सूत उवाच-
विश्वास-प्रस्तुतिः
हतं श्रुत्वा दितिः पुत्रं सुबलं बलमेव च
रुदितं करुणं कृत्वा हा हा कष्टं भृशं मम ॥ १ ॥
मूलम्

एवं सुकरुणं कृत्वा बहुकालं तपस्विनी
सा गता कश्यपं कान्तं तमुवाच यशस्विनी ॥ २ ॥

तव पुत्रो महापाप इन्द्रः सुरगणेश्वरः
सागरोपगतं दृष्ट्वा बलं मे ब्रह्मलक्षणम् ॥ ३ ॥

वज्रेण घातयामास सन्ध्यामास्यन्तमेव हि
एवं श्रुत्वा ततः क्रुद्धो मरीचितनयस्तदा ॥ ४ ॥

क्रोधेन महताविष्टः प्रजज्वालेव वह्निना
अवलुञ्च्य जटामेकां शुच्यग्नौ स द्विजोत्तमः ॥ ५ ॥

इन्द्रस्यैव वधार्थाय पुत्रमुत्पादयाम्यहम्
तस्मात्कुण्डात्समुत्पन्नो हुताशनमुखादपि ॥ ६ ॥

कृष्णाञ्जनचयोपेतः पिङ्गाक्षो भीषणाकृतिः
दंष्ट्राकरालवक्त्रान्तो जगतां भयदायकः ॥ ७ ॥

महाचर्वरिको घोरः खड्गचर्मधरस्तथा
सर्वाङ्गतेजसा दीप्तो महामेघोपमो बली ॥ ८ ॥

उवाच कश्यपं विप्रमादेशो मम दीयताम्
कस्मादुत्पादितो विप्र भवता कारणं वद ॥ ९ ॥

तमहं साधयिष्यामि प्रसादात्तव सुव्रत
कश्यप उवाच-
अस्या मनोरथं पुत्र पूरयस्व ममैव हि ॥ १० ॥

अदित्यास्त्वं महाप्राज्ञ जहि इन्द्रं दुरात्मकम्
निहते देवराजे हि ऐन्द्रं पदं प्रभुङ्क्ष्व च ॥ ११ ॥

एवं तेन समादिष्टः कश्यपेन महात्मना
वृत्रस्तु उद्यमं चक्रे तस्येन्द्रस्य वधाय च ॥ १२ ॥

धनुर्वेदस्य चाभ्यासं स चक्रे पौरुषान्वितः
बलं वीर्यं तथा क्षात्रं तेजो धैर्यसमन्वितम् ॥ १३ ॥

दृष्ट्वा हि तस्य दैत्यस्य सहस्राक्षो भयातुरः
उपायं चिन्तितं तस्य वृत्रस्यापि दुरात्मनः ॥ १४ ॥

वधार्थं देवदेवेन समाहूय महामुनीन्
सप्तर्षीन्प्रेषयामास वृत्रं दैत्येश्वरं प्रति ॥ १५ ॥

भवन्तस्तत्र गच्छन्तु यत्र वृत्रः स तिष्ठति
सन्धिं कुर्वन्तु वै तेन सार्द्धं मम मुनीश्वराः ॥ १६ ॥

एवं तेन समादिष्टा मुनयः सप्त ते तदा
वृत्रासुरं ततः प्रोचुः सहस्राक्ष प्रचालिताः ॥ १७ ॥

सख्यं कर्तुं प्रयच्छेत्स क्रियतां दैत्यसत्तम
ऋषयः सप्ततत्त्वज्ञा ऊचुर्वृत्रं महाबलम् ॥ १८ ॥

सहस्राक्षो महाप्राज्ञो भवता सह सत्तम
मैत्रमिच्छति वै कर्तुं तत्कथं न करोषि किम् ॥ १९ ॥

अर्धमैन्द्रं पदं वीर सत्वं भुङ्क्ष्व सुखेन वै
वर्तन्त्वर्द्धेन इन्द्रस्तु असुरा देवतास्तथा ॥ २० ॥

सुखं वर्तन्तु ते सर्वे वैरं चैव विसृज्य वै
वृत्र उवाच-
यदि सत्येन देवेन्द्रो मैत्रमिच्छति सत्तमः ॥ २१ ॥

सत्यमाश्रित्य चैवाहं करिष्ये नात्र संशयः
छद्म चैवं पुरस्कृत्य इन्द्रो द्रोहं समाचरेत् ॥ २२ ॥

तदा किं क्रियते विप्रा इत्यर्थे प्रत्ययं हि किम्
ऋषयस्त्विन्द्रमाचख्युरित्यर्थं प्रत्ययं वद ॥ २३ ॥

तन्नस्त्वं सत्यतां ब्रूहि यदि सख्यमिहेच्छसि
इन्द्र उवाच-
यद्यऽसत्येन वर्तामि भवद्भिः सह छद्मना ॥ २४ ॥

ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयः
छद्म चैवं पुरस्कृत्य इन्द्रो द्रोहं समाचरेत् ॥ २५ ॥

इत्युवाच महाप्राज्ञ त्वामेवं स पुरन्दरः ॥ २६ ॥

एतेन प्रत्ययेनापि सख्यं कुरु महामते
वृत्र उवाच-
भवतां शिष्टमार्गेण सत्येनानेन तस्य च ॥ २७ ॥

मैत्रमेवं करिष्यामि तेन सार्द्धं द्विजोत्तमाः
वृत्रमिन्द्रस्यसंस्थानं नीतं ब्राह्मणपुङ्गवैः ॥ २८ ॥

इन्द्रस्तमागतं दृष्ट्वा वृत्रं मित्रार्थमुद्यतः
सिंहासनात्समुत्थाय अर्घमादाय सत्वरः ॥ २९ ॥

ददौ तस्मै स धर्मात्मा वृत्राय द्विजसत्तम
अर्धं भुङ्क्ष्व महाप्राज्ञ ऐन्द्रमेतन्महत्पदम् ॥ ३० ॥

वर्तितव्यं सुखेनापि आवाभ्यां दैत्यसत्तम
एवं विश्वासयन्दैत्यं वृत्र मैत्रेण वै तदा ॥ ३१ ॥

गतेषु तेषु विप्रेषु स्वस्थानं द्विजसत्तम
छिद्रं पश्यति दुष्टात्मा वृत्रस्यापि सदैव हि ॥ ३२ ॥

सावधानत्वमिन्द्रोपि दिवारात्रौ प्रचिन्तयेत्
तस्यच्छिद्रं न पश्येत वृत्रस्यापि महात्मनः ॥ ३३ ॥

उपायं चिन्तयामास तस्यैव वधहेतवे
रम्भा सम्प्रेषिता तेन मोहयस्व महासुरम् ॥ ३४ ॥

येनकेनाप्युपायेन यथा हत्वा लभे सुखम्
तथा कुरुष्व कल्याणि सम्मोहाय सुरद्विषः ॥ ३५ ॥

वनं पुण्यं महादिव्यं पुण्यपादपसेवितम्
बहुवृक्षफलोपेतं मृगपक्षिसमाकुलम् ॥ ३६ ॥
मूलम्
वनं पुण्यं महादिव्यं पुण्यपादपसेवितम्
बहुवृक्षफलोपेतं मृगपक्षिसमाकुलम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
विमानमन्दिरैर्दिव्यैः सर्वत्र परिशोभितम्
दिव्यगन्धर्वसङ्गीतं भ्रमराकुलितं सदा ॥ ३७ ॥

कोकिलानां रुतैः पुण्यैः सर्वत्र मधुरायतैः
शिखिसारङ्गनादैश्च सर्वत्र सुसमाकुलम् ॥ ३८ ॥

दिव्यैस्तु चन्दनैर्वृक्षैः सर्वत्र समलङ्कृतम्
वापीकुण्डतडागैश्च जलपूर्णैर्मनोहरैः ॥ ३९ ॥

कमलैः शतपत्रैश्च पुष्पितैः समलङ्कृतम्
देवगन्धर्वसंसिद्धैश्चारणैश्चैव किन्नरैः ॥ ४० ॥

मुनिभिः शुशुभे दिव्यैर्दिव्योद्यानवरेण च
अप्सरोगणसङ्कीर्णं नानाकौतुकमङ्गलैः ॥ ४१ ॥

हेमप्रासादसम्बाधं दण्डच्छत्रैश्च चामरैः
कलशैश्च पताकाभिः सर्वत्रसमलङ्कृतम् ॥ ४२ ॥

वेदध्वनिसमाकीर्णं गीतध्वनिसमाकुलम्
एवं नन्दनमासाद्य सा रम्भा चारुहासिनी ॥ ४३ ॥

अप्सरोभिः समं तत्र क्रीडत्येवं विलासिनी
सूत उवाच-
एकदा तु स वृत्रो वै कालाकृष्टो गतो वनम् ॥ ४४ ॥

कतिभिर्दानवैः सार्द्धं मुदया परया युतः
अलक्ष्ये भ्रमते पार्श्वं तस्यैव च महात्मनः ॥ ४५ ॥

देवराजोपि विप्रेन्द्रश्छिद्रान्वेषी द्विषां किल
स हि वृत्रो महाप्राज्ञो विश्वस्तः सर्वकर्मसु ॥ ४६ ॥

इन्द्रं मित्रं परं जानन्भयं चक्रे न तस्य सः
भ्रममाणो वनं पश्येत्सर्वत्र परमं शुभम् ॥ ४७ ॥

सुरम्यं कौतुकवनं वनितागणसङ्कुलम्
चन्दनस्यापि वृक्षस्य छायां शीतां सुपुण्यदाम् ॥ ४८ ॥

समाश्रित्य विशालाक्षी रम्भा तत्र प्रदीव्यति
सखीभिस्तु महाभागा दोलारूढा यशस्विनी ॥ ४९ ॥

गायते सुस्वरं गीतं सर्वविश्वप्रमोहनम्
तत्र वृत्रः समायातः कामाकुलितमानसः ॥ ५० ॥

दोलारूढां समालोक्य रम्भां चारुसुलोचनाम् ॥ ५१ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे वृत्र-
वञ्चनन्नाम चतुर्विंशोऽध्यायः २४