हरिरुवाच-
विश्वास-प्रस्तुतिः
तपसानेन पुण्येन सत्येनानेन ते द्विज
स्तोत्रेण पावनेनापि तुष्टोस्मि व्रियतां वरः ॥ १ ॥
मूलम्

वरं दद्मि महाभाग यत्ते मनसि वर्तते
यंयमिच्छसि कामं त्वं तन्तं ते पूरयाम्यहम् ॥ २ ॥

सोमशर्मोवाच-
प्रथमं देहि मे कृष्ण वरमेकं सुवाञ्छितम्
सुप्रसन्नेन मनसा यद्यस्ति सुदया मम ॥ ३ ॥

जन्मजन्मान्तरं प्राप्य तव भक्तिं करोम्यहम्
दर्शयस्व परं स्थानमचलं मोक्षदायकम् ॥ ४ ॥

स्ववंशतारकं पुत्रं दिव्यलक्षणसंयुतम्
विष्णुभक्तिपरं नित्यं मम वंशप्रधारकम् ॥ ५ ॥

सर्वज्ञं सर्वदं दान्तं तपस्तेजः समन्वितम्
देवब्राह्मणलोकानां पालकं पूजकं सदा ॥ ६ ॥

देवमित्रं पुण्यभावं दातारं ज्ञानपण्डितम्
देहि मे ईदृशं पुत्रं दारिद्रं हर केशव ॥ ७ ॥

भवत्वेवं न सन्देहो वरमेनं वृणोम्यहम्
हरिरुवाच-
एवमस्तु द्विजश्रेष्ठ भविष्यति न संशयः ॥ ८ ॥

मत्प्रसादात्सुपुत्रस्तु तव वंश प्रतारकः
भोक्ष्यसि त्वं वरान्भोगान्दिव्यांश्च मानुषानिह ॥ ९ ॥

समालोक्य परं सौख्यं पुत्रसम्भवजं शुभम्
यावज्जीवसि विप्र त्वं तावद्दुःखं न पश्यसि ॥ १० ॥

दाता भोक्ता गुणग्राही भविष्यसि न संशयः
सुतीर्थे मरणं चापि यास्यसि त्वं परां गतिम् ॥ ११ ॥

एवं वरं हरिर्दत्त्वा सप्रियाय द्विजाय सः
अन्तर्धानं गतो देवः स्वप्नवत्परिदृश्यते ॥ १२ ॥

तदा सुमनया युक्तः सोमशर्मा द्विजोत्तमः
सुतीर्थे पावने तस्मिन्रेवातीरे सुपुण्यदे ॥ १३ ॥

अमरकण्टके विप्रो दानं पुण्यं करोति सः
गते बहुतरे काले तस्य वै सोमशर्मणः ॥ १४ ॥

कपिलारेवयोः सङ्गे स्नानं कृत्वा स निर्गतः
दृष्टवान्पुरतो विप्रः श्वेतमेकं हि कुञ्जरम् ॥ १५ ॥

सुप्रभं सुन्दरं दिव्यं सुमदं चारुलक्षणम्
नानाभरणशोभाङ्गं बहुलक्ष्म्या समन्वितम् ॥ १६ ॥

सिन्दूरैः कुङ्कुमैस्तस्य कुम्भस्थले विराजिते
कर्णनीलोत्पलयुतं पताकादण्डसंयुतम् ॥ १७ ॥

नागोपरिस्थितो दिव्यः पुरुषो दृढसुप्रभः
दिव्यलक्षणसम्पन्नः सर्वाभरणभूषितः ॥ १८ ॥

दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः
सुसौम्यं सोमवत्पूर्णच्छत्रचामरसंयुतम् ॥ १९ ॥

नागारूढं प्रयान्तं तं पुनः पश्यति सत्तमः
सिद्धचारणगन्धर्वैः स्तूयमानं सुमङ्गलम् ॥ २० ॥

सगजं सुन्दरं दृष्ट्वा पुरुषं दिव्यलक्षणम्
व्यतर्कयत्सोमशर्मा विस्मयाविष्टमानसः ॥ २१ ॥

कोऽयं प्रयाति दिव्याङ्गः पन्थानं प्राप्य सुव्रतः
एवं चिन्तयतस्तस्य यावद्गृहं समाप्तवान् ॥ २२ ॥

प्रविशन्तं गृहद्वारं देवरूपं मनोहरम्
हर्षेण महताविष्टः सोमशर्मा द्विजोत्तमः ॥ २३ ॥

स्वगृहं प्रति धर्मात्मा त्वरमाणः प्रयाति च
गृहद्वारं गतो यावत्तावत्तं तु न पश्यति ॥ २४ ॥

पतितान्येव पुष्पाणि सौहृद्यानि महामतिः
दिव्यानि वासयुक्तानि प्राङ्गणे द्विजसत्तमः ॥ २५ ॥

चन्दनैः कुङ्कुमैः पुण्यैः सुगन्धैस्तु विलेपितम्
स्वकीयं प्राङ्गणे दृष्ट्वा दूर्वाक्षतसमन्वितम् ॥ २६ ॥

स एवं विस्मयाविष्टश्चिन्तयानः पुनः पुनः
ददर्श सुमनां प्राज्ञो दिव्यमङ्गलसम्पदम् ॥ २७ ॥

केन दत्तानि दिव्यानि एतान्याभरणानि च
शृङ्गारंरूपसौभाग्यं वस्त्रालङ्कारभूषणम् ॥ २८ ॥

तन्मे त्वं कारणं भद्रे कथयस्वाविशङ्किता
एवं सम्भाष्यतां भार्यां विरराम द्विजोत्तमः ॥ २९ ॥

सुमनोवाच-
शृणु कान्त समायातः कश्चिद्देववरोत्तमः
श्वेतनागसमारूढो दिव्याभरणभूषितः ॥ ३० ॥
मूलम्
सुमनोवाच-
शृणु कान्त समायातः कश्चिद्देववरोत्तमः
श्वेतनागसमारूढो दिव्याभरणभूषितः ॥ ३० ॥
विश्वास-प्रस्तुतिः
दिव्यगन्धानुलिप्ताङ्गो दिव्याश्चर्यसमन्वितः
न जाने को हि देवोसौ विप्रगन्धर्वसेवितः ॥ ३१ ॥

स्तूयमानः समायातो देवगन्धर्वचारणैः
योषितः पुण्यरूपाढ्या रूपशृङ्गारसंयुताः ॥ ३२ ॥

सर्वाभरणशोभाढ्याः सर्वाः पूर्णमनोरथाः
ताभिः सह समक्षं मे पुरुषेण महात्मना ॥ ३३ ॥

चतुष्कं पूरितं रत्नैः सर्वशोभासमन्वितम्
तत्राहमासने पुण्ये स्थापिता ब्राह्मणैः किल ॥ ३४ ॥

वस्त्रालङ्कारभूषां मे ददुस्ते सर्व एव हि
वेदमङ्गलगीतैस्तु शास्त्रगीतैश्च पुण्यदैः ॥ ३५ ॥

अभिषिक्तास्मि तैः सर्वैरन्तर्धानं पुनर्गताः
मामेवं परितः सर्वे पुनरूचुर्द्विजोत्तम ॥ ३६ ॥

तव गेहं वयं सर्वे वसिष्यामः सदैव हि
शुचिर्भव सुकल्याणि भर्त्रा सार्द्धं सदैव हि ॥ ३७ ॥

एवमुक्त्वा गताः सर्वे एवं दृष्टं मयैव हि
तया यत्कथितं वृत्तं समाकर्ण्य महामतिः ॥ ३८ ॥

पुनश्चिन्तां प्रपन्नोऽसौ किमिदं देवनिर्मितम्
विचिन्तयित्वाथ तदा सोमशर्मा महामतिः ॥ ३९ ॥

ब्रह्मकर्मणि संयुक्तः साधर्म्यं धर्ममुत्तमम्
तस्माद्गर्भं महाभागा दधार व्रतशालिनी ॥ ४० ॥

तेन गर्भेण सा देवी अधिकं शुशुभे तदा
सन्दीप्तपुत्रसंयुक्त तेजोज्वालासमन्विता ॥ ४१ ॥

सा हि जज्ञे च तपसा तनयं देवसन्निभम्
अन्तरिक्षे ततो नेदुर्देवदुन्दुभयस्तदा ॥ ४२ ॥

शङ्खान्दध्मुर्महादेवा गन्धर्वा ललितं जगुः
अप्सरसस्तथा सर्वा ननृतुस्तास्तदा किल ॥ ४३ ॥

अथ ब्रह्मासुरैः सार्द्धं समायातो द्विजोत्तमः
चकार नाम तस्यैव सुव्रतेति समाहितः ॥ ४४ ॥

नाम कृत्वा ततो देवा जग्मुः सर्वे महौजसः
गतेषु तेषु देवेषु सोमशर्मासु तस्य च ॥ ४५ ॥

जातकर्मादिकं कर्म चकार द्विजसत्तमः
जाते पुत्रे महाभागे सुव्रते देवनिर्मिते ॥ ४६ ॥

तस्य गेहे महालक्ष्मीर्धनधान्यसमाकुला
गजाश्वमहिषी गावः काञ्चनं रत्नमेव च ॥ ४७ ॥

यथा कुबेरभवनं शुशुभे धनसञ्चयैः
तत्सोमशर्मणो गेहं तथैव परिराजते ॥ ४८ ॥
मूलम्
यथा कुबेरभवनं शुशुभे धनसञ्चयैः
तत्सोमशर्मणो गेहं तथैव परिराजते ॥ ४८ ॥
विश्वास-प्रस्तुतिः
ध्यानपुण्यादिकं कर्म चका रद्विजसत्तमः
तीर्थयात्रां गतो विप्रो नानापुण्यसमाकुलः ॥ ४९ ॥

अन्यानि यानि पुण्यानि दानानि द्विजसत्तमः
चकार तत्र मेधावी ज्ञानपुण्य समन्वितः ॥ ५० ॥

एवं साधयते धर्मं पालयेच्च पुनःपुनः
पुत्रस्य जातकर्मादि कर्माणि द्विजसत्तमः ॥ ५१ ॥

विवाहं कारयामास हर्षेण महता किल
पुत्रस्य पुत्राः सञ्जाताः सगुणा लक्षणान्विताः ॥ ५२ ॥

सत्यधर्मतपोपेता दानधर्मरताः सदा
स तेषां पुण्यकर्माणि सोमशर्मा चकार ह ॥ ५३ ॥

पौत्राणां तु महाभागस्तेषां सुखेन मोदते
सर्वं सौख्यं च सम्भुज्य जरारोगविवर्जितः ॥ ५४ ॥

पञ्चविंशाब्दिको यद्वत्तद्वत्कायं तु तस्य हि
सूर्यतेजः प्रतीकाशः सोमशर्मा महामतिः ॥ ५५ ॥

सा चापि शुशुभे देवी सुमना पुण्यमङ्गलैः
पुत्रपौत्रैर्महाभागा दानव्रतैश्च संयमैः ॥ ५६ ॥

अतिभाति विशालाक्षी पुण्यैः पतिव्रतादिभिः
तारुण्येन समायुक्ता यथा षोडशवार्षिकी ॥ ५७ ॥

मोदमानौ महात्मानौ दम्पती चारुमङ्गलौ
हर्षेण च समायुक्तौ पुण्यात्मानौ महोदयौ ॥ ५८ ॥

एवं तयोस्तु वृत्तान्तं पुण्याचारसमन्वितम्
सुव्रतस्य प्रवक्ष्यामि व्रतचर्यां द्विजोत्तमाः ॥ ५९ ॥

यथा तेन समाराध्य नारायणमनामयम् ॥ ६० ॥
मूलम्
यथा तेन समाराध्य नारायणमनामयम् ॥ ६० ॥
इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे एेन्द्रे सुमनो-
पाख्याने सुव्रतोत्पत्तिर्नाम विंशोऽध्यायः २०