सूत उवाच-
विश्वास-प्रस्तुतिः
इयं हि का गायति चारुलोचना विलासभावैः परिविश्वमेव
अतीव बाला शुशुभे मनोहरा सम्पूर्णभावैः परिमोहयेज्जनम् ॥ १ ॥
मूलम्

दृष्ट्वा स रम्भां कमलायताक्षीं पीनस्तनीं चर्चितकुङ्कुमाङ्गीम्
पद्माननां कामगृहं ममैषा नो वा रतिश्चारुमनोहरेयम् ॥ २ ॥

सम्पूर्णभावां परिरूपयुक्तां कामाङ्गशीलामतिशीलभावाम्
यास्याम्यहं वश्यमिहैव अस्या मनोभवेनाद्य इहैव प्रेषितः ॥ ३ ॥

इतीव दैत्यः सुविचिन्तयान्वितः कामेन मुग्धो बहुकालनोदितः
समातुरस्तत्र जगाम सत्वरमुवाच तां दीनमनाः सुलोचनाम् ॥ ४ ॥

कस्यासि वा सुन्दरि केन प्रेषिता किं नाम ते पुण्यतमं वदस्व मे
तवैव रूपेण महातितेजसा मुग्धोस्मि बाले मम वश्यतां व्रज ॥ ५ ॥

एवमुक्ता विशालाक्षी वृत्रं कामाकुलं प्रति
अहं रम्भा महाभाग क्रीडार्थं वनमुत्तमम् ॥ ६ ॥

सखीसार्धं समायाता नन्दनं वनमुत्तमम्
त्वं तु को वा किमर्थं हि मम पार्श्वं समागतः ॥ ७ ॥

वृत्र उवाच-
श्रूयतामभिधास्यामि योहं बाले समागतः
हुताशनात्समुत्पन्नः कश्यपस्य सुतः शुभे ॥ ८ ॥

सखाहं देवदेवस्य इन्द्र स्यापि वरानने
ऐन्द्रं पदं वरारोहे अर्धं मे भुक्तिमागतम् ॥ ९ ॥

अहं वृत्रः कथं देवि मामेवं न तु विन्दसि
त्रैलोक्यं वशमायातं यस्यैव वरवर्णिनि ॥ १० ॥

अहं शरणमायातः कामाद्रक्ष वरानने
भजस्व मां विशालाक्षि कामेनाकुलितं प्रिये ॥ ११ ॥

रम्भोवाच-
वशगा हं तवैवाद्य भविष्यामि न संशयः
यं यं वदाम्यहं वीर तं तं कार्यं त्वयैव हि ॥ १२ ॥

एवमस्तु महाभागे तं तं सर्वं करोम्यहम्
एवं सम्बन्धकं कृत्वा तया सह महाबलः ॥ १३ ॥

तस्मिन्वने महापुण्ये रेमे दानवसत्तमः
तस्या गीतेन नृत्येन हास्येन ललितेन च ॥ १४ ॥

अतिमुग्धो महादैत्यः स तस्याः सुरतेन च
तमुवाच महाभागं वृत्रं दानवसत्तमम् ॥ १५ ॥

सुरापानं कुरुष्वेह पिबस्व मधुमाधवीम्
तामुवाच विशालाक्षीं रम्भां शशिनिभाननाम् ॥ १६ ॥

पुत्रोहं ब्राह्मणस्यापि वेदवेदाङ्गपारगः
सुरापानं कथं भद्रे करिष्यमि विनिन्दितम् ॥ १७ ॥

तया तु रम्भया देव्या प्रीत्या दत्ता सुरा हठात्
तस्या दाक्षिण्यभावेन सुरापानं कृतं तदा ॥ १८ ॥

अतीवमुग्धं सुरया ज्ञानभ्रष्टो यदाभवत्
तदन्तरे सुरेन्द्रेण वज्रेण निहतस्तदा ॥ १९ ॥

ब्रह्महत्यादिकैः पापैः स लिप्तो वृत्रहा ततः
ब्राह्मणास्तु ततः प्रोचुरिन्द्र पापं कृतं त्वया ॥ २० ॥

अस्माद्वाक्यात्तु विश्वस्तो वृत्रो नाम महाबलः
हतो विश्वासभावेन एवं पापं त्वया कृतम् ॥ २१ ॥

इन्द्र उवाच-
येन केनाप्युपायेन हन्तव्योरिः सदैव हि
देवब्राह्मणहन्तारं यज्ञानां धर्मकण्टकम् ॥ २२ ॥

निहतं दानवं दुष्टं त्रैलोक्यस्यापि नायकम्
तदर्थं कुपिता यूयमेतन्न्यायस्य लक्षणम् ॥ २३ ॥

विचारमेवं कर्त्तव्यं भवद्भिर्द्विजसत्तमाः
पश्चात्कोपं प्रकर्त्तव्यमन्यायं मम चिन्त्यताम् ॥ २४ ॥

एवं सम्बोधिता विप्रा इन्द्रेणापि महात्मना
ब्रह्मादिभिः सुरैः सर्वैर्बोधितास्ते च सत्तमाः ॥ २५ ॥

जग्मुः स्वस्थानमेवं हि निहते धर्मकण्टके ॥ २६ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वृत्रासुरवधोनाम पञ्चविंशोऽध्यायः २५