ऋषय ऊचुः-
विश्वास-प्रस्तुतिः
विस्तरेण समाख्याहि जन्म तस्य महात्मनः
पृथोश्चैव महाभाग श्रोतुकामा वयं पुनः ॥ १ ॥
मूलम्
विस्तरेण समाख्याहि जन्म तस्य महात्मनः
पृथोश्चैव महाभाग श्रोतुकामा वयं पुनः ॥ १ ॥
विश्वास-प्रस्तुतिः
राज्ञा तेन यथा दुग्धा इयं धात्री महात्मना
पुनर्देवैश्च पितृभिर्मुनिभस्तत्त्ववेदिभिः ॥ २ ॥
मूलम्
राज्ञा तेन यथा दुग्धा इयं धात्री महात्मना
पुनर्देवैश्च पितृभिर्मुनिभस्तत्त्ववेदिभिः ॥ २ ॥
विश्वास-प्रस्तुतिः
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः
शैलैश्चैव पिशाचैश्च गन्धर्वैः पुण्यकर्मभिः ॥ ३ ॥
मूलम्
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः
शैलैश्चैव पिशाचैश्च गन्धर्वैः पुण्यकर्मभिः ॥ ३ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणैश्च तथा सिद्धै राक्षसैर्भीमविक्रमैः
पूर्वमेव यथा दुग्धा अन्यैश्च सुमहात्मभिः ॥ ४ ॥
मूलम्
ब्राह्मणैश्च तथा सिद्धै राक्षसैर्भीमविक्रमैः
पूर्वमेव यथा दुग्धा अन्यैश्च सुमहात्मभिः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तेषामेव हि सर्वेषां विशेषं पात्रधारणम्
क्षीरस्यापि विधिं ब्रूहि विशेषं च महामते ॥ ५ ॥
मूलम्
तेषामेव हि सर्वेषां विशेषं पात्रधारणम्
क्षीरस्यापि विधिं ब्रूहि विशेषं च महामते ॥ ५ ॥
विश्वास-प्रस्तुतिः
वेनस्यापि नृपस्यैव पाणिरेव महात्मनः
ऋषिभिर्मथितः पूर्वं स कस्मादिह कारणात् ॥ ६ ॥
मूलम्
वेनस्यापि नृपस्यैव पाणिरेव महात्मनः
ऋषिभिर्मथितः पूर्वं स कस्मादिह कारणात् ॥ ६ ॥
विश्वास-प्रस्तुतिः
क्रुद्धश्चैव महापुण्यैः सूतपुत्र वदस्व नः
विचित्रेयं कथा पुण्या सर्वपापप्रणाशिनी ॥ ७ ॥
मूलम्
क्रुद्धश्चैव महापुण्यैः सूतपुत्र वदस्व नः
विचित्रेयं कथा पुण्या सर्वपापप्रणाशिनी ॥ ७ ॥
विश्वास-प्रस्तुतिः
श्रोतुकामा महाभाग तृप्तिर्नैव प्रजायते
सूत उवाच-
वैन्यस्य हि पृथोश्चैव तस्य विस्तरमेव च ॥ ८ ॥
मूलम्
श्रोतुकामा महाभाग तृप्तिर्नैव प्रजायते
सूत उवाच-
वैन्यस्य हि पृथोश्चैव तस्य विस्तरमेव च ॥ ८ ॥
विश्वास-प्रस्तुतिः
जन्मवीर्यं तथा क्षेत्रं पौरुषं द्विजसत्तमाः
प्रवक्ष्यामि यथा सर्वं चरित्रं तस्य धीमतः ॥ ९ ॥
मूलम्
जन्मवीर्यं तथा क्षेत्रं पौरुषं द्विजसत्तमाः
प्रवक्ष्यामि यथा सर्वं चरित्रं तस्य धीमतः ॥ ९ ॥
विश्वास-प्रस्तुतिः
शुश्रूषध्वं महाभागा मामेवं द्विजसत्तमाः
अभक्ताय न वक्तव्यमश्रद्धाय शठाय च ॥ १० ॥
मूलम्
शुश्रूषध्वं महाभागा मामेवं द्विजसत्तमाः
अभक्ताय न वक्तव्यमश्रद्धाय शठाय च ॥ १० ॥
विश्वास-प्रस्तुतिः
सुमूर्खाय सुमोहाय कुशिष्याय तथैव च
श्रद्धाहीनाय कूटाय सर्वनाशाय मा द्विजाः ॥ ११ ॥
मूलम्
सुमूर्खाय सुमोहाय कुशिष्याय तथैव च
श्रद्धाहीनाय कूटाय सर्वनाशाय मा द्विजाः ॥ ११ ॥
विश्वास-प्रस्तुतिः
अन्यथा पठते यो हि निरयं च प्रयाति हि
भवन्तो भावसंयुक्ताः सत्यधर्मपरायणाः ॥ १२ ॥
मूलम्
अन्यथा पठते यो हि निरयं च प्रयाति हि
भवन्तो भावसंयुक्ताः सत्यधर्मपरायणाः ॥ १२ ॥
विश्वास-प्रस्तुतिः
भवतामग्रतः सर्वं चरित्रं पापनाशनम्
सम्प्रवक्ष्याम्यशेषेण शृणुध्वं द्विजसत्तमाः ॥ १३ ॥
मूलम्
भवतामग्रतः सर्वं चरित्रं पापनाशनम्
सम्प्रवक्ष्याम्यशेषेण शृणुध्वं द्विजसत्तमाः ॥ १३ ॥
विश्वास-प्रस्तुतिः
स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च सम्मितम्
रहस्यमृषिभिः प्रोक्तं प्रवक्ष्यामि द्विजोत्तमाः ॥ १४ ॥
मूलम्
स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च सम्मितम्
रहस्यमृषिभिः प्रोक्तं प्रवक्ष्यामि द्विजोत्तमाः ॥ १४ ॥
विश्वास-प्रस्तुतिः
यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य विस्तरम्
ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताकृतम् ॥ १५ ॥
मूलम्
यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य विस्तरम्
ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताकृतम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
सप्तजन्मार्जितं पापं श्रुतमात्रेण नश्यति
ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत् ॥ १६ ॥
मूलम्
सप्तजन्मार्जितं पापं श्रुतमात्रेण नश्यति
ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत् ॥ १६ ॥
विश्वास-प्रस्तुतिः
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्
एवं फलं समाप्नोति पठनाच्छ्रवणादपि ॥ १७ ॥
मूलम्
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्
एवं फलं समाप्नोति पठनाच्छ्रवणादपि ॥ १७ ॥
विश्वास-प्रस्तुतिः
पृथोर्जन्मचरित्रं च पवित्रं पापनाशनम्
धर्मगोप्ता महाप्राज्ञो वेदशास्त्रार्थकोविदः ॥ १८ ॥
मूलम्
पृथोर्जन्मचरित्रं च पवित्रं पापनाशनम्
धर्मगोप्ता महाप्राज्ञो वेदशास्त्रार्थकोविदः ॥ १८ ॥
विश्वास-प्रस्तुतिः
अत्रिवंशसमुत्पन्नः पूर्वमत्रिसमः प्रभुः
स्रष्टा सर्वस्य धर्मस्य अङ्गो नाम प्रजापतिः ॥ १९ ॥
मूलम्
अत्रिवंशसमुत्पन्नः पूर्वमत्रिसमः प्रभुः
स्रष्टा सर्वस्य धर्मस्य अङ्गो नाम प्रजापतिः ॥ १९ ॥
विश्वास-प्रस्तुतिः
य आसीत्तस्य पुत्रो वै वेनो नाम प्रजापतिः
धर्ममेवं परित्यज्य सर्वदैव प्रवर्तते ॥ २० ॥
मूलम्
य आसीत्तस्य पुत्रो वै वेनो नाम प्रजापतिः
धर्ममेवं परित्यज्य सर्वदैव प्रवर्तते ॥ २० ॥
विश्वास-प्रस्तुतिः
मृत्योः कन्या महाभागा सुनीथा नाम नामतः
तां तु अङ्गो महाभागः सुनीथामुपयेमिवान् ॥ २१ ॥
मूलम्
मृत्योः कन्या महाभागा सुनीथा नाम नामतः
तां तु अङ्गो महाभागः सुनीथामुपयेमिवान् ॥ २१ ॥
विश्वास-प्रस्तुतिः
तस्यामुत्पादयामास वेनं धर्मप्रणाशनम्
मातामहस्य दोषेण वेनः कालात्मजात्मजः ॥ २२ ॥
मूलम्
तस्यामुत्पादयामास वेनं धर्मप्रणाशनम्
मातामहस्य दोषेण वेनः कालात्मजात्मजः ॥ २२ ॥
विश्वास-प्रस्तुतिः
निजधर्मं परित्यज्य अधर्मनिरतोभवत्
कामाल्लोभान्महामोहात्पापमेव समाचरत् ॥ २३ ॥
मूलम्
निजधर्मं परित्यज्य अधर्मनिरतोभवत्
कामाल्लोभान्महामोहात्पापमेव समाचरत् ॥ २३ ॥
विश्वास-प्रस्तुतिः
वेदाचारमयं धर्मं परित्यज्य नराधिपः
अन्ववर्तत पापेन मदमत्सरमोहितः ॥ २४ ॥
मूलम्
वेदाचारमयं धर्मं परित्यज्य नराधिपः
अन्ववर्तत पापेन मदमत्सरमोहितः ॥ २४ ॥
विश्वास-प्रस्तुतिः
वेदाध्यायं विना लोके प्रावर्तन्त तदा जनाः
निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रजापतौ ॥ २५ ॥
मूलम्
वेदाध्यायं विना लोके प्रावर्तन्त तदा जनाः
निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रजापतौ ॥ २५ ॥
विश्वास-प्रस्तुतिः
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः
इत्युवाच स दुष्टात्मा ब्राह्मणान्प्रति नित्यशः ॥ २६ ॥
मूलम्
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः
इत्युवाच स दुष्टात्मा ब्राह्मणान्प्रति नित्यशः ॥ २६ ॥
विश्वास-प्रस्तुतिः
नाध्येतव्यं न होतव्यं न देयं दानमेव च
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः ॥ २७ ॥
मूलम्
नाध्येतव्यं न होतव्यं न देयं दानमेव च
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः ॥ २७ ॥
विश्वास-प्रस्तुतिः
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते
अहमिज्यश्च यष्टा च यज्ञश्चेति पुनः पुनः ॥ २८ ॥
मूलम्
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते
अहमिज्यश्च यष्टा च यज्ञश्चेति पुनः पुनः ॥ २८ ॥
विश्वास-प्रस्तुतिः
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि
इत्यब्रवीत्सदा वेनो ह्यहं विष्णुः सनातनः ॥ २९ ॥
मूलम्
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि
इत्यब्रवीत्सदा वेनो ह्यहं विष्णुः सनातनः ॥ २९ ॥
विश्वास-प्रस्तुतिः
अहं ब्रह्मा अहं रुद्रो मित्र इन्द्रः सदागतिः
अहमेव प्रभोक्ता च हव्यं कव्यं न संशयः ॥ ३० ॥
मूलम्
अहं ब्रह्मा अहं रुद्रो मित्र इन्द्रः सदागतिः
अहमेव प्रभोक्ता च हव्यं कव्यं न संशयः ॥ ३० ॥
विश्वास-प्रस्तुतिः
अथ ते मुनयः क्रुद्धा वेनं प्रति महाबलाः
ऊचुस्ते सङ्गताः सर्वे राजानं पापचेतनम् ॥ ३१ ॥
मूलम्
अथ ते मुनयः क्रुद्धा वेनं प्रति महाबलाः
ऊचुस्ते सङ्गताः सर्वे राजानं पापचेतनम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
ऋषय ऊचुः-
राजा हि पृथिवीनाथः प्रजां पालयते सदा
धर्ममूर्तिः स राजेन्द्र तस्माद्धर्मं हि रक्षयेत् ॥ ३२ ॥
मूलम्
ऋषय ऊचुः-
राजा हि पृथिवीनाथः प्रजां पालयते सदा
धर्ममूर्तिः स राजेन्द्र तस्माद्धर्मं हि रक्षयेत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
वयं दीक्षां प्रवेक्ष्यामो यज्ञे द्वादशवार्षिकीम्
अधर्मं कुरु मा यागे नैष धर्मः सतां गतिः ॥ ३३ ॥
मूलम्
वयं दीक्षां प्रवेक्ष्यामो यज्ञे द्वादशवार्षिकीम्
अधर्मं कुरु मा यागे नैष धर्मः सतां गतिः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
कुरु धर्मं महाराज सत्यं पुण्यं समाचर
प्रजाहं पालयिष्यामि इति ते समयः कृतः ॥ ३४ ॥
मूलम्
कुरु धर्मं महाराज सत्यं पुण्यं समाचर
प्रजाहं पालयिष्यामि इति ते समयः कृतः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तांस्तथाब्रुवतः सर्वान्महर्षीनब्रवीत्तदा
वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थकम् ॥ ३५ ॥
मूलम्
तांस्तथाब्रुवतः सर्वान्महर्षीनब्रवीत्तदा
वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थकम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
वेन उवाच-
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया
श्रुतवीर्यतपः सत्ये मया वा कः समो भुवि ॥ ३६ ॥
मूलम्
वेन उवाच-
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया
श्रुतवीर्यतपः सत्ये मया वा कः समो भुवि ॥ ३६ ॥
विश्वास-प्रस्तुतिः
प्रभवं सर्वभूतानां धर्माणां च विशेषतः
सम्मूढा न विदुर्नूनं भवन्तो मां विचेतसः ॥ ३७ ॥
मूलम्
प्रभवं सर्वभूतानां धर्माणां च विशेषतः
सम्मूढा न विदुर्नूनं भवन्तो मां विचेतसः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
इच्छन्दहेयं पृथिवीं प्लावयेयं जलैस्तथा
द्यां भुवं चैव रुन्धेयं नात्र कार्या विचारणा ॥ ३८ ॥
मूलम्
इच्छन्दहेयं पृथिवीं प्लावयेयं जलैस्तथा
द्यां भुवं चैव रुन्धेयं नात्र कार्या विचारणा ॥ ३८ ॥
विश्वास-प्रस्तुतिः
यदा न शक्यते मोहादवलेपाच्च पार्थिव
अपनेतुं तदा वेनं ततः क्रुद्धा महर्षयः ॥ ३९ ॥
मूलम्
यदा न शक्यते मोहादवलेपाच्च पार्थिव
अपनेतुं तदा वेनं ततः क्रुद्धा महर्षयः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
विस्फुरन्तं तदा वेनं बलाद्गृह्य ततो रुषा
वेनस्य तस्य सव्योरुं ममन्थुर्जातमन्यवः ॥ ४० ॥
मूलम्
विस्फुरन्तं तदा वेनं बलाद्गृह्य ततो रुषा
वेनस्य तस्य सव्योरुं ममन्थुर्जातमन्यवः ॥ ४० ॥
विश्वास-प्रस्तुतिः
कृष्णाञ्जनचयोपेतमतिह्रस्वं विलक्षणम्
दीर्घास्यं च विरूपाक्षं नीलकञ्चुकवर्चसम् ॥ ४१ ॥
मूलम्
कृष्णाञ्जनचयोपेतमतिह्रस्वं विलक्षणम्
दीर्घास्यं च विरूपाक्षं नीलकञ्चुकवर्चसम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
लम्बोदरं व्यूढकर्णमतिभीतं दुरोदरम्
ददृशुस्ते महात्मानो निषीदेत्यब्रुवंस्ततः ॥ ४२ ॥
मूलम्
लम्बोदरं व्यूढकर्णमतिभीतं दुरोदरम्
ददृशुस्ते महात्मानो निषीदेत्यब्रुवंस्ततः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तेषां तद्वचनं श्रुत्वा निषसाद भयातुरः
पर्वतेषु वनेष्वेव तस्य वंशः प्रतिष्ठितः ॥ ४३ ॥
मूलम्
तेषां तद्वचनं श्रुत्वा निषसाद भयातुरः
पर्वतेषु वनेष्वेव तस्य वंशः प्रतिष्ठितः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
निषादाश्च किराताश्च भिल्लानाहलकास्तथा
भ्रमराश्च पुलिन्दाश्च ये चान्ये म्लेच्छजातयः ॥ ४४ ॥
मूलम्
निषादाश्च किराताश्च भिल्लानाहलकास्तथा
भ्रमराश्च पुलिन्दाश्च ये चान्ये म्लेच्छजातयः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
पापाचारास्तु ते सर्वे तस्मादङ्गात्प्रजज्ञिरे
अथ ते ऋषयः सर्वे प्रसन्नमनसस्ततः ॥ ४५ ॥
मूलम्
पापाचारास्तु ते सर्वे तस्मादङ्गात्प्रजज्ञिरे
अथ ते ऋषयः सर्वे प्रसन्नमनसस्ततः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
गतकल्मषमेवं तं जातं वेनं नृपोत्तमम्
ममन्थुर्दक्षिणं पाणिं तस्यैव च महात्मनः ॥ ४६ ॥
मूलम्
गतकल्मषमेवं तं जातं वेनं नृपोत्तमम्
ममन्थुर्दक्षिणं पाणिं तस्यैव च महात्मनः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
मथिते तस्य पाणौ तु सञ्जातं स्वेदमेव हि
पुनर्ममन्थुस्ते विप्रा दक्षिणं पाणिमेव च ॥ ४७ ॥
मूलम्
मथिते तस्य पाणौ तु सञ्जातं स्वेदमेव हि
पुनर्ममन्थुस्ते विप्रा दक्षिणं पाणिमेव च ॥ ४७ ॥
विश्वास-प्रस्तुतिः
सुकरात्पुरुषो जज्ञे द्वादशादित्यसन्निभः
तप्तकाञ्चनवर्णाङ्गो दिव्यमाल्याम्बरावृतः ॥ ४८ ॥
मूलम्
सुकरात्पुरुषो जज्ञे द्वादशादित्यसन्निभः
तप्तकाञ्चनवर्णाङ्गो दिव्यमाल्याम्बरावृतः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
दिव्याभरणशोभाङ्गो दिव्यगन्धानुलेपनः
मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजते ॥ ४९ ॥
मूलम्
दिव्याभरणशोभाङ्गो दिव्यगन्धानुलेपनः
मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजते ॥ ४९ ॥
विश्वास-प्रस्तुतिः
महाकायो महाबाहू रूपेणाप्रतिमो भुवि
खड्गबाणधरो धन्वी कवची च महाप्रभुः ॥ ५० ॥
मूलम्
महाकायो महाबाहू रूपेणाप्रतिमो भुवि
खड्गबाणधरो धन्वी कवची च महाप्रभुः ॥ ५० ॥
विश्वास-प्रस्तुतिः
सर्वलक्षणसम्पन्नः सर्वालङ्कारभूषणः
तेजसा रूपभावेन सुवर्णैश्च महामतिः ॥ ५१ ॥
मूलम्
सर्वलक्षणसम्पन्नः सर्वालङ्कारभूषणः
तेजसा रूपभावेन सुवर्णैश्च महामतिः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
दिवि इन्द्रो यथा भाति भुवि वेनात्मजस्तथा
तस्मिञ्जाते महाभागे देवाश्च ऋषयोमलाः ॥ ५२ ॥
मूलम्
दिवि इन्द्रो यथा भाति भुवि वेनात्मजस्तथा
तस्मिञ्जाते महाभागे देवाश्च ऋषयोमलाः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
उत्सवं चक्रिरे सर्वे वेनस्य तनयं प्रति
दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्ज्वलः ॥ ५३ ॥
मूलम्
उत्सवं चक्रिरे सर्वे वेनस्य तनयं प्रति
दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्ज्वलः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
आद्यमाजगवं नाम धनुर्गृह्य महावरम्
शरान्दिव्यांश्च रक्षार्थे कवचं च महाप्रभम् ॥ ५४ ॥
मूलम्
आद्यमाजगवं नाम धनुर्गृह्य महावरम्
शरान्दिव्यांश्च रक्षार्थे कवचं च महाप्रभम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
जाते सति महाभागे पृथौ वीरे महात्मनि
सम्प्रह्रष्टानि भूतानि समस्तानि द्विजोत्तम ॥ ५५ ॥
मूलम्
जाते सति महाभागे पृथौ वीरे महात्मनि
सम्प्रह्रष्टानि भूतानि समस्तानि द्विजोत्तम ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सर्वतीर्थानि तोयानि पुण्यानि विविधानि च
तस्याभिषेके विप्रेन्द्राः सर्व एव प्रतस्थिरे ॥ ५६ ॥
मूलम्
सर्वतीर्थानि तोयानि पुण्यानि विविधानि च
तस्याभिषेके विप्रेन्द्राः सर्व एव प्रतस्थिरे ॥ ५६ ॥
विश्वास-प्रस्तुतिः
पितामहाद्या देवास्तु भूतानि विविधानि च
स्थावराणि चराण्येव अभ्यषिञ्चन्नराधिपम् ॥ ५७ ॥
मूलम्
पितामहाद्या देवास्तु भूतानि विविधानि च
स्थावराणि चराण्येव अभ्यषिञ्चन्नराधिपम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
महावीरं प्रजापालं पृथुमेव द्विजोत्तम
पृथुर्वैन्यो राजराज्ये अभिगम्य चराचरैः ॥ ५८ ॥
मूलम्
महावीरं प्रजापालं पृथुमेव द्विजोत्तम
पृथुर्वैन्यो राजराज्ये अभिगम्य चराचरैः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
देवैर्विप्रैस्तथा सर्वैरभिषिक्तो महामनाः
राज्ञां समधिराज्ये वै पृथुर्वैन्यः प्रतापवान् ॥ ५९ ॥
मूलम्
देवैर्विप्रैस्तथा सर्वैरभिषिक्तो महामनाः
राज्ञां समधिराज्ये वै पृथुर्वैन्यः प्रतापवान् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तस्य पित्रा प्रजाः सर्वाः कदा नैवानुरञ्जिताः
तेनानुरञ्जिताः सर्वा मुमुदिरे सुखेन वै ॥ ६० ॥
मूलम्
तस्य पित्रा प्रजाः सर्वाः कदा नैवानुरञ्जिताः
तेनानुरञ्जिताः सर्वा मुमुदिरे सुखेन वै ॥ ६० ॥
विश्वास-प्रस्तुतिः
अनुरागात्तस्य वीरस्य नाम राजेत्यजायत
प्रयातस्य सुवीरस्य समुद्रस्य द्विजोत्तम ॥ ६१ ॥
मूलम्
अनुरागात्तस्य वीरस्य नाम राजेत्यजायत
प्रयातस्य सुवीरस्य समुद्रस्य द्विजोत्तम ॥ ६१ ॥
विश्वास-प्रस्तुतिः
आपस्तस्तम्भिरे सर्वा भयात्तस्य महात्मनः
दुर्गं मार्गं विलोप्यैव सुमार्गं पर्वता ददुः ॥ ६२ ॥
मूलम्
आपस्तस्तम्भिरे सर्वा भयात्तस्य महात्मनः
दुर्गं मार्गं विलोप्यैव सुमार्गं पर्वता ददुः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
ध्वजभङ्गं न चक्रुस्ते गिरयः सर्व एव ते
अकृष्टपच्या पृथिवी सर्वत्र कामधेनवः ॥ ६३ ॥
मूलम्
ध्वजभङ्गं न चक्रुस्ते गिरयः सर्व एव ते
अकृष्टपच्या पृथिवी सर्वत्र कामधेनवः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
पर्जन्यः कामवर्षी च वेदयज्ञान्महोत्सवान्
कुर्वन्ति ब्राह्मणाः सर्वे क्षत्रियाश्च तथा परे ॥ ६४ ॥
मूलम्
पर्जन्यः कामवर्षी च वेदयज्ञान्महोत्सवान्
कुर्वन्ति ब्राह्मणाः सर्वे क्षत्रियाश्च तथा परे ॥ ६४ ॥
विश्वास-प्रस्तुतिः
सर्वकामफला वृक्षास्तस्मिञ्छासति पार्थिवे
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ॥ ६५ ॥
मूलम्
सर्वकामफला वृक्षास्तस्मिञ्छासति पार्थिवे
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
सर्वे सुखेन जीवन्ति लोका धर्मपरायणाः
तस्मिञ्छासति दुर्धर्षे राजराजे महात्मनि ॥ ६६ ॥
मूलम्
सर्वे सुखेन जीवन्ति लोका धर्मपरायणाः
तस्मिञ्छासति दुर्धर्षे राजराजे महात्मनि ॥ ६६ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे
सूत सूत्यां समुत्पन्नः सौम्येहनि महात्मनि ॥ ६७ ॥
मूलम्
एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे
सूत सूत्यां समुत्पन्नः सौम्येहनि महात्मनि ॥ ६७ ॥
विश्वास-प्रस्तुतिः
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः
पृथोःस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ ६८ ॥
मूलम्
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः
पृथोःस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
सूतस्य लक्षणं वक्ष्ये महापुण्यं द्विजोत्तमाः
शिखासूत्रेण संयुक्तो वेदाध्ययनतत्परः ॥ ६९ ॥
मूलम्
सूतस्य लक्षणं वक्ष्ये महापुण्यं द्विजोत्तमाः
शिखासूत्रेण संयुक्तो वेदाध्ययनतत्परः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
सर्वशास्त्रार्थवेत्तासावग्निहोत्रमुपासते
दानाध्ययनसम्पन्नो ब्रह्माचारपरायणः ॥ ७० ॥
मूलम्
सर्वशास्त्रार्थवेत्तासावग्निहोत्रमुपासते
दानाध्ययनसम्पन्नो ब्रह्माचारपरायणः ॥ ७० ॥
विश्वास-प्रस्तुतिः
देवानां ब्राह्मणानां च पूजनाभिरतः सदा
याचकस्तावकैः पुण्यैर्वेदमन्त्रैर्यजेत्किल ॥ ७१ ॥
मूलम्
देवानां ब्राह्मणानां च पूजनाभिरतः सदा
याचकस्तावकैः पुण्यैर्वेदमन्त्रैर्यजेत्किल ॥ ७१ ॥
विश्वास-प्रस्तुतिः
ब्रह्माचारपरो नित्यं सम्बन्धं ब्राह्मणैः सह
एवं स मागधो जज्ञे वेदाध्ययनवर्जितः ॥ ७२ ॥
मूलम्
ब्रह्माचारपरो नित्यं सम्बन्धं ब्राह्मणैः सह
एवं स मागधो जज्ञे वेदाध्ययनवर्जितः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
बन्दिनश्चारणाः सर्वे ब्रह्माचारविवर्जिताः
ज्ञेयास्ते च महाभागाः स्तावकाः प्रभवन्ति ते ॥ ७३ ॥
मूलम्
बन्दिनश्चारणाः सर्वे ब्रह्माचारविवर्जिताः
ज्ञेयास्ते च महाभागाः स्तावकाः प्रभवन्ति ते ॥ ७३ ॥
विश्वास-प्रस्तुतिः
स्तवनार्थमुभौ सृष्टौ निपुणौ सूतमागधौ
तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः ॥ ७४ ॥
मूलम्
स्तवनार्थमुभौ सृष्टौ निपुणौ सूतमागधौ
तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः ॥ ७४ ॥
विश्वास-प्रस्तुतिः
कर्मैतदनुरूपं च यादृशोयं नराधिपः
तावूचतुस्तदा सर्वांस्तानृषीन्बन्दिमागधौ ॥ ७५ ॥
मूलम्
कर्मैतदनुरूपं च यादृशोयं नराधिपः
तावूचतुस्तदा सर्वांस्तानृषीन्बन्दिमागधौ ॥ ७५ ॥
विश्वास-प्रस्तुतिः
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः
न चास्य विद्वो वै कर्म न तथा लक्षणं यशः ॥ ७६ ॥
मूलम्
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः
न चास्य विद्वो वै कर्म न तथा लक्षणं यशः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
कर्मणा येन कुर्यावः स्तोत्रमस्य महात्मनः
जानीवस्तन्न विप्रेन्द्रा अविज्ञातगुणस्य हि ॥ ७७ ॥
मूलम्
कर्मणा येन कुर्यावः स्तोत्रमस्य महात्मनः
जानीवस्तन्न विप्रेन्द्रा अविज्ञातगुणस्य हि ॥ ७७ ॥
विश्वास-प्रस्तुतिः
भविष्यैस्तैर्गुणैः पुण्यैः स्तोतव्योयं नरोत्तमः
कृतवान्यानि कर्माणि पृथुरेव महायशाः ॥ ७८ ॥
मूलम्
भविष्यैस्तैर्गुणैः पुण्यैः स्तोतव्योयं नरोत्तमः
कृतवान्यानि कर्माणि पृथुरेव महायशाः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
ऊचुस्ते मुनयः सर्वे गुणान्दिव्यान्महात्मनः
सत्यवाञ्ज्ञानसम्पन्नो बुद्धिमान्ख्यातविक्रमः ॥ ७९ ॥
मूलम्
ऊचुस्ते मुनयः सर्वे गुणान्दिव्यान्महात्मनः
सत्यवाञ्ज्ञानसम्पन्नो बुद्धिमान्ख्यातविक्रमः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
सदा शूरो गुणग्राही पुण्यवांस्त्यागवान्गुणी
धार्मिकः सत्यवादी च यज्ञानां याजकोत्तमः ॥ ८० ॥
मूलम्
सदा शूरो गुणग्राही पुण्यवांस्त्यागवान्गुणी
धार्मिकः सत्यवादी च यज्ञानां याजकोत्तमः ॥ ८० ॥
विश्वास-प्रस्तुतिः
प्रियवाक्सत्यवादी च धान्यवान्धनवान्गुणी
गुणज्ञः सगुणग्राही धर्मज्ञः सत्यवत्सलः ॥ ८१ ॥
मूलम्
प्रियवाक्सत्यवादी च धान्यवान्धनवान्गुणी
गुणज्ञः सगुणग्राही धर्मज्ञः सत्यवत्सलः ॥ ८१ ॥
विश्वास-प्रस्तुतिः
सर्वगः सर्ववेत्ता च ब्रह्मण्यो वेदवित्सुधीः
प्रज्ञावान्सुस्वरश्चैव वेदवेदाङ्गपारगः ॥ ८२ ॥
मूलम्
सर्वगः सर्ववेत्ता च ब्रह्मण्यो वेदवित्सुधीः
प्रज्ञावान्सुस्वरश्चैव वेदवेदाङ्गपारगः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
धाता गोप्ता प्रजानां स विजयी समराङ्गणे
राजसूयादिकानां तु यज्ञानां राजसत्तमः ॥ ८३ ॥
मूलम्
धाता गोप्ता प्रजानां स विजयी समराङ्गणे
राजसूयादिकानां तु यज्ञानां राजसत्तमः ॥ ८३ ॥
विश्वास-प्रस्तुतिः
आहर्ता भूतले चैकः सर्वधर्मसमन्वितः
एते गुणा अस्य चाङ्गे भविष्यन्ति महात्मनः ॥ ८४ ॥
मूलम्
आहर्ता भूतले चैकः सर्वधर्मसमन्वितः
एते गुणा अस्य चाङ्गे भविष्यन्ति महात्मनः ॥ ८४ ॥
विश्वास-प्रस्तुतिः
ऋषिभिस्तौ नियुक्तौ तु कुर्वाणौ सूतमागधौ
गुणैश्चैव भविष्यैश्च स्तोत्रं तस्य महात्मनः ॥ ८५ ॥
मूलम्
ऋषिभिस्तौ नियुक्तौ तु कुर्वाणौ सूतमागधौ
गुणैश्चैव भविष्यैश्च स्तोत्रं तस्य महात्मनः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
तदा प्रभृति वै लोकास्तवैस्तुष्टा महामते
पुरतश्च भविष्यन्ति दातारः स्तावनैर्गुणैः ॥ ८६ ॥
मूलम्
तदा प्रभृति वै लोकास्तवैस्तुष्टा महामते
पुरतश्च भविष्यन्ति दातारः स्तावनैर्गुणैः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
ततः प्रभृति लोकेस्मिन्स्तवेषु द्विजसत्तमाः
आशीर्वादाः प्रयुज्यन्ते तेषां द्रविणमुत्तमम् ॥ ८७ ॥
मूलम्
ततः प्रभृति लोकेस्मिन्स्तवेषु द्विजसत्तमाः
आशीर्वादाः प्रयुज्यन्ते तेषां द्रविणमुत्तमम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
सूताय मागधायैव बन्दिने च महोदयम्
चारणाय ततः प्रादात्तैलङ्गं देशमुत्तमम् ॥ ८८ ॥
मूलम्
सूताय मागधायैव बन्दिने च महोदयम्
चारणाय ततः प्रादात्तैलङ्गं देशमुत्तमम् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
पृथुः प्रसादाद्धर्मात्मा हैहयं देशमेव च
रेवातीरे पुरं कृत्वा स्वनाम्ना नृपनन्दनः ॥ ८९ ॥
मूलम्
पृथुः प्रसादाद्धर्मात्मा हैहयं देशमेव च
रेवातीरे पुरं कृत्वा स्वनाम्ना नृपनन्दनः ॥ ८९ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणेभ्यो द्विजश्रेष्ठ यजन्दाता पृथुः पुरा
सर्वज्ञं सर्वदातारं धर्मवीर्यं नरोत्तमम् ॥ ९० ॥
मूलम्
ब्राह्मणेभ्यो द्विजश्रेष्ठ यजन्दाता पृथुः पुरा
सर्वज्ञं सर्वदातारं धर्मवीर्यं नरोत्तमम् ॥ ९० ॥
विश्वास-प्रस्तुतिः
तं ददृशुः प्रजाः सर्वा मुनयश्च तपोमलाः
ऊचुः परस्परं पुण्या एष राजा महामतिः ॥ ९१ ॥
मूलम्
तं ददृशुः प्रजाः सर्वा मुनयश्च तपोमलाः
ऊचुः परस्परं पुण्या एष राजा महामतिः ॥ ९१ ॥
विश्वास-प्रस्तुतिः
देवादीनां वृत्तिदाता अस्माकं च विशेषतः
प्रजानां पालकश्चैव वृत्तिदो हि भविष्यति ॥ ९२ ॥
मूलम्
देवादीनां वृत्तिदाता अस्माकं च विशेषतः
प्रजानां पालकश्चैव वृत्तिदो हि भविष्यति ॥ ९२ ॥
विश्वास-प्रस्तुतिः
इयं धात्री महाप्राज्ञा उप्तं बीजं पुरा किल
जीवनार्थं प्रजाभिस्तु ग्रासयित्वा स्थिराभवत् ॥ ९३ ॥
मूलम्
इयं धात्री महाप्राज्ञा उप्तं बीजं पुरा किल
जीवनार्थं प्रजाभिस्तु ग्रासयित्वा स्थिराभवत् ॥ ९३ ॥
विश्वास-प्रस्तुतिः
ततः पृथुं द्विजश्रेष्ठ प्रजाः समभिदुद्रुवुः
विधत्स्वेति सुवृत्तिं नो मुनीनां वचनं तदा ॥ ९४ ॥
मूलम्
ततः पृथुं द्विजश्रेष्ठ प्रजाः समभिदुद्रुवुः
विधत्स्वेति सुवृत्तिं नो मुनीनां वचनं तदा ॥ ९४ ॥
विश्वास-प्रस्तुतिः
ग्रासयित्वा तदान्नानि पृथ्वी जाता सुनिश्चला
भयं प्रजानां सुमहत्स दृष्ट्वा राजसत्तमः ॥ ९५ ॥
मूलम्
ग्रासयित्वा तदान्नानि पृथ्वी जाता सुनिश्चला
भयं प्रजानां सुमहत्स दृष्ट्वा राजसत्तमः ॥ ९५ ॥
विश्वास-प्रस्तुतिः
महर्षिवचनात्सोपि प्रगृह्य सशरं धनुः
अभ्यधावत वेगेन पृथ्वीं क्रुद्धो नराधिपः ॥ ९६ ॥
मूलम्
महर्षिवचनात्सोपि प्रगृह्य सशरं धनुः
अभ्यधावत वेगेन पृथ्वीं क्रुद्धो नराधिपः ॥ ९६ ॥
विश्वास-प्रस्तुतिः
कौञ्जरं रूपमास्थाय भयात्तस्य तु मेदिनी
वनेषु दुर्गदेशेषु गुप्ता भूत्वा चचार सा ॥ ९७ ॥
मूलम्
कौञ्जरं रूपमास्थाय भयात्तस्य तु मेदिनी
वनेषु दुर्गदेशेषु गुप्ता भूत्वा चचार सा ॥ ९७ ॥
विश्वास-प्रस्तुतिः
न पश्यति महाप्राज्ञः कुरूपं द्विजसत्तमाः
आचचक्षुर्महाप्राज्ञं कुञ्जरं रूपमास्थिता ॥ ९८ ॥
मूलम्
न पश्यति महाप्राज्ञः कुरूपं द्विजसत्तमाः
आचचक्षुर्महाप्राज्ञं कुञ्जरं रूपमास्थिता ॥ ९८ ॥
विश्वास-प्रस्तुतिः
ततः कुञ्जररूपान्तामभिदुद्राव पार्थिवः
ताड्यमाना च सा तेन निशितैर्मार्गणैस्ततः ॥ ९९ ॥
मूलम्
ततः कुञ्जररूपान्तामभिदुद्राव पार्थिवः
ताड्यमाना च सा तेन निशितैर्मार्गणैस्ततः ॥ ९९ ॥
हरिरूपं समास्थाय पलायनपराभवत्
हरेरूपं समास्थाय अभिदुद्राव पार्थिवः १००
सोतिक्रुद्धो महाप्राज्ञो रोषारुणसुलोचनः
सुबाणैर्निशितैस्तीक्ष्णैराजघान स मेदिनीम् १०१
आकुलव्याकुला जाता बाणाघातहता तदा
माहिषं रूपमास्थाय पलायनपराभवत् १०२
अभ्यधावत वेगेन बाणपाणिर्धनुर्धरः
सा गौर्भूत्वा द्विजश्रेष्ठा स्वर्गमेव गता ध्रुवम् १०३
ब्रह्मणः शरणं प्राप्ता विष्णोश्चैव महात्मनः
रुद्रादीनां च देवानां त्राणस्थानं न विन्दति १०४
अलभन्ती भृशं त्राणं वैन्यमेवान्वविन्दत
तस्य पार्श्वं पुनः प्राप्ता बाणघातसमाकुला १०५
बद्धाञ्जलिपुटाभूत्वा तं पृथुं वाक्यमब्रवीत्
त्राहित्राहीति राजेन्द्र सा राजानमभाषत १०६
अहं धात्री महाभाग सर्वाधारा वसुन्धरा
निहतायां मयि नृप निहतं लोकसप्तकम् १०७
कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा
उवाच चैनं राजानमवध्या स्त्री सदा नृप १०८
स्त्रीणां वधे महत्पापं दृष्टमस्ति द्विजोत्तमैः
गवां वधे महत्पापं दृष्टमस्ति द्विजोत्तमैः १०९
मया विना महाराज कथं धारयसे प्रजाः
अहं यदास्थिरा राजंस्तदा लोकाश्चराचराः ११०
स्थिरत्वं यान्ति ते सर्वे स्थिरीभूता यदा ह्यहम्
मां विना तु इमे लोका विनश्येयुश्चराचराः १११
ततः प्रजा विनश्येयुर्मम नाशे समागते
कथं धारयिता चासि प्रजा राजन्मया विना ११२
मयि लोकाः स्थिरा राजन्मयेदं धार्यते जगत्
मद्विनाशे विनश्येयुः प्रजाः सर्वा न संशयः ११३
न मामर्हसि वै हन्तुं श्रेयश्चेत्त्वं चिकीर्षसि
प्रजानां पृथिवीपाल शृणु देव वचो मम ११४
उपायैश्च महाभाग सुसिद्धिं यान्त्युपक्रमाः
समालोक्य ह्युपायं त्वं प्रजा येन धरिष्यति ११५
मां हत्वा त्वं महाराज धारणे पालने सदा
पोषणे च महाप्राज्ञ मद्विना हि कथं नृप ११६
धरिष्यसि प्रजां चेमां कोपं यच्छ त्वमात्मनः
अन्नमयी भविष्यामि धरिष्यामि प्रजामिमाम् ११७
अहं नारी अवध्या च प्रायश्चित्ती भविष्यसि
अवध्यां तु स्त्रियं प्राहुस्तिर्यग्योनिगतामपि ११८
विचार्यैवं महाराज न धर्मं त्यक्तुमर्हसि
एवं नानाविधैर्वाक्यैरुक्तो धात्र्या नराधिपः ११९
कोपमेनं महाराज त्यज दारुणमेव हि
प्रसन्ने त्वयि राजेन्द्र तदा स्वस्था भवाम्यहम् १२०
एवमुक्तस्तया राजा पृथुर्वैन्यः प्रजापतिः
तामुवाच महाभागां धरित्रीं द्विजसत्तमाः १२१