पृथुरुवाच-
विश्वास-प्रस्तुतिः
हते चैव महापापे एकस्मिन्पापचारिणि
लोकाः सुखेन जीवन्ति साधवः पुण्यदर्शिनः ॥ १ ॥
मूलम्

तस्मादेकं प्रहर्तव्यं पापिष्ठं पापचेतनम्
तस्मात्त्वां हि हनिष्यामि सर्वसत्त्वप्रणाशिनीम् ॥ २ ॥

त्वया बीजानि सर्वाणि लुप्तान्येतानि साम्प्रतम्
ग्रासं कृत्वा स्थिरीभूत्वा प्रजां हत्वा क्व यास्यसि ॥ ३ ॥

हते पापे दुराचारे सुखं जीवन्तिसाधवः
तस्मात्पापं प्रहन्तव्यं सत्यमेवं न संशयः ॥ ४ ॥

पालितव्यं प्रयत्नेन यस्माद्धर्मः प्रवर्द्धते
भवत्या तु महत्पापं प्रजासङ्क्षयकारकम् ॥ ५ ॥

एकस्यार्थेन यो हन्यादात्मनो वा परस्य वा
लोकोपतापकं हत्वा न भवेत्तस्य पातकम् ॥ ६ ॥

सुखमेष्यन्ति बहवो यस्मिंस्तु निहते शुभे
वसुधे निहते दुष्टे पातकं नोपपातकम् ॥ ७ ॥

प्रजानिमित्तं त्वामेव हनिष्यामि न संशयः
यदि मे पुण्यसंयुक्तं वचनं न करिष्यति ॥ ८ ॥

जगतोऽस्य हितार्थाय साधु चैव वसुन्धरे
हनिष्ये त्वां शितैर्बाणैर्मद्वाक्यात्तु पराङ्मुखीम् ॥ ९ ॥

स्वीयेन तेजसा चैव पुण्यां त्रैलोक्यवासिनीम्
प्रजां चैव धरिष्यामि धर्मेणापि न संशयः ॥ १० ॥

मच्छासनं समास्थाय धर्मयुक्तं वसुन्धरे
इमाः प्रजा आज्ञया मे सञ्जीवय सदैव हि ॥ ११ ॥

एवं मे शासनं भद्रे अद्य यर्हि करिष्यसि
ततः प्रीतोऽस्मि ते नित्यं गोपायिष्यामि सर्वदा ॥ १२ ॥

त्वामेव हि न सन्देह अन्ये चैव नृपोत्तमाः
धेनुरूपेण सा पृथ्वी बाणाञ्चितकलेवरा ॥ १३ ॥

उवाचेदं पृथुं वैन्यं धर्माधारं महामतिम्
धरण्युवाच-
तवादेशं महाराज सत्यपुण्यार्थसंयुतम् ॥ १४ ॥

प्रजानिमित्तमत्यर्थं विधास्यामि न संशयः
उद्यमेनापि पुण्येन उपायेन नरेश्वर ॥ १५ ॥

समारम्भाः प्रसिद्ध्यन्ति पुण्याश्चैवाप्युपक्रमाः
उपायं पश्य राजेन्द्र येन त्वं सत्यवान्भवेः ॥ १६ ॥

धारयेथाः प्रजाश्चेमा येन सर्वाः प्रवर्द्धये
संलग्नाश्चोत्तमा बाणा ममाङ्गे ते शिलाशिताः ॥ १७ ॥

समुद्धर स्वयं राजंश्छल्यन्ति भृशमेव ते
समां कुरु महाराज तिष्ठेन्मयि यथा पयः ॥ १८ ॥

सूत उवाच-
धनुषोग्रेण ताञ्छैलान्नानारूपान्गुरूंस्तथा
उत्सारयंस्ततः सर्वां समरूपां चकार सः ॥ १९ ॥

तदाप्रभृति ते शैला वृद्धिमापुर्द्विजोत्तमाः
तस्या अङ्गात्स्वयं बाणान्स्वकीयान्नृपनन्दनः ॥ २० ॥

समुद्धृत्य ततो वैन्यः प्रीतेन मनसा तदा
गर्ताश्च कन्दराश्चैव बाणाघातैः समीकृताः ॥ २१ ॥

एवं पृथ्वद्यंसमां सर्वां चकार पुण्यवर्द्धनः
समीकृत्य महाभागो वत्सं तस्या व्यकल्पयत् ॥ २२ ॥

मनुं स्वायम्भुवं पूर्वं परिचिन्त्य पुनः पुनः
अतीतेष्वथ सर्वेषु मन्वन्तरेषु सत्तमाः ॥ २३ ॥

विषमत्वं गता भूमिः पन्था नासीच्च कुत्रचित्
समानि विषमाण्येवं स्वयमासन्द्विजोत्तमाः ॥ २४ ॥

पूर्वं मनोश्चाक्षुषस्य प्राप्ते चैवान्तरे तदा
जाते पूर्वविसर्गे च विषमे च धरातले ॥ २५ ॥

ग्रामाणां च पुराणां च पत्तनानां तथैव च
देशानां क्षेत्रपन्नानां मर्यादा न हि दृश्यते ॥ २६ ॥

कृषिर्नैव न वाणिज्यं न गोरक्षा प्रवर्तते
नानृतं भाषते कश्चिन्न लोभो न च मत्सरः ॥ २७ ॥

नाभिमानं च वै पापं न करोति कदा किल
वैवस्वतस्य सम्प्राप्ते अन्तरे द्विजसत्तम ॥ २८ ॥

वैन्यस्य सम्भवात्पूर्वं प्रजानामेव सम्भवः
इमाः प्रजा द्विजाः सर्वा निवासं समरोचयन् ॥ २९ ॥

क्वचिद्भूमौ गिरौ क्वापि नदीतीरेषु वै तदा
कुञ्जेषु सर्वतीर्थेषु सागरस्य तटेषु च ॥ ३० ॥

निवासं चक्रिरे सर्वाः प्रजाः पुण्येन वै तदा
तासामाहारः सञ्जातः फलमूलमधुस्तथा ॥ ३१ ॥

महता कृच्छ्रेण तासामाहारश्च द्विजोत्तमाः
पृथुर्वैन्यः समालोक्य प्रजानां कष्टमेव हि ॥ ३२ ॥

स्वायम्भुवो मनुर्वत्सः कल्पितस्तेन भूभुजा
स्वपाणिः कल्पितस्तेन पात्रमेवं महामते ॥ ३३ ॥

स पृथुः पुरुषव्याघ्रो दुदोह वसुधां तदा
सर्वसस्यमयं क्षीरं ससर्वान्नं गुणान्वितम् ॥ ३४ ॥

तेन पुण्येन चान्नेन सुधाकल्पेन ताः प्रजाः
तृप्तिं नयन्ति देवान्वै प्रजाः पितॄंस्तथापरान् ॥ ३५ ॥

प्रसादात्तस्य वैन्यस्य सुखं जीवन्ति ताः प्रजाः
देवेभ्यश्च पितृभ्यश्च दत्वा चान्नं प्रजास्ततः ॥ ३६ ॥

ब्राह्मणेभ्यो विशेषेणअतिथिभ्यस्तथैव च
पश्चाद्भुञ्जन्ति पुण्यास्ताः प्रजाः सर्वा द्विजोत्तमाः ॥ ३७ ॥

यज्ञैश्चान्ये यजन्त्येव तर्पयन्ति जनार्दनम्
तेन चान्नेन देवेशं तृप्तिं गच्छन्ति देवताः ॥ ३८ ॥

पुनर्वर्षति पर्जन्यः प्रेषितो माधवेन च
तस्मात्पुण्या महौषध्यः सम्भवन्ति सुपुण्यदाः ॥ ३९ ॥

सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रजापतिः
तेनान्नेन प्रजाः सर्वा वर्तन्तेऽद्यापि नित्यशः ॥ ४० ॥

ऋषिभिश्चैव मिलितैर्दुग्धा चेयं वसुन्धरा
पुनर्विप्रैर्महाभाग्यैः सत्यवद्भिः सुरैस्तथा ॥ ४१ ॥

सोमो वत्सस्वरूपोभूद्दोग्धा देवगुरुः स्वयम्
ऊर्जं क्षीरं पयः कल्पं येन जीवन्ति चामराः ॥ ४२ ॥

तेषां सत्येन पुण्येन सर्वे जीवन्ति जन्तवः
सत्यपुण्ये प्रवर्तन्ते ऋषिदुग्धा वसुन्धरा ॥ ४३ ॥

अथातः सम्प्रवक्ष्यामि यथा दुग्धा इयं धरा
पितृभिश्च पुरा वत्स विधिना येन वै तदा ॥ ४४ ॥

सुपात्रं राजतं कृत्वा स्वधा क्षीरं सुधान्वितम्
परिकल्प्य यमं वत्सं दोग्धा चान्तक एव सः ॥ ४५ ॥

नागैः सर्पैस्ततो दुग्धा तक्षकं वत्समेव च
अलाबुपात्रमादाय विषं क्षीरं द्विजोत्तमाः ॥ ४६ ॥

नागानां तु तथा दोग्धा धृतराष्ट्रः प्रतापवान्
सर्पा नागा द्विजश्रेष्ठास्तेन वर्तन्ति चातुलाः ॥ ४७ ॥

नागा वर्तन्ति तेनापि ह्यत्युग्रेण द्विजोत्तमाः
विषेण घोररूपेण सर्पाश्चैव भयानकाः ॥ ४८ ॥

तेनैव वर्तयन्त्युग्रा महाकाया महाबलाः
तदाहारास्तदाचारास्तद्वीर्यास्तत्पराक्रमाः ॥ ४९ ॥

अथातः सम्प्रवक्ष्यामि यथा दुग्धा वसुन्धरा
असुरैर्दानवैः सर्वैः कल्पयित्वा द्विजोत्तमाः ॥ ५० ॥

पात्रमत्रान्नसदृशमायसं सर्वकामिकम्
क्षीरं मायामयं कृत्वा सर्वारातिविनाशनम् ॥ ५१ ॥

तेषामभूत्स वै वत्सो विरोचनः प्रतापवान्
ऋत्विग्द्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः ॥ ५२ ॥

तया हि मायया दैत्याः प्रवर्त्तन्ते महाबलाः
महाप्रज्ञा महाकाया महातेजः पराक्रमाः ॥ ५३ ॥

तद्बलं पौरुषं तेषां तेन जीवन्ति दानवाः
तयैते माययाद्यापि सर्वमाया द्विजोत्तमाः ॥ ५४ ॥

प्रवर्तन्ते मितप्रज्ञास्ते तदेषामिदं बलम्
तथा तु दुग्धा यक्षैः सा सर्वाधारासु मेदिनी ॥ ५५ ॥

इति शुश्रुम विप्रेन्द्राः पुराकल्पे महात्मभिः
अन्तर्धानमयं क्षीरमयस्पात्रे सुविस्तरे ॥ ५६ ॥

वैश्रवणो महाप्राज्ञस्तदा वत्सः प्रकल्पितः
मणिधरस्य पिता पुण्यः प्राज्ञो बुद्धिमतां वरः ॥ ५७ ॥

दोग्धा रजतनाभस्तु तस्याश्चासीन्महामतिः
सर्वज्ञः सर्वधर्मज्ञो यक्षराजसुतो बली ॥ ५८ ॥

अष्टबाहुर्महातेजा द्विशीर्षः सुमहातपाः
यक्षावर्तन्त तेनापि सर्वदैव द्विजोत्तमाः ॥ ५९ ॥

पुनर्दुग्धा इयं पृथ्वी राक्षसैश्च महाबलैः
तथा चैषा पिशाचैश्च सातुरैर्दग्धवारिभिः ॥ ६० ॥

उत्प्लुतं नृकपालं तं शावपात्रमयः कृतम्
सुप्रजां भोक्तुकामास्ते तीव्रकोपपराक्रमाः ॥ ६१ ॥

दोग्धा रजतनाभस्तु तेषामासीन्महाबलः
सुमाली नाम वत्सश्च शोणितं क्षीरमेव च ॥ ६२ ॥

रक्षांसि यातुधानाश्च पिशाचाश्च महाबलाः
यक्षास्तेन च जीवन्ति भूतसङ्घाश्च दारुणाः ॥ ६३ ॥

गन्धर्वैरप्सरोभिश्च पुनर्दुग्धा वसुन्धरा
कृत्वा वत्सं सुविद्वांसं तैश्च चित्ररथं पुनः ॥ ६४ ॥

दुदुहुः पद्मपात्रे तु गान्धर्वं गीतसङ्कुलम्
सुरुचिर्नाम गन्धर्वस्तेषामासीन्महामतिः ॥ ६५ ॥

दोग्धा पुण्यतमश्चैव तस्याश्च द्विजसत्तमाः
शुचिगीतं महात्मानः सुक्षीरं दुदुहुस्तदा ॥ ६६ ॥

गन्धर्वास्तेन जीवन्ति अन्याश्चाप्सरसस्तथा
पर्वतैश्च महापुण्यैर्दुग्धा चेयं वसुन्धरा ॥ ६७ ॥

रत्नानि विविधान्येव ओषधीश्चामृतोपमाः
वत्सश्चैव महाभागो हिमवान्परिकल्पितः ॥ ६८ ॥

मेरुर्दोग्धा च सञ्जातः पात्रं कृत्वा तु शैलजम्
तेन क्षीरेण संवृद्धाः शैलाः सर्वे महौजसः ॥ ६९ ॥

पुनर्दुग्धा महावृक्षैः पुण्यैः कल्पद्रुमादिभिः
पालाशं पात्रामानिन्युश्छिन्नदग्धप्ररोहणम् ॥ ७० ॥

शालो दुदोह पुष्पाङ्गः प्लक्षो वत्सोऽभवत्तदा
गुह्यकैश्चारणैः सिद्धैर्विद्याधरगणैस्तदा ॥ ७१ ॥

दुग्धा चेयं सर्वधात्री सर्वकामप्रदायिनी
यं यमिच्छन्ति ये लोकाः पात्रवत्सविशेषणैः ॥ ७२ ॥

तैस्तैस्तेषां ददात्येव क्षीरं सद्भावमीदृशम्
इयं धात्री विधात्री तु इयं श्रेष्ठा वसुन्धरा ॥ ७३ ॥

सर्वकामदुघा धेनुरियं पुण्यैरलङ्कृता
इयं ज्येष्ठा प्रतिष्ठा तु इयं सृष्टिरियं प्रजा ॥ ७४ ॥

पावनी पुण्यदा पुण्या सर्वसस्य प्ररोहिणी
चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ॥ ७५ ॥

महालक्ष्मीरियं विद्या सर्वविश्वमयी सदा
सर्वकामदुघा दोग्ध्री सर्वबीजप्ररोहिणी ॥ ७६ ॥

सर्वेषां श्रेयसां माता सर्वलोकधरा इयम्
पञ्चानामपि भूतानां प्रकाशो रूपमेव च ॥ ७७ ॥

असीदियं समुद्रान्ता मेदिनीति परिश्रुता
मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता ॥ ७८ ॥

तेनेयं मेदिनी नाम प्रोच्यते ब्रह्मवादिभिः
ततोभ्युपगमात्प्राज्ञ पृथोर्वैन्यस्य सत्तमाः ॥ ७९ ॥

दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते
तेन राज्ञा द्विजश्रेष्ठाः पालितेयं वसुन्धरा ॥ ८० ॥

ग्रामाधारं गृहाणां च पुरपत्तनमालिनी
सस्याकरवती स्फीता सर्वतीर्थमयी द्विजाः ॥ ८१ ॥

एवं वसुमती देवी सर्वलोकमयी सदा
एवं प्रभावो राजेन्द्रः पुराणे परिपठ्यते ॥ ८२ ॥

पृथुर्वैन्यो महाभागः सर्वकर्मप्रकाशकः
यथा विष्णुर्यथा ब्रह्मा यथा रुद्रः सनातनः ॥ ८३ ॥

नमस्कार्यास्त्रयो देवा देवाद्यैर्ब्रह्मवादिभिः
ब्राह्मणैर्ऋषिभिः सर्वैर्नमस्कार्यो नृपोत्तमः ॥ ८४ ॥

वर्णानामाश्रमाणां यः स्थापकः सर्वलोकधृक्
पार्थिवैश्च महाभागैः पार्थिवत्वमिहेप्सुभिः ॥ ८५ ॥

आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान्
धनुर्वेदार्थिभिर्योधैः सदैव जयकाङ्क्षिभिः ॥ ८६ ॥

नमस्कार्यो महाराजो वृत्तिदाता महीभृताम्
एवं पात्रविशेषाश्च मया ख्याता द्विजोत्तमाः ॥ ८७ ॥

वत्सानां सुविशेषाश्च दोग्धॄणां भवदग्रतः
क्षीरस्यापि विशेषं तु यथोद्दिष्टं हि भूभुजा ॥ ८८ ॥

समाख्यातं तथाग्रे च भवतां वै यथार्थतः
धन्यं यशस्यमारोग्यं पुण्यं पापप्रणाशनम् ॥ ८९ ॥

पृथोर्वैन्यस्य चरितं यः शृणोति द्विजोत्तमाः
तस्य भागीरथी स्नानमहन्यहनि जायते ॥ ९० ॥

सर्वपापविशुद्धात्मा विष्णुलोकं प्रयाति सः ॥ ९१ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे
पृथूपाख्याने एकोनत्रिंशोऽध्यायः २९