०२७

सूत उवाच-

विश्वास-प्रस्तुतिः

स प्रभुः सर्वलोकेशो ह्यभिषिच्य ततो नृपम्
पृथुं वेनस्य तनयं सर्वराज्ये महाप्रभुम् ॥ १ ॥

मूलम्

महाबाहुं महाकायं यथेन्द्रं च सुरेश्वरम्
क्रमेणापि ततो ब्रह्मा राज्यानि च विचार्य वै ॥ २ ॥

यद्यस्यापि भवेद्योग्यं दातुं तदुपचक्रमे
वृक्षाणां ब्राह्मणानां च ग्रहर्क्षाणां तथैव च ॥ ३ ॥

सोमं राज्ये सोभ्यषिञ्चत्तपसां च महामतिः
धर्माणां धर्मयज्ञानां पुण्यानां पुण्यतेजसाम् ॥ ४ ॥

अपां मध्ये तथा देवं तीर्थानां हि तथैव च
वरुणं सोभिषिच्यैव रत्नानां च द्विजोत्तम ॥ ५ ॥

अन्येषां सर्वयक्षाणां राज्ये वैश्रवणं पुनः
विष्णुमेव महाप्राज्ञमादित्यानां पितामहः ॥ ६ ॥

राज्ये संस्थापयामास जनता हितहेतवे
सर्वेषामेव पुण्यानां दक्षमेव प्रजापतिम् ॥ ७ ॥

समर्थं सर्वधर्मज्ञं प्रजापतिगणेश्वरम्
प्रह्रादं सर्वधर्मज्ञं स हि राज्ये न्यरूपयत् ॥ ८ ॥

दैत्यानां दानवानां च विष्णुतेजः समन्वितम्
यमं वैवस्वतं धर्मं पैत्र्ये राज्येभिषिच्य च ॥ ९ ॥

यक्षराक्षसभूतानां पिशाचोरगसर्पिणाम्
योगिनीनां च सर्वासां वैतालानां महात्मनाम् ॥ १० ॥

कङ्कालानां हि सर्वेषां कूष्माण्डानां तथैव च
पार्थिवानां च सर्वेषां गिरिशं शूलपाणिनम् ॥ ११ ॥

पर्वतानां हि सर्वेषां हिमवन्तं महागिरिम्
नदीनां च तडागानां वापिकानां तथैव च ॥ १२ ॥

कुण्डानां कूपराज्ये हि दिव्येषु च सुरेश्वरः
सागरं स्थापितं पुण्यं सर्वतीर्थमनुत्तमम् ॥ १३ ॥

गन्धर्वाणां तु सर्वेषां राज्ये पुण्ये तथैव च
चित्ररथं ततो ब्रह्मा अभिषिच्य सुरेश्वरः ॥ १४ ॥

नागानां पुण्यवीर्याणां वासुकिं च चतुर्मुखः
सर्पाणां तु तथा राज्ये अभिषिच्य स तक्षकम् ॥ १५ ॥

वारणानां ततो राज्ये ऐरावणमसिञ्चत
अश्वानां चैव सर्वेषामुच्चैःश्रवसमेव च ॥ १६ ॥

पक्षिणां चैव सर्वेषां वैनतेयमथापि सः
मृगाणां च ततो राज्ये ब्रह्मा सिंहमथादिशत् ॥ १७ ॥

गोवृषं तु गवां मध्ये अभिषिच्य प्रजापतिः
वनस्पतीनां सर्वेषां प्लक्षमेव पितामहः ॥ १८ ॥

एवं राज्यानि सर्वाणि संस्थाप्य च पितामहः
दिशापालांस्ततो ब्रह्मा स्थापयामास सत्तमः ॥ १९ ॥

वैराजस्य तथा पुत्रं पूर्वस्यां दिशि सत्तमः
सुधन्वानं दिशःपालं राजानं सोभ्यषिञ्चत ॥ २० ॥

दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः
पुत्रं शङ्खपदं नाम राजानं सोभ्यषिञ्चत ॥ २१ ॥

पश्चिमायां तथा ब्रह्मा वरुणस्य प्रजापतेः
पुत्रं च पुष्करं नाम सोऽभ्यषिञ्चत्प्रजापतिः ॥ २२ ॥

उत्तरस्यां दिशि ब्रह्म नलकूबरमेव च
एवं चैवाभ्यषिञ्चच्च दिक्पालान्समहौजसः ॥ २३ ॥

यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना
यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ॥ २४ ॥

पृथुश्चैवं महाभागः सोभिषिक्तो नराधिपः
राजसूयादिभिः सर्वैरभिषिक्तो महामखैः ॥ २५ ॥

विधिना वेददृष्टेन राजराज्ये महीपतिः
चाक्षुषे नाम्नि सम्पुण्ये अतीते च महौजसि ॥ २६ ॥

मन्वन्तरे महाभाग देवपुण्यहितैषिणि
ततो वैवस्वतायैव मनवे राज्यमादिशत् ॥ २७ ॥

विस्तरं चापि व्याख्यास्ये पृथोश्चैव महात्मनः
यदि मामेव विप्रेन्द्र शुश्रूषसि अतन्द्रितः ॥ २८ ॥

एतदेवमधिष्ठानं महत्पुण्यं प्रकीर्तितम्
सर्वेष्वेव पुराणेषु एतद्धि निश्चितं सदा ॥ २९ ॥

पुण्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम्
धन्यं पवित्रमायुष्यं पुत्रदं वृद्धिदायकम् ॥ ३० ॥

यः शृणोति नरो भक्त्या भावध्यानसमन्वितः
अश्वमेधफलं तस्य जायते नात्र संशयः ॥ ३१ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे
राज्याभिषेकोनाम सप्तविंशोऽध्यायः २७