तामुद्दिश्य महाबलः
निहता मृगलुब्धेन बाणेन निशितेन च ॥ २६ ॥

प्रमृता सा मृगी तत्र बाणाभ्यां पापचेतसोः
श्वभिर्दन्तैः समाक्रान्ता त्वरमाणा पपात सा ॥ २७ ॥

शिखराच्च ह्रदे पुण्ये रेवायाः पापनाशने
श्वानश्च त्वरमाणास्ते पतिता विमले ह्रदे ॥ २८ ॥

मृगव्याधो वदत्येव धीवरं क्रोधमूर्च्छितः
मदीयेयं मृगी दुष्ट कस्माद्बाणैर्हता त्वया ॥ २९ ॥

तमुवाच पुनः सोऽपि मीनहा मृगघातकम्
मदीयेयं न सन्देहो अवलिप्त प्रभाषसे ॥ ३० ॥

युध्यमानौ ततस्तौ तु द्वावेतौ तु परस्परम्
क्रोधलोभान्महाभागौ पतितौ विमले जले ॥ ३१ ॥

तस्मिन्काले महापर्व वर्तते गतिदायकम्
अमावास्या समायोगं महापुण्यफलप्रदम् ॥ ३२ ॥

वेलायां पतिताः सर्वे पर्वणस्तस्य सत्तम
जपध्यानविहीनास्ते भावसत्यविवर्जिताः ॥ ३३ ॥

तीर्थस्नानप्रसङ्गेन मृगी श्वा च स लुब्धकः
सर्वपापविनिर्मुक्तास्ते गताः परमां गतिम् ॥ ३४ ॥

तीर्थानां च प्रभावेण सतां सङ्गाद्द्विजोत्तमाः
नाशयेत्पापिनां पापं दहेदग्निरिवेन्धनम् ॥ ३५ ॥

तेषामेवं हि संसर्गादृषीणां च महात्मनाम्
सम्भाषाद्दर्शनान्नष्टं स्पर्शाच्चैव नृपस्य च ॥ ३६ ॥

वेनस्य कल्मषं नष्टं सतां सङ्गात्पुरा किल
अत्युग्रपुण्यसंसर्गात्पापं नश्यति पापिनाम् ॥ ३७ ॥

अत्युग्रपापिनां सङ्गात्पापमेव प्रसञ्चरेत्
मातामहस्य दोषेण संलिप्तो वेन एव सः ॥ ३८ ॥

मातामहस्य को दोषस्तं नो विस्तरतो वद
स मृत्युः स च वै कालः स यमो धर्म एव च ॥ ३९ ॥

न हिंसको हि कस्यापि पदे तस्मिन्प्रतिष्ठितः
चराचराश्च ये लोकाः स्वकर्मवशवर्तिनः ॥ ४० ॥

जीवन्ति च म्रियन्ते च भुञ्जन्त्येवं स्वकर्मभिः
पापाः पश्यन्ति तं घोरं तेषां कर्मविपाकतः ॥ ४१ ॥

निरयेषु च सर्वेषु कर्मणैवं सुपुण्यवान्
योजयेत्ताडयेत्सूत यम एष दिनेदिने ॥ ४२ ॥
मूलम्
निरयेषु च सर्वेषु कर्मणैवं सुपुण्यवान्
योजयेत्ताडयेत्सूत यम एष दिनेदिने ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सर्वेष्वेव सुपुण्येषु कर्मस्वेवं सपुण्यवान्
योजयत्येव धर्मात्मा तस्य दोषो न दृश्यते ॥ ४३ ॥

स मृत्योः केन दोषेण पापी वेनस्त्वजायत
सूत उवाच-
स मृत्युः शासको नित्यं पापानां दुष्टचेतसाम् ॥ ४४ ॥

वर्तते कालरूपेण तेषां कर्म विमृश्यति
दुष्कृतं कर्म यस्यापि कर्मणा तेन घातयेत् ॥ ४५ ॥

तस्य पापं विदित्वाऽसौ नयत्येवं हि तं यमः
सुकृतात्मा लभेत्स्वर्गं कर्मणा सुकृतेन वै ॥ ४६ ॥

योजयत्येष तान्सर्वान्मृत्युरेव सुदूतकैः
महता सौख्यभावेन गीतमङ्गलकारिणा ॥ ४७ ॥
मूलम्
योजयत्येष तान्सर्वान्मृत्युरेव सुदूतकैः
महता सौख्यभावेन गीतमङ्गलकारिणा ॥ ४७ ॥
विश्वास-प्रस्तुतिः
दानभोगादिभिश्चैव योजयेच्च कृतात्मकान्
पीडाभिर्विविधाभिश्च क्लेशैः काष्ठैश्च दारुणैः ॥ ४८ ॥

त्रासयेत्ताडयेद्विप्रान्स क्रोधो मृत्युरेव तान्
कर्मण्येवं हि तस्यापि व्यापारः परिवर्तते ॥ ४९ ॥

मृत्योश्चापि महाभाग लोभात्पुण्यात्प्रजायते
सुनीथा नाम वै कन्या सञ्जातैषा महात्मनः ॥ ५० ॥

पितुःकर्म विमृश्यैव क्रीडमाना सदैव सा
प्रजानां शास्ति कर्तारं पुण्यपापनिरीक्षणम् ॥ ५१ ॥

सा तु कन्या महाभागा सुनीथा नाम तस्य सा
रममाणा वनं प्राप्ता सखीभिः परिवारिता ॥ ५२ ॥

तत्रापश्यन्महाभागं गन्धर्वतनयं वरम्
गीतकोलाहलस्यापि सुशङ्खं नाम सा तदा ॥ ५३ ॥

ददर्श चारुसर्वाङ्गं तप्यन्तं सुमहत्तपः
गीतविद्यासु सिद्ध्यर्थं ध्यायमानं सरस्वतीम् ॥ ५४ ॥

तस्योपघातमेवासौ सा चकार दिने दिने
सुशङ्खः क्षमते नित्यं गच्छगच्छेति सोऽब्रवीत् ॥ ५५ ॥

प्रेषिता नैव गच्छेत्सा विघ्नमेव समाचरेत्
तेनाप्युक्ता सा हि क्रुद्धा ताडयत्तपसि स्थितम् ॥ ५६ ॥

तामुवाच ततः क्रुद्धः सुशङ्खः क्रोधमूर्च्छितः
दुष्टे पापसमाचारे कस्माद्विघ्नस्त्वया कृतः ॥ ५७ ॥

ताडनात्ताडनं दुष्टे न कुर्वन्ति महाजनाः
आक्रुष्टा नैव कुप्यन्ति इति धर्मस्य संस्थितिः ॥ ५८ ॥

त्वयाहं घातितः पापे निर्दोषस्तपसान्वितः
एवमुक्त्वा स धर्मात्मा सुनीथां पापचारिणीम् ॥ ५९ ॥

विरराम महाक्रोधाज्ज्ञात्वा नारीं निवर्तितः
ततः सा पापमोहाद्वा बाल्याद्वा तमिहैव च ॥ ६० ॥

समुवाच महात्मानं सुशङ्खं तपसि स्थितम्
त्रैलोक्यवासिनां तातो ममैव परिघातकः ॥ ६१ ॥

असतो घातयेन्नित्यं सत्यान्स परिपालयेत्
नैव दोषो भवेत्तस्य महापुण्येन वर्तयेत् ॥ ६२ ॥

एवमुक्त्वा गता सा तु पितरं वाक्यमब्रवीत्
मया हि ताडितस्तात गन्धर्वतनयो वने ॥ ६३ ॥

तपस्तपन्सदैकान्ते कामक्रोधविवर्जितः
स मामुवाच धर्मात्मा क्रोधरागसमन्वितः ॥ ६४ ॥

ताडयेन्नैव ताडन्तं क्रोशन्तं नैव क्रोशयेत्
इत्युवाच स मां तात तन्मे त्वं कारणं वद ॥ ६५ ॥

एवमुक्तः स वै मृत्युः सुनीथां द्विजसत्तमाः
किञ्चिन्नोवाच धर्मात्मा प्रश्नप्रत्युत्तरं ततः ॥ ६६ ॥

वनं प्राप्ता पुनः सा हि सुशङ्खो यत्र संस्थितः
कराघातैस्ततो दौष्ट्याद्घातितस्तपतां वरः ॥ ६७ ॥

सुशङ्खस्ताडितो विप्रा मृत्योश्चैव हि कन्यया
ततः क्रुद्धो महातेजाः शशाप तनुमध्यमाम् ॥ ६८ ॥

निर्दोषो हि यतो दुष्टे त्वयैव परिताडितः
अहमत्र वने संस्थस्तस्माच्छापं ददाम्यहम् ॥ ६९ ॥

गार्हस्थ्यं च समास्थाय सह भर्त्रा यदा शृणु
पापाचारमयः पुत्रो देवब्राह्मणनिन्दकः ॥ ७० ॥

सर्वपापरतो दुष्टे तव गर्भे भविष्यति
एवं शप्त्वा गतः सोपि तप एव समाश्रितः ॥ ७१ ॥

गते तस्मिन्महाभागे सा सुनीथा गृहं गता
समाचष्ट महात्मानं पितरं तप्तमानसा ॥ ७२ ॥

यथा शप्ता तदा तेन गन्धर्वतनयेन सा
तत्सर्वं संश्रुतं तेन मृत्युना परिभाषितम् ॥ ७३ ॥

कस्मात्कृतस्त्वयाघातस्तपति दोषवर्जिते
युक्तं नैव कृतं पुत्रि सत्यस्यैव हि ताडनम् ॥ ७४ ॥

एवमाभाष्य धर्मात्मा मृत्युः परमदुःखितः
बभूव स हि तत्तस्यादिष्टमेवं विचिन्तयन् ॥ ७५ ॥

अत्रिपुत्रो महातेजा अङ्गो नाम प्रतापवान्
एकदा तु गतो विप्रा नन्दनं प्रति स द्विजः ॥ ७६ ॥

तत्र दृष्ट्वा देवराजं तमिन्द्रं पाकशासनम्
अप्सरसां गणैर्युक्तं गन्धर्वैः किन्नरैस्तथा ॥ ७७ ॥

गीयमानं गीतगैश्च सुस्वरैः सप्तकैस्तथा
वीज्यमानं सुगन्धैश्च व्यजनैः सर्व एव सः ॥ ७८ ॥

योषिद्भी रूपयुक्ताभिश्चामरैर्हंसगामिभिः
छत्रेण हंसवर्णेन चन्द्रबिम्बानुकारिणा ॥ ७९ ॥

राजमानं सहस्राक्षं सर्वाभरणभूषितम्
कामक्रीडागतं देवं दृष्टवानमितौजसम् ॥ ८० ॥

तस्य पार्श्वे महाभागां पौलोमीं चारुमङ्गलाम्
रूपेण तेजसा चैव तपसा च यशस्विनीम् ॥ ८१ ॥

सौभाग्येन विराजन्तीं पातिव्रत्येन तां सतीम्
तया सह सहस्राक्षः स रेमे नन्दने वने ॥ ८२ ॥

तस्य लीलां समालोक्य अङ्गश्चैव द्विजोत्तमः
धन्यो वै देवराजोऽयमीदृशैः परिवारितः ॥ ८३ ॥

अहोऽस्य तपसो वीर्यं येन प्राप्तं महत्पदम्
यदा ममेदृशः पुत्रः सर्वलोकप्रधारकः ॥ ८४ ॥

भवेत्तदा महत्सौख्यं प्राप्स्यामीह न संशयः
इति चिन्तापरो भूत्वा त्वरमाणो गृहागतः ॥ ८५ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने त्रिंशोऽध्यायः ३०