ऋषय ऊचुः-
विश्वास-प्रस्तुतिः
विचित्रेयं कथा पुण्या धन्या यशोविधायिनी
सर्वपापहरा प्रोक्ता भवता वदतां वर ॥ १ ॥
मूलम्
विचित्रेयं कथा पुण्या धन्या यशोविधायिनी
सर्वपापहरा प्रोक्ता भवता वदतां वर ॥ १ ॥
विश्वास-प्रस्तुतिः
सृष्टिसम्बन्धमेतन्नस्तद्भवान्वक्तुमर्हति
पूर्वमेव यथासृष्टिर्विस्तरात्सूतनन्दन ॥ २ ॥
मूलम्
सृष्टिसम्बन्धमेतन्नस्तद्भवान्वक्तुमर्हति
पूर्वमेव यथासृष्टिर्विस्तरात्सूतनन्दन ॥ २ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
विस्तरेण प्रवक्ष्यामि सृष्टिसंहारकारणम्
श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेत् ॥ ३ ॥
मूलम्
सूत उवाच-
विस्तरेण प्रवक्ष्यामि सृष्टिसंहारकारणम्
श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
हिरण्यकश्यपेनापि व्यापितं भुवनत्रयम्
तपसाराध्य प्रबह्माणं वरं प्राप्तं सुदुर्लभम् ॥ ४ ॥
मूलम्
हिरण्यकश्यपेनापि व्यापितं भुवनत्रयम्
तपसाराध्य प्रबह्माणं वरं प्राप्तं सुदुर्लभम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
तस्माद्देवान्महाभागादमरत्वं तथैव च
देवाल्ँलोकान्स संव्याप्य प्रभुत्वं स्वयमर्जितम् ॥ ५ ॥
मूलम्
तस्माद्देवान्महाभागादमरत्वं तथैव च
देवाल्ँलोकान्स संव्याप्य प्रभुत्वं स्वयमर्जितम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
ततो देवाः सगन्धर्वा मुनयो वेदपारगाः
नागाश्च किन्नराः सिद्धा यक्षाश्चैव तथापरे ॥ ६ ॥
मूलम्
ततो देवाः सगन्धर्वा मुनयो वेदपारगाः
नागाश्च किन्नराः सिद्धा यक्षाश्चैव तथापरे ॥ ६ ॥
विश्वास-प्रस्तुतिः
ब्रह्माणं तु पुरस्कृत्य जग्मुर्नारायणं प्रभुम्
क्षीरसागरसंसुप्तं योगनिद्रां गतं प्रभुम् ॥ ७ ॥
मूलम्
ब्रह्माणं तु पुरस्कृत्य जग्मुर्नारायणं प्रभुम्
क्षीरसागरसंसुप्तं योगनिद्रां गतं प्रभुम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
तं सम्बोध्य महास्तोत्रैर्देवाः प्राञ्जलयस्तथा
सम्बुद्धे सति देवेशे वृत्तं तस्य दुरात्मनः ॥ ८ ॥
मूलम्
तं सम्बोध्य महास्तोत्रैर्देवाः प्राञ्जलयस्तथा
सम्बुद्धे सति देवेशे वृत्तं तस्य दुरात्मनः ॥ ८ ॥
विश्वास-प्रस्तुतिः
आचचक्षुर्महाप्राज्ञ समाकर्ण्य जगत्पतिः
नृसिंहरूपमास्थाय हिरण्यकशिपुं व्यहन् ॥ ९ ॥
मूलम्
आचचक्षुर्महाप्राज्ञ समाकर्ण्य जगत्पतिः
नृसिंहरूपमास्थाय हिरण्यकशिपुं व्यहन् ॥ ९ ॥
विश्वास-प्रस्तुतिः
पुनर्वाराहरूपेण हिरण्याक्षो महाबलः
उद्धृता वसुधा पुण्या असुरो घातितस्तदा ॥ १० ॥
मूलम्
पुनर्वाराहरूपेण हिरण्याक्षो महाबलः
उद्धृता वसुधा पुण्या असुरो घातितस्तदा ॥ १० ॥
विश्वास-प्रस्तुतिः
अन्यांश्चघातयामास दानवान्घोरदर्शनान्
एवं चैतेषु नष्टेषु दानवेषु महत्सु च ॥ ११ ॥
मूलम्
अन्यांश्चघातयामास दानवान्घोरदर्शनान्
एवं चैतेषु नष्टेषु दानवेषु महत्सु च ॥ ११ ॥
विश्वास-प्रस्तुतिः
अन्येषु तेषु नष्टेषु दितिपुत्रेषु वै तदा
पुनः स्थानेषु प्राप्तेषु देवेषु च महत्सु च ॥ १२ ॥
मूलम्
अन्येषु तेषु नष्टेषु दितिपुत्रेषु वै तदा
पुनः स्थानेषु प्राप्तेषु देवेषु च महत्सु च ॥ १२ ॥
विश्वास-प्रस्तुतिः
यज्ञेष्वेव प्रवृत्तेषु सर्वेषु धर्मकर्मसु
सुस्थेषु सर्वलोकेषु सा दितिर्दुःखपीडिता ॥ १३ ॥
मूलम्
यज्ञेष्वेव प्रवृत्तेषु सर्वेषु धर्मकर्मसु
सुस्थेषु सर्वलोकेषु सा दितिर्दुःखपीडिता ॥ १३ ॥
विश्वास-प्रस्तुतिः
पुत्रशोकेन सन्तप्ता हाहाभूता विचेतना
भर्तारं सूर्यसङ्काशं तपस्तेजः समन्वितम् ॥ १४ ॥
मूलम्
पुत्रशोकेन सन्तप्ता हाहाभूता विचेतना
भर्तारं सूर्यसङ्काशं तपस्तेजः समन्वितम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
दातारं च महात्मानं भर्तारं कश्यपं तदा
भक्त्या प्रणम्य विप्रेन्द्र तमुवाच महामतिम् ॥ १५ ॥
मूलम्
दातारं च महात्मानं भर्तारं कश्यपं तदा
भक्त्या प्रणम्य विप्रेन्द्र तमुवाच महामतिम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
भगवन्नष्टपुत्राहं कृता देवेन चक्रिणा
दैतेया दानवाः सर्वे देवैश्चैव निपातिताः ॥ १६ ॥
मूलम्
भगवन्नष्टपुत्राहं कृता देवेन चक्रिणा
दैतेया दानवाः सर्वे देवैश्चैव निपातिताः ॥ १६ ॥
विश्वास-प्रस्तुतिः
पुत्रशोकानलेनाहं सन्तप्ता मुनिसत्तम
ममानन्दकरं पुत्रं सर्वतेजोहरं विभो ॥ १७ ॥
मूलम्
पुत्रशोकानलेनाहं सन्तप्ता मुनिसत्तम
ममानन्दकरं पुत्रं सर्वतेजोहरं विभो ॥ १७ ॥
विश्वास-प्रस्तुतिः
सुबलं चारुसर्वाङ्गं देवराजसमप्रभम्
बुद्धिमन्तं सुसर्वज्ञं ज्ञातारं सर्वपण्डितम् ॥ १८ ॥
मूलम्
सुबलं चारुसर्वाङ्गं देवराजसमप्रभम्
बुद्धिमन्तं सुसर्वज्ञं ज्ञातारं सर्वपण्डितम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
तपस्तेजः समायुक्तं सबलं चारुलक्षणम्
ब्रह्मण्यं ज्ञानवेत्तारं देवब्राह्मणपूजकम् ॥ १९ ॥
मूलम्
तपस्तेजः समायुक्तं सबलं चारुलक्षणम्
ब्रह्मण्यं ज्ञानवेत्तारं देवब्राह्मणपूजकम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
जेतारं सर्वलोकानां ममानन्दकरं द्विज
सर्वलक्षणसम्पन्नं पुत्रं मे देहि त्वं विभो ॥ २० ॥
मूलम्
जेतारं सर्वलोकानां ममानन्दकरं द्विज
सर्वलक्षणसम्पन्नं पुत्रं मे देहि त्वं विभो ॥ २० ॥
विश्वास-प्रस्तुतिः
एवमाकर्ण्य वै तस्याः कश्यपो वाक्यमुत्तमम्
कृपाविष्टमनास्तुष्टो दुःखिताया द्विजोत्तम ॥ २१ ॥
मूलम्
एवमाकर्ण्य वै तस्याः कश्यपो वाक्यमुत्तमम्
कृपाविष्टमनास्तुष्टो दुःखिताया द्विजोत्तम ॥ २१ ॥
विश्वास-प्रस्तुतिः
तामुवाच महाभाग कृपणां दीनमानसाम्
तस्याः शिरसि सन्न्यस्य स्वहस्तं भावतत्परः ॥ २२ ॥
मूलम्
तामुवाच महाभाग कृपणां दीनमानसाम्
तस्याः शिरसि सन्न्यस्य स्वहस्तं भावतत्परः ॥ २२ ॥
विश्वास-प्रस्तुतिः
भविष्यति महाभागे यादृशो वाञ्छितः सुतः
एवमुक्त्वा जगामासौ मेरुं गिरिवरोत्तमम् ॥ २३ ॥
मूलम्
भविष्यति महाभागे यादृशो वाञ्छितः सुतः
एवमुक्त्वा जगामासौ मेरुं गिरिवरोत्तमम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
तपस्तेपे निरालम्बः साधयन्परमव्रतः
एतस्मिन्नन्तरे सा तु दधार गर्भमुत्तमम् ॥ २४ ॥
मूलम्
तपस्तेपे निरालम्बः साधयन्परमव्रतः
एतस्मिन्नन्तरे सा तु दधार गर्भमुत्तमम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
सा दितिः सर्वधर्मज्ञा चारुकर्मा मनस्विनी
शतवर्षप्रमाणं सा शुचि स्वान्ता बभूव ह ॥ २५ ॥
मूलम्
सा दितिः सर्वधर्मज्ञा चारुकर्मा मनस्विनी
शतवर्षप्रमाणं सा शुचि स्वान्ता बभूव ह ॥ २५ ॥
विश्वास-प्रस्तुतिः
तया वै जनितः पुत्रो ब्रह्मतेजः समन्वितः
अथ कश्यप आयातो हर्षेण महतान्वितः ॥ २६ ॥
मूलम्
तया वै जनितः पुत्रो ब्रह्मतेजः समन्वितः
अथ कश्यप आयातो हर्षेण महतान्वितः ॥ २६ ॥
विश्वास-प्रस्तुतिः
चकार नाम मेधावी तस्य पुत्रस्य सत्तमः
बलमित्यब्रवीत्पुत्रं नामतः सदृशो महान् ॥ २७ ॥
मूलम्
चकार नाम मेधावी तस्य पुत्रस्य सत्तमः
बलमित्यब्रवीत्पुत्रं नामतः सदृशो महान् ॥ २७ ॥
विश्वास-प्रस्तुतिः
एवं नाम चकाराथ व्रतबन्धं चकार सः
प्राह पुत्र महाभाग ब्रह्मचर्यं प्रसाधय ॥ २८ ॥
मूलम्
एवं नाम चकाराथ व्रतबन्धं चकार सः
प्राह पुत्र महाभाग ब्रह्मचर्यं प्रसाधय ॥ २८ ॥
विश्वास-प्रस्तुतिः
एवमेवं करिष्यामि तव वाक्यं द्विजोत्तम
वेदस्याध्ययनं कुर्यां ब्रह्मचर्येण सत्तम ॥ २९ ॥
मूलम्
एवमेवं करिष्यामि तव वाक्यं द्विजोत्तम
वेदस्याध्ययनं कुर्यां ब्रह्मचर्येण सत्तम ॥ २९ ॥
विश्वास-प्रस्तुतिः
एवं वर्षशतं साग्रं गतं तस्य तपस्यतः
मातुः समक्षमायातस्तपस्तेजः समन्वितः ॥ ३० ॥
मूलम्
एवं वर्षशतं साग्रं गतं तस्य तपस्यतः
मातुः समक्षमायातस्तपस्तेजः समन्वितः ॥ ३० ॥
विश्वास-प्रस्तुतिः
तपोवीर्यमयं दिव्यं ब्रह्मचर्यं महात्मनः
दितिः पश्यति पुत्रस्य हर्षेण महतान्विता ॥ ३१ ॥
मूलम्
तपोवीर्यमयं दिव्यं ब्रह्मचर्यं महात्मनः
दितिः पश्यति पुत्रस्य हर्षेण महतान्विता ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तमुवाच महात्मानं बलं पुत्रं तपस्विनम्
मेधाविनं महात्मानं प्रज्ञाज्ञानविशारदम् ॥ ३२ ॥
मूलम्
तमुवाच महात्मानं बलं पुत्रं तपस्विनम्
मेधाविनं महात्मानं प्रज्ञाज्ञानविशारदम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
त्वयि जीवति मेधाविन्प्रजीवन्ति सुता मम
हिरण्यकशिपाद्यास्ते ये हताश्चक्रपाणिना ॥ ३३ ॥
मूलम्
त्वयि जीवति मेधाविन्प्रजीवन्ति सुता मम
हिरण्यकशिपाद्यास्ते ये हताश्चक्रपाणिना ॥ ३३ ॥
विश्वास-प्रस्तुतिः
वैरं साधय मे वत्स जहि देवान्रिपून्रणे
सा दनुस्तमुवाचेदं बलं पुत्रं महाबलम् ॥ ३४ ॥
मूलम्
वैरं साधय मे वत्स जहि देवान्रिपून्रणे
सा दनुस्तमुवाचेदं बलं पुत्रं महाबलम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
आदाविन्द्रं हि देवेन्द्रं द्रुतं सूदय पुत्रक
पश्चाद्देवा निपात्यन्तां ततो गरुडवाहनः ॥ ३५ ॥
मूलम्
आदाविन्द्रं हि देवेन्द्रं द्रुतं सूदय पुत्रक
पश्चाद्देवा निपात्यन्तां ततो गरुडवाहनः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
तयोराकर्ण्य सा देवी अदितिः पतिदेवता
दुःखेन महताविष्टा पुत्रमिन्द्रमभाषत ॥ ३६ ॥
मूलम्
तयोराकर्ण्य सा देवी अदितिः पतिदेवता
दुःखेन महताविष्टा पुत्रमिन्द्रमभाषत ॥ ३६ ॥
विश्वास-प्रस्तुतिः
दितिपुत्रो महाकायो वर्द्धते ब्रह्मतेजसा
देवानां हि वधार्थाय तपस्तेपे निरञ्जने ॥ ३७ ॥
मूलम्
दितिपुत्रो महाकायो वर्द्धते ब्रह्मतेजसा
देवानां हि वधार्थाय तपस्तेपे निरञ्जने ॥ ३७ ॥
विश्वास-प्रस्तुतिः
एवं जानीहि देवेश यदि क्षेममिहेच्छसि
एवमाकर्ण्य तद्वाक्यं स मातुः पाकशासनः ॥ ३८ ॥
मूलम्
एवं जानीहि देवेश यदि क्षेममिहेच्छसि
एवमाकर्ण्य तद्वाक्यं स मातुः पाकशासनः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
चिन्तामवाप दुःखेन महतीं देवराट्तदा
महाभयेन सन्त्रस्तश्चिन्तयामास वै ततः ॥ ३९ ॥
मूलम्
चिन्तामवाप दुःखेन महतीं देवराट्तदा
महाभयेन सन्त्रस्तश्चिन्तयामास वै ततः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
कथमेनं हनिष्यामि देवधर्मविदूषकम्
इति निश्चित्य देवेशो बलस्य निधनं प्रति ॥ ४० ॥
मूलम्
कथमेनं हनिष्यामि देवधर्मविदूषकम्
इति निश्चित्य देवेशो बलस्य निधनं प्रति ॥ ४० ॥
विश्वास-प्रस्तुतिः
एकदा हि बलः सोपि सन्ध्यार्थं सिन्धुमाश्रितः
कृष्णाजिनेन दिव्येन दण्डकाष्ठेन राजितः ॥ ४१ ॥
मूलम्
एकदा हि बलः सोपि सन्ध्यार्थं सिन्धुमाश्रितः
कृष्णाजिनेन दिव्येन दण्डकाष्ठेन राजितः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
अमलेनापि पुण्येन ब्रह्मचर्येण तेन सः
सागरस्योपकण्ठे तं सन्ध्यासनमुपागतम् ॥ ४२ ॥
मूलम्
अमलेनापि पुण्येन ब्रह्मचर्येण तेन सः
सागरस्योपकण्ठे तं सन्ध्यासनमुपागतम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
जपमानं सुशान्तं तं ददृशे पाकशासनः
वज्रेण तेन दिव्येन ताडितो दितिनन्दनः ॥ ४३ ॥
मूलम्
जपमानं सुशान्तं तं ददृशे पाकशासनः
वज्रेण तेन दिव्येन ताडितो दितिनन्दनः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
बलं निपतितं दृष्ट्वा गतसत्वं गतं भुवि
हर्षेण महताविष्टो देवराण्मुमुदे तदा ॥ ४४ ॥
मूलम्
बलं निपतितं दृष्ट्वा गतसत्वं गतं भुवि
हर्षेण महताविष्टो देवराण्मुमुदे तदा ॥ ४४ ॥
विश्वास-प्रस्तुतिः
एवं निपात्य तं दैत्यं दितिनन्दनमेव च
राज्यं चकार धर्मात्मा सुखेन पाकशासनः ॥ ४५ ॥
मूलम्
एवं निपात्य तं दैत्यं दितिनन्दनमेव च
राज्यं चकार धर्मात्मा सुखेन पाकशासनः ॥ ४५ ॥
इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे बल-
दैत्यवधोनाम त्रयोविंशोऽध्यायः २३