०२१

सूत उवाच-

विश्वास-प्रस्तुतिः

एकदा व्यास देवोऽसौ ब्रह्माणं जगतः पतिम्
सुव्रताख्यानकं सर्वं पप्रच्छातीव विस्मितः ॥ १ ॥

मूलम्

व्यास उवाच-
लोकात्मल्ँलोकविन्यास देवदेव महाप्रभो
सुव्रतस्याथ चरितं श्रोतुमिच्छामि साम्प्रतम् ॥ २ ॥

ब्रह्मोवाच-
पाराशर्यमहाभाग श्रूयतां पुण्यमुत्तमम्
सुव्रतस्य सुविप्रस्य तपश्चर्यासमन्वितम् ॥ ३ ॥

सुव्रतो नाम मेधावी बाल्यादपि स चिन्तयन्
गर्भे नारायणं देवं दृष्टवान्पुरुषोत्तमम् ॥ ४ ॥

स पूर्वकर्माभ्यासेन हरेर्ध्यानं गतस्तदा
शङ्खचक्रधरं देवं पद्मनाभं सुपुण्यदम् ॥ ५ ॥

ध्यायते चिन्तयेत्सो हि गीते ज्ञाने प्रपाठने
एवं देवं हरिं ध्यायन्सदैव द्विजसत्तमः ॥ ६ ॥

क्रीडत्येवं सदा डिम्भैः सार्द्धं च बालकोत्तमः
बालकानां स्वकं नाम हरेश्चैव महात्मनः ॥ ७ ॥

चकार स हि मेधावी पुण्यात्मा पुण्यवत्सलः
समाह्वयति वै मित्रं हरेर्नाम्ना महामतिः ॥ ८ ॥

भोभोः केशव एह्येहि एहि माधवचक्रधृक्
क्रीडस्व च मया सार्धं त्वमेव पुरुषोत्तम ॥ ९ ॥

सममेवं प्रगन्तव्यमावाभ्यां मधुसूदन
एवमेव समाह्वानं नामभिश्च हरेर्द्विजः ॥ १० ॥

क्रीडने पठने हास्ये शयने गीतप्रेक्षणे
याने च ह्यासने ध्याने मन्त्रे ज्ञाने सुकर्मसु ॥ ११ ॥

पश्यत्येवं वदत्येवं जगन्नाथं जनार्दनम्
स ध्यायते तमेकं हि विश्वनाथं महेश्वरम् ॥ १२ ॥

तृणे काष्ठे च पाषाणे शुष्के सार्द्रे हि केशवम्
पश्यत्येवं स धर्मात्मा गोविन्दं कमलेक्षणम् ॥ १३ ॥

आकाशे भूमिमध्ये तु पर्वतेषु वनेषु च
जले स्थले च पाषाणे जीवेष्वेव महामतिः ॥ १४ ॥

नृसिंहं पश्यते विप्रः सुव्रतः सुमनासुतः
बालक्रीडां समासाद्य रमत्येवं दिनेदिने ॥ १५ ॥

गीतैश्च गायते कृष्णं सुरागैर्मधुराक्षरैः
तालैर्लयसमायुक्तैः सुस्वरैर्मूर्च्छनान्वितैः ॥ १६ ॥

सुव्रत उवाच-
ध्यायन्ति वेदविदुषः सततं सुरारिं यस्याङ्गमध्ये सकलं हि विश्वम्
योगेश्वरं सकलपापविनाशनं च व्रजामि शरणं मधुसूदनस्य ॥ १७ ॥

लोकेषु यो हि सकलेष्वनुवर्तते यो लोकाश्च यस्मिन्निवसन्ति सर्वे
दोषैर्विहीनमखिलैः परमेश्वरं तं तस्यैव पादयुगलं सततं नमामि ॥ १८ ॥

नारायणं गुणनिधानमनन्तवीर्यं वेदान्तशुद्धमतयः प्रपठन्ति नित्यम्
संसारसागरमनन्तमगाधदुर्गमुत्तारणार्थमखिलं शरणं प्रपद्ये ॥ १९ ॥

योगीन्द्र मानससरोवरराजहंसं शुद्धं प्रभावमखिलं सततं हि यस्य
तस्यैव पादयुगलं विमलं विशालं दीनस्य मेऽसुररिपो कुरु तस्य रक्षाम् ॥ २० ॥

ध्यायेऽखिलस्य भुवनं स्वपतिं च देवं दुःखान्धकारदलनार्थमिहैव चन्द्रम्
लोकस्य पालनकृते परिणीतधर्मं सत्यान्वितं सकललोकगुरुं सुरेशम् ॥ २१ ॥

गायाम्यहं सुरसगीतकतालमानैः श्रीरङ्गमेकमनिशं भुवनस्य देवम्
अज्ञाननाशकमलं च दिनेशतुल्यमानन्दकन्दमखिलं महिमा समेतम् ॥ २२ ॥

सम्पूर्णमेवममृतस्यकलानिधानं तं गीतकौशलमनन्यरसैः प्रगाये
युक्तं स्वयोगकरणैः परमार्थदृष्टिं विश्वं स पश्यति चराचरमेव नित्यम् ॥ २३ ॥

पश्यन्ति नैव यमिहाथ सुपापलोकास्तं केशवं शरणमेवमुपैति नित्यम् ॥ २४ ॥

कराभ्यां वाद्यमानस्तु तालं तालसमन्वितम्
गीतेनगायते कृष्णं बालकैः सह मोदते ॥ २५ ॥

एवं क्रीडारतो नित्यं बालभावेन वै तदा
सुव्रतः सुमनापुत्रो विष्णुध्यानपरायणः ॥ २६ ॥

क्रीडमानं प्राह माता सुव्रतं चारुलक्षणम्
भोजनं कुरु मे वत्स क्षुधा त्वां परिपीडयेत् ॥ २७ ॥

तामुवाच पुनः प्राज्ञः सुमना मातरं पुनः
महामृतेन तृप्तोस्मि हरिध्यानरसेन वै ॥ २८ ॥

भोजनासनमारूढो मिष्टमन्नं प्रपश्यति
इदमन्नं स्वयं विष्णुरात्मा ह्यन्नं समाश्रितः ॥ २९ ॥

आत्मरूपेण यो विष्णुरनेनान्नेन तृप्यतु
क्षीरसागरसंवासो यस्यैव परिसंस्थितः ॥ ३० ॥

जलेनानेन पुण्येन तृप्तिमायातु केशवः
ताम्बूलचन्दनैर्गन्धैरेभिः पुष्पैर्मनोहरैः ॥ ३१ ॥

आत्मस्वरूपेण तृप्तस्तृप्तिमायातु केशवः
शयने याति धर्मात्मा तदा कृष्णं प्रचिन्तयेत् ॥ ३२ ॥

योगनिद्रान्वितं कृष्णं तमहं शरणं गतः
भोजनाच्छादनेष्वेवमासने शयने द्विजः ॥ ३३ ॥

चिन्तयेद्वासुदेवं तं तस्मै सर्वं प्रकल्पयेत्
तारुण्यं प्राप्य धर्मात्मा कामभोगान्विहाय वै ॥ ३४ ॥

स युक्तः केशवध्याने वैडूर्यपर्वतोत्तमे
यत्र सिद्धेश्वरं लिङ्गं वैष्णवं पापनाशनम् ॥ ३५ ॥

रुद्रमोङ्कारसञ्ज्ञं च ध्यात्वा चैव महेश्वरम्
ब्रह्मणा वर्द्धितं देवं नर्मदादक्षिणे तटे ॥ ३६ ॥

सिद्धेश्वरं समाश्रित्य तपोभावं व्यचिन्तयत् ॥ ३७ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे ऐन्द्रे सुमनोपाख्याने एकविंशोऽध्यायः २१