व्यास उवाच-
विश्वास-प्रस्तुतिः
प्रश्नमेकं महाभाग करिष्ये साम्प्रतं वद
त्वयैव पूर्वमुक्तं हि सुव्रतं च प्रतीश्वरम् ॥ १ ॥
मूलम्

पूर्वाभ्यासेन सन्ध्यायन्नारायणमनामयम्
कस्यां ज्ञात्यां समुत्पन्नः सुव्रतः पूर्वजन्मनि ॥ २ ॥

तन्मे त्वं साम्प्रतं ब्रूहि कथमाराधितो हरिः
अनेनापि स देवेश कोयं पुण्यसमाविलः ॥ ३ ॥

ब्रह्मोवाच-
वैदिशे नगरे पुण्ये सर्वऋद्धिसमाकुले
तत्र राजा महातेजा ऋतध्वजसुतो बली ॥ ४ ॥
मूलम्
ब्रह्मोवाच-
वैदिशे नगरे पुण्ये सर्वऋद्धिसमाकुले
तत्र राजा महातेजा ऋतध्वजसुतो बली ॥ ४ ॥
विश्वास-प्रस्तुतिः
तस्यात्मजो महाप्राज्ञो रुक्मभूषणविश्रुतः
सन्ध्यावली तस्य भार्या धर्मपत्नी यशस्विनी ॥ ५ ॥

तस्यां पुत्रं समुत्पाद्य स आत्मसदृशं ततः
तस्य धर्माङ्गदं नाम चकार नृपनन्दनः ॥ ६ ॥

सर्वलक्षणसम्पन्नः पितृभक्तिपरायणः
रुक्माङ्गदस्य तनयो योयं भगवतां वरः ॥ ७ ॥

पितुः सौख्याय येनापि मोहिन्यै तु शिरो ददे
वैष्णवेन च धर्मेण पितृभक्त्या तु तस्य हि ॥ ८ ॥

सुप्रसन्नो हृषीकेशः सकायो वैष्णवं पदम्
नीतस्तु सर्वधर्मज्ञो वैष्णवः सात्वतां वरः ॥ ९ ॥

धर्माङ्गदो महाप्राज्ञः प्रज्ञाज्ञानविशारदः
तत्रस्थो वै महाप्राज्ञो धर्मोसौ धर्मभूषणः ॥ १० ॥

दिव्यान्मनोनुगान्भोगान्मोदमानः प्रभुञ्जति
पूर्णे युगसहस्रान्ते धर्मो वै धर्मभूषणः ॥ ११ ॥

तस्मात्पदात्परिभ्रष्टो विष्णोश्चैव प्रसादतः
सुव्रतो नाम मेधावी सुमनानन्दवर्द्धनः ॥ १२ ॥

सोमशर्मस्य तनयः श्रेष्ठो भगवतां वरः
तपश्चचार मेधावी विष्णुध्यानपरोभवत् ॥ १३ ॥

कामक्रोधादिकान्दोषान्परित्यज्य द्विजोत्तमः
संयम्यचैन्द्रियं वर्गं तपस्तेपे निरन्तरम् ॥ १४ ॥

वैडूर्यपर्वतश्रेष्ठे सिद्धेश्वरस्य सन्निधौ
एकीकृत्य मनश्चायं संयोज्य विष्णुना सह ॥ १५ ॥

एवं वर्षशतं स्थित्वा ध्यानेनास्य महात्मनः
सुप्रसन्नो जगन्नाथः शङ्खचक्रगदाधरः ॥ १६ ॥

तस्मै वरं ददावन्यं सलक्ष्म्या सह केशवः
भोभोः सुव्रत धर्मात्मन्बुध्यस्व विबुधांवर ॥ १७ ॥

वरं वरय भद्रं ते कृष्णोऽहं ते समागतः
एवमाकर्ण्य मेधावी विष्णोर्वाक्यमनुत्तमम् ॥ १८ ॥

हर्षेण महताविष्टो दृष्ट्वा देवं जनार्दनम्
बद्धाञ्जलिपुटो भूत्वा प्रणाममकरोत्तदा ॥ १९ ॥

सुव्रत उवाच-
संसारसागरमतीव महासुदुःखजालोर्मिभिर्विविधमोहचयैस्तरङ्गैः
सम्पूर्णमस्ति निजदोषगुणैस्तु प्राप्तस्तस्मात्समुद्धर जनार्दनमाशुदीनम् ॥ २० ॥

कर्माम्बुदे महति गर्जतिवर्षतीव विद्युल्लतोल्लसतिपातकसञ्चयैर्मे
मोहान्धकारपटलैर्मम नास्ति दृष्टिर्दीनस्य तस्य मधुसूदन देहि हस्तम् ॥ २१ ॥

संसारकाननघनं बहुदुःखवृक्षैः संसेव्यमानमपि मोहमयैश्च सिंहैः
सन्दीप्तमस्ति करुणाबहुवह्नितेजः सन्तप्यमानमनिशं परिपाहि कृष्ण ॥ २२ ॥

संसारवृक्षमतिजीर्णमपीह उच्चं मायासुकन्दकरुणा बहुदुःखशाखम्
जायादिसङ्गच्छदनं फलितं मुरारे तत्राधिरूढपतितं भगवन्हि रक्ष ॥ २३ ॥

दुःखानलैर्विविधमोहमयैः सुधूमैः शोकैर्वियोगमरणान्तिक सन्निभैश्च
दग्धोस्मि कृष्ण सततं मम देहि मोक्षं ज्ञानाम्बुदैः समभिषिञ्च सदैव मां त्वम् ॥ २४ ॥

घोरान्धकारपटले महतीव गर्ते संसारनाम्निपतितं सततं हि कृष्ण
त्वं सत्कृपो मम हि दीनभयातुरस्य तस्माद्विरज्यशरणं तव आगतोस्मि ॥ २५ ॥

त्वामेव ये नियतमानसभावयुक्ता ध्यायन्ति ज्ञानमनसा पदवीं लभन्ते
नत्वैव पादयुगलं च महासुपुण्यं यद्देवकिन्नरगणाः परिचिन्तयन्ति ॥ २६ ॥

नान्यं वदामि न भजामि न चिन्तयामि त्वत्पादपद्मयुगलं सततं नमामि
कामं त्वमेव मम पूरय मेद्य कृष्ण दूरेण यातु मम पातकसञ्चयस्ते ॥ २७ ॥

दासोस्मि देव तव किङ्करजन्मजन्म त्वत्पादपद्मयुगलं सततं स्मरामि ॥ २८ ॥

यदि कृष्ण प्रसन्नोसि देहि मे सुवरं प्रभो
मन्मातापितरौ कृष्ण सकायौ मन्दिरे नय ॥ २९ ॥

आत्मनश्च महादेव मयासह न संशयः
श्रीकृष्ण उवाच-
एवं ते परमं कार्यं भविष्यति न संशयः ॥ ३० ॥

तस्य तुष्टो हृषीकेशो भक्त्या तस्य प्रतोषितः
प्रयातौ वैष्णवं लोकं दाहप्रलयवर्जितौ ॥ ३१ ॥

सुव्रतेन समं तौ द्वौ सुमना सोमशर्मकौ
यावत्कल्पद्वयं प्राप्तं तावत्स सुव्रतो द्विजः ॥ ३२ ॥

बुभुजे बुभुजे दिव्याँल्लोकांश्चैव महामते
देवकार्यार्थमत्रैव काश्यपस्य गृहं पुनः ॥ ३३ ॥

अवतीर्णो महाप्राज्ञो वचनात्तस्य चक्रिणः
ऐन्द्रं पदं हि यो भुङ्क्ते विष्णोश्चैव प्रसादतः ॥ ३४ ॥

वसुदत्तेति विख्यातः सर्वदेवैर्नमस्कृतः
ऐन्द्रं पदं हि यो भुङ्क्ते साम्प्रतं वासवो दिवि ॥ ३५ ॥

एतत्ते सर्वमाख्यातं सृष्टिसम्बन्धकारणम्
अन्यदेवं प्रवक्ष्यामि यदेव परिपृच्छसि ॥ ३६ ॥

धर्माङ्गदो महाप्राज्ञो रुक्माङ्गदसुतो बली
आद्ये कृतयुगे जातः सृष्टिकाले स वासवः ॥ ३७ ॥

तत्कथं देवदेवेश अन्यो धर्माङ्गदो भुवि
अन्यो रुक्माङ्ङ्गदो राजा किं चायं त्रिदशाधिपः ॥ ३८ ॥

एतन्मे संशयं जातं तद्भवान्वक्तुमर्हति
ब्रह्मोवाच-
हन्त ते कथयिष्यामि सर्वसन्देहनाशनम् ॥ ३९ ॥

देवस्य लीलासृष्ट्यर्थे वर्तते द्विजसत्तम
यथा वाराश्च पक्षाश्च मासाश्च ऋतवो यथा ॥ ४० ॥

संवत्सराश्च मनवस्तथा यान्ति युगाः पुनः
पश्चात्कल्पः समायाति व्रजाम्येवं जनार्दनम् ॥ ४१ ॥

अहमेव महाप्राज्ञ मयि यान्ति चराचराः
पुनः सृजति योगात्मा पूर्ववद्विश्वमेव हि ॥ ४२ ॥

पुनरहं पुनर्वेदाः पुनस्ते देवता द्विजाः
तथा भूपाश्च ते सर्वे स्वचरित्रसमाविलाः ॥ ४३ ॥

प्रभवन्ति महाभाग विद्वांस्तत्र न मुह्यति
पूर्वकल्पे महाभागो यथा रुक्माङ्गदो नृपः ॥ ४४ ॥

तथा धर्माङ्गदश्चायं सञ्जातः ख्यातिमान्द्विजः
रामादयो महाप्राज्ञा ययातिर्नहुषस्तथा ॥ ४५ ॥

मन्वादयो महात्मानः प्रभवन्ति लयन्ति च
ऐन्द्रं पदं प्रभुञ्जन्ति राजानो धर्मतत्पराः ॥ ४६ ॥

यथा धर्माङ्गदो वीरः प्रभुञ्जति महत्पदम्
एवं वेदाश्च देवाश्च पुराणाः स्मृतिपूर्वकाः ॥ ४७ ॥

एतत्तु सर्वमाख्यातं तवाग्रे द्विजसत्तम
चरितं सुव्रतस्याथ पुण्यं सुगतिदायकम् ॥ ४८ ॥

अव्यक्तं तु महाभाग प्रब्रवीमि तवाग्रतः ॥ ४९ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे ऐन्द्रे सुव्रतो-
पाख्यानन्नाम द्वाविंशोऽध्यायः २२