सूत उवाच-
विश्वास-प्रस्तुतिः
तं पुत्रं निहतं श्रुत्वा सा दितिर्दुःखपीडिता
पुत्रशोकेन तेनैव सन्दग्धा द्विजसत्तमाः ॥ १ ॥
मूलम्

पुनरूचे महात्मानं कश्यपं मुनिपुङ्गवम्
इन्द्रस्यापि सुदुष्टस्य वधार्थं द्विजसत्तम ॥ २ ॥

ब्रह्मतेजोमयं तीव्रं दुःसहं सर्वदैवतैः
पुत्रैकं दीयतां कान्त सुप्रियाहं यदा विभो ॥ ३ ॥

कश्यप उवाच-
निहतौ बलवृत्रौ च मम पुत्रौ महाबलौ
अघमाश्रित्य देवेन इन्द्रेणापि दुरात्मना ॥ ४ ॥

तस्यैव च वधार्थाय पुत्रमेकं ददाम्यहम्
वर्षाणां तु शतैकं त्वं शुचिर्भव यशस्विनि ॥ ५ ॥

एवमुक्त्वा स योगीन्द्रो हस्तं शिरसि वै तदा
दत्त्वादित्या सहैवासौ गतो मेरुं तपोवनम् ॥ ६ ॥

तपस्तताप सा देवी तपोवननिवासिनी
शुचिष्मती सदा भूत्वा पुत्रार्था द्विजसत्तम ॥ ७ ॥

ततो देवः सहस्राक्षो ज्ञात्वा उद्यममेव च
दित्याश्चैव महाभाग अन्तरप्रेक्षकोऽभवत् ॥ ८ ॥

पञ्चविंशाब्दिको भूत्वा देवराड्दैवतोपमः
ब्राह्मणस्य च रूपेण तस्याश्चान्तिकमागतः ॥ ९ ॥

स तां प्रणम्य धर्मात्मा मातरं तपसान्विताम्
तयोक्तस्तु सहस्राक्षो भवान्को द्विजसत्तम ॥ १० ॥

तामुवाच सहस्राक्षः पुत्रोऽहं तव शोभने
ब्राह्मणो वेदविद्वांश्च धर्मं जानामि भामिनि ॥ ११ ॥

तपसस्तव साहाय्यं करिष्ये नात्र संशयः
शुश्रूषति स तां देवीं मातरं तपसान्विताम् ॥ १२ ॥

तमिन्द्रं सा न जानाति आगतं दुष्टकारिणम्
धर्मपुत्रं विजानाति शुश्रूषन्तं दिने दिने ॥ १३ ॥

अङ्गं संवाहयेद्देव्याः पादौ प्रक्षालयेत्ततः
पत्रं मूलं फलं तत्र वल्कलाजिनमेव च ॥ १४ ॥

ददात्येवं स धर्मात्मा तस्यै दित्यै सदैव हि
भक्त्या सन्तोषिता तस्य सन्तुष्टा तमभाषत ॥ १५ ॥

पुत्रे जाते महापुण्ये इन्द्रे च निहते सति
कुरु राज्यं महाभाग पुत्रेण मम दैवकम् ॥ १६ ॥

एवमस्तु महाभागे ते प्रसादाद्भविष्यति
तस्याश्चैवान्तरं प्रेप्सुरभवत्पाकशासनः ॥ १७ ॥

ऊने वर्षशते चास्या ददर्शान्तरमच्युतः
अकृत्वा पादयोः शौचं दितिः शयनमाविशत् ॥ १८ ॥

शय्यान्ते सा शिरः कृत्वा मुक्तकेशातिविह्वला
निद्रामाहारयामास तस्याः कुक्षिं प्रविश्य ह ॥ १९ ॥

वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तत
वज्रेण तीक्ष्णधारेण रुरोद उदरे स्थितः ॥ २० ॥

स गर्भस्तत्र विप्रेन्द्रा इन्द्रहस्तगतेन वै
रोदमानं महागर्भं तमुवाच पुनः पुनः ॥ २१ ॥

शतक्रतुर्महातेजा मा रोदीरित्यभाषत
सप्तधा कृतवाञ्छक्रस्तं गर्भं दितिजं पुनः ॥ २२ ॥

एकैकं सप्तधा च्छित्त्वा रुदमानं स देवराट्
एवं वै मरुतो जातास्ते तु देवा महौजसः ॥ २३ ॥

यथा इन्द्रेण ते प्रोक्ता बभूवुर्नामभिस्ततः
अतिवीर्य महाकायास्तीव्र तेजः पराक्रमाः ॥ २४ ॥

एकोना वै बभूवुस्ते पञ्चाशन्मरुतस्ततः
मरुतो नाम ते ख्याता इन्द्रमेव समाश्रिताः ॥ २५ ॥

भूतानामेव सर्वेषां रोचयन्ति गणं महत्
निकायेषु निकायेषु हरिः प्रादात्प्रजापतिः ॥ २६ ॥

क्रमशस्तानि राज्यानि पृथुपूर्वाणि तानि वै
स देवः पुरुषः कृष्णः सर्वव्यापी जगद्गुरुः ॥ २७ ॥

तपोजिष्णुर्महातेजाः सर्व एकः प्रजापतिः
पर्जन्यः पावकः पुण्यः सर्वात्मा सर्व एव हि ॥ २८ ॥

तस्य सर्वमिदं पुण्यं जगत्स्थावरजङ्गमम्
भूतसर्गमिमं सम्यग्जानतो द्विजसत्तम ॥ २९ ॥

नावृत्तिभयमस्तीह परलोकभयं कुतः
इमां सृष्टिं महापुण्यां सर्वपापहरां शुभाम् ॥ ३० ॥

यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते
स हि धन्यश्च पुण्यश्च स हि सत्यसमन्वितः ॥ ३१ ॥

यः शृणोति इमां सृष्टिं स याति परमां गतिम्
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥ ३२ ॥

इति श्रीपद्मपुराणे भूमिखण्डे मरुदुत्पत्तिर्नाम षड्विंशोऽध्यायः २६