सूत उवाच-
विश्वास-प्रस्तुतिः
सोमशर्मा महाप्राज्ञः सुमनया सह सत्तमः
कपिलासङ्गमे पुण्ये रेवातीरे सुपुण्यदे ॥ १ ॥
मूलम्
सोमशर्मा महाप्राज्ञः सुमनया सह सत्तमः
कपिलासङ्गमे पुण्ये रेवातीरे सुपुण्यदे ॥ १ ॥
विश्वास-प्रस्तुतिः
स्नात्वा तत्र स मेधावी तर्पयित्वा सुरान्पितॄन्
तपस्तेपे सुशान्तात्मा जपन्नारायणं शिवम् ॥ २ ॥
मूलम्
स्नात्वा तत्र स मेधावी तर्पयित्वा सुरान्पितॄन्
तपस्तेपे सुशान्तात्मा जपन्नारायणं शिवम् ॥ २ ॥
विश्वास-प्रस्तुतिः
द्वादशाक्षरमन्त्रेण ध्यानयुक्तो महामनाः
तस्यैव देवदेवस्य वासुदेवस्य सुव्रतः ॥ ३ ॥
मूलम्
द्वादशाक्षरमन्त्रेण ध्यानयुक्तो महामनाः
तस्यैव देवदेवस्य वासुदेवस्य सुव्रतः ॥ ३ ॥
विश्वास-प्रस्तुतिः
आसने शयने याने स्वप्ने पश्यति केशवम्
सदैव निश्चलो भूत्वा कामक्रोधविवर्जितः ॥ ४ ॥
मूलम्
आसने शयने याने स्वप्ने पश्यति केशवम्
सदैव निश्चलो भूत्वा कामक्रोधविवर्जितः ॥ ४ ॥
विश्वास-प्रस्तुतिः
सा च साध्वी महाभागा पतिव्रतपरायणा
सुमना कान्तमेवापि शुश्रूषति तपोन्वितम् ॥ ५ ॥
मूलम्
सा च साध्वी महाभागा पतिव्रतपरायणा
सुमना कान्तमेवापि शुश्रूषति तपोन्वितम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
ध्यायमानस्य तस्यापि विघ्नैः सन्दर्शितं भयम्
सर्पा विषोल्बणाः कृष्णास्तत्र यान्ति महात्मनः ॥ ६ ॥
मूलम्
ध्यायमानस्य तस्यापि विघ्नैः सन्दर्शितं भयम्
सर्पा विषोल्बणाः कृष्णास्तत्र यान्ति महात्मनः ॥ ६ ॥
विश्वास-प्रस्तुतिः
पार्श्वे ते तप्यमानस्य तस्य ते सोमशर्मणः
सिंहव्याघ्रगजा दृष्टा भयमेवं प्रचक्रिरे ॥ ७ ॥
मूलम्
पार्श्वे ते तप्यमानस्य तस्य ते सोमशर्मणः
सिंहव्याघ्रगजा दृष्टा भयमेवं प्रचक्रिरे ॥ ७ ॥
विश्वास-प्रस्तुतिः
वेताला राक्षसा भूताः कूष्माण्डाः प्रेतभैरवाः
भयं विदर्शयन्त्येते दारुणं प्राणनाशनम् ॥ ८ ॥
मूलम्
वेताला राक्षसा भूताः कूष्माण्डाः प्रेतभैरवाः
भयं विदर्शयन्त्येते दारुणं प्राणनाशनम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
नानाविधा महाभीमाः सिंहास्तत्र समागताः
दंष्ट्राकरालवक्त्राश्च जगर्जुश्चातिभैरवम् ॥ ९ ॥
मूलम्
नानाविधा महाभीमाः सिंहास्तत्र समागताः
दंष्ट्राकरालवक्त्राश्च जगर्जुश्चातिभैरवम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
विष्णोर्ध्यानात्स धर्मात्मा न चचाल महामतिः
महाविघ्नैः सुसंरूढैश्चालितो मुनिपुङ्गवः ॥ १० ॥
मूलम्
विष्णोर्ध्यानात्स धर्मात्मा न चचाल महामतिः
महाविघ्नैः सुसंरूढैश्चालितो मुनिपुङ्गवः ॥ १० ॥
विश्वास-प्रस्तुतिः
एवं न चलते ध्यानात्सोमशर्मा द्विजोत्तमः
झञ्झावातैश्च शीतेन महावृष्ट्या सुपीडितः ॥ ११ ॥
मूलम्
एवं न चलते ध्यानात्सोमशर्मा द्विजोत्तमः
झञ्झावातैश्च शीतेन महावृष्ट्या सुपीडितः ॥ ११ ॥
विश्वास-प्रस्तुतिः
भम्भारावमहाभीमः सिंहस्तत्र समागतः
तं दृष्ट्वा भयवित्रस्तः सस्मार नृहरिं द्विजः ॥ १२ ॥
मूलम्
भम्भारावमहाभीमः सिंहस्तत्र समागतः
तं दृष्ट्वा भयवित्रस्तः सस्मार नृहरिं द्विजः ॥ १२ ॥
विश्वास-प्रस्तुतिः
इन्द्रनीलप्रतीकाशं पीतवस्त्रं महौजसम्
शङ्खचक्रधरं देवं गदापङ्कजधारिणम् ॥ १३ ॥
मूलम्
इन्द्रनीलप्रतीकाशं पीतवस्त्रं महौजसम्
शङ्खचक्रधरं देवं गदापङ्कजधारिणम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
महामौक्तिकहारेण इन्दुवर्णानुकारिणा
कौस्तुभेनापि रत्नेन द्योतमानं जनार्दनम् ॥ १४ ॥
मूलम्
महामौक्तिकहारेण इन्दुवर्णानुकारिणा
कौस्तुभेनापि रत्नेन द्योतमानं जनार्दनम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
श्रीवत्साङ्केन दिव्येन हृदयं यस्य राजते
सर्वाभरणशोभाङ्गं शतपत्रनिभेक्षणम् ॥ १५ ॥
मूलम्
श्रीवत्साङ्केन दिव्येन हृदयं यस्य राजते
सर्वाभरणशोभाङ्गं शतपत्रनिभेक्षणम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
सुस्मितास्यं सुप्रसन्नं रत्नदामाभिशोभितम्
भ्राजमानं हृषीकेशं ध्यानं तेन कृतं ध्रुवम् ॥ १६ ॥
मूलम्
सुस्मितास्यं सुप्रसन्नं रत्नदामाभिशोभितम्
भ्राजमानं हृषीकेशं ध्यानं तेन कृतं ध्रुवम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
त्वमेव शरणं कृष्ण शरणागतवत्सल
नमोस्तु देवदेवाय किं मे भयं करिष्यति ॥ १७ ॥
मूलम्
त्वमेव शरणं कृष्ण शरणागतवत्सल
नमोस्तु देवदेवाय किं मे भयं करिष्यति ॥ १७ ॥
विश्वास-प्रस्तुतिः
यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः
शरणं तस्य प्रविष्टोस्मि क्वास्ते भयं ममैव हि ॥ १८ ॥
मूलम्
यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः
शरणं तस्य प्रविष्टोस्मि क्वास्ते भयं ममैव हि ॥ १८ ॥
विश्वास-प्रस्तुतिः
यस्माद्भयाः प्रवर्तन्ते कृत्यादिक महाबलाः
सर्वभयप्रहर्तारं तमस्मि शरणं गतः ॥ १९ ॥
मूलम्
यस्माद्भयाः प्रवर्तन्ते कृत्यादिक महाबलाः
सर्वभयप्रहर्तारं तमस्मि शरणं गतः ॥ १९ ॥
विश्वास-प्रस्तुतिः
पातकानां तु सर्वेषां दानवानां महाभयम्
रक्षको विष्णुभक्तानां तमस्मि शरणं गतः ॥ २० ॥
मूलम्
पातकानां तु सर्वेषां दानवानां महाभयम्
रक्षको विष्णुभक्तानां तमस्मि शरणं गतः ॥ २० ॥
विश्वास-प्रस्तुतिः
वृन्दारकाणां सर्वेषां दानवानां महात्मनाम्
यो गतिः कृष्णभक्तानां तमस्मि शरणं गतः ॥ २१ ॥
मूलम्
वृन्दारकाणां सर्वेषां दानवानां महात्मनाम्
यो गतिः कृष्णभक्तानां तमस्मि शरणं गतः ॥ २१ ॥
विश्वास-प्रस्तुतिः
अभयो भयनाशाय पापनाशाय ज्ञानवान्
एकश्चेन्द्रस्वरूपेण तमस्मि शरणं गतः ॥ २२ ॥
मूलम्
अभयो भयनाशाय पापनाशाय ज्ञानवान्
एकश्चेन्द्रस्वरूपेण तमस्मि शरणं गतः ॥ २२ ॥
विश्वास-प्रस्तुतिः
व्याधीनां नाशकायैव य औषधस्वरूपवान्
निरामयो निरानन्दस्तमस्मि शरणङ्गतः ॥ २३ ॥
मूलम्
व्याधीनां नाशकायैव य औषधस्वरूपवान्
निरामयो निरानन्दस्तमस्मि शरणङ्गतः ॥ २३ ॥
विश्वास-प्रस्तुतिः
अचलश्चालयेल्लोकानपापो ज्ञानमेव च
तमस्मि शरणं प्राप्तो भयं किं मे करिष्यति ॥ २४ ॥
मूलम्
अचलश्चालयेल्लोकानपापो ज्ञानमेव च
तमस्मि शरणं प्राप्तो भयं किं मे करिष्यति ॥ २४ ॥
विश्वास-प्रस्तुतिः
साधूनां चापि सर्वेषां पालको यो ह्यनामयः
पाति विश्वं च विश्वात्मा तमस्मि शरणङ्गतः ॥ २५ ॥
मूलम्
साधूनां चापि सर्वेषां पालको यो ह्यनामयः
पाति विश्वं च विश्वात्मा तमस्मि शरणङ्गतः ॥ २५ ॥
विश्वास-प्रस्तुतिः
यो मे मृगेन्द्ररूपेण भयं दर्शयतेग्रतः
तमहं शरणं प्राप्तो नरसिंहं नमाम्यहम् ॥ २६ ॥
मूलम्
यो मे मृगेन्द्ररूपेण भयं दर्शयतेग्रतः
तमहं शरणं प्राप्तो नरसिंहं नमाम्यहम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
मदमत्तो महाकायो वनहस्ती समागतः
गजलीलागतिं देवं शरणागतवत्सलम् ॥ २७ ॥
मूलम्
मदमत्तो महाकायो वनहस्ती समागतः
गजलीलागतिं देवं शरणागतवत्सलम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
गजास्यं ज्ञानसम्पन्नं सपाशाङ्कुशधारिणम्
कालास्यं गजतुण्डं च शरणं सुगतोस्म्यहम् ॥ २८ ॥
मूलम्
गजास्यं ज्ञानसम्पन्नं सपाशाङ्कुशधारिणम्
कालास्यं गजतुण्डं च शरणं सुगतोस्म्यहम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
हिरण्याक्षप्रहर्तारं वाराहं शरणङ्गतः
वामनं तं प्रपन्नोस्मि शरणागतवत्सलम् ॥ २९ ॥
मूलम्
हिरण्याक्षप्रहर्तारं वाराहं शरणङ्गतः
वामनं तं प्रपन्नोस्मि शरणागतवत्सलम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
ह्रस्वास्तु वामनाः कुब्जाः प्रेताः कूष्माण्डकादयः
मृत्युरूपधराः सर्वे दर्शयन्ति भयं मम ॥ ३० ॥
मूलम्
ह्रस्वास्तु वामनाः कुब्जाः प्रेताः कूष्माण्डकादयः
मृत्युरूपधराः सर्वे दर्शयन्ति भयं मम ॥ ३० ॥
विश्वास-प्रस्तुतिः
अमृतं तं प्रपन्नोस्मि किं भयं मे करिष्यति
ब्रह्मण्यो ब्रह्मदो ब्रह्मा ब्रह्मज्ञानमयो हरिः ॥ ३१ ॥
मूलम्
अमृतं तं प्रपन्नोस्मि किं भयं मे करिष्यति
ब्रह्मण्यो ब्रह्मदो ब्रह्मा ब्रह्मज्ञानमयो हरिः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
शरणं तं प्रपन्नोस्मि भयं किं मे करिष्यति
अभयो यो हि जगतो भीतिघ्नो भीतिदायकः ॥ ३२ ॥
मूलम्
शरणं तं प्रपन्नोस्मि भयं किं मे करिष्यति
अभयो यो हि जगतो भीतिघ्नो भीतिदायकः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
भयरूपं प्रपन्नोस्मि भयं किं मे करिष्यति
तारकः सर्वलोकानां नाशकः सर्वपापिनाम् ॥ ३३ ॥
मूलम्
भयरूपं प्रपन्नोस्मि भयं किं मे करिष्यति
तारकः सर्वलोकानां नाशकः सर्वपापिनाम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तमहं शरणं प्राप्तो धर्मरूपं जनार्दनम्
सुरारणं यो हि रणे वपुर्द्धारयतेऽद्भुतम् ॥ ३४ ॥
मूलम्
तमहं शरणं प्राप्तो धर्मरूपं जनार्दनम्
सुरारणं यो हि रणे वपुर्द्धारयतेऽद्भुतम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
शरणं तस्य गन्तास्मि सदागतिरयं मम
झञ्झावातो महाचण्डो वपुर्दूयति मे भृशम् ॥ ३५ ॥
मूलम्
शरणं तस्य गन्तास्मि सदागतिरयं मम
झञ्झावातो महाचण्डो वपुर्दूयति मे भृशम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
शरणं तं प्रपन्नोस्मि सदागतिरयं मम
अतिशीतं चातिवर्षा आतपस्तापदायकः ॥ ३६ ॥
मूलम्
शरणं तं प्रपन्नोस्मि सदागतिरयं मम
अतिशीतं चातिवर्षा आतपस्तापदायकः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
एषां रूपेण यो देवस्तस्याहं शरणं गतः
कालरूपा अमी प्राप्ता भयदा मम चालकाः ॥ ३७ ॥
मूलम्
एषां रूपेण यो देवस्तस्याहं शरणं गतः
कालरूपा अमी प्राप्ता भयदा मम चालकाः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
एषां शरणं प्रपन्नोस्मि हरेः स्वरूपिणां सदा ॥ ३८ ॥
मूलम्
एषां शरणं प्रपन्नोस्मि हरेः स्वरूपिणां सदा ॥ ३८ ॥
विश्वास-प्रस्तुतिः
यं सर्वदेवं परमेश्वरं हि निष्केवलं ज्ञानमयं प्रदीपम्
वदन्ति नारायणमादिसिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये ॥ ३९ ॥
मूलम्
यं सर्वदेवं परमेश्वरं हि निष्केवलं ज्ञानमयं प्रदीपम्
वदन्ति नारायणमादिसिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये ॥ ३९ ॥
विश्वास-प्रस्तुतिः
इति ध्यायन्स्तुवन्नित्यं केशवं क्लेशनाशनम्
भक्त्या तेन समानीतस्तदात्महृदये हरिः ॥ ४० ॥
मूलम्
इति ध्यायन्स्तुवन्नित्यं केशवं क्लेशनाशनम्
भक्त्या तेन समानीतस्तदात्महृदये हरिः ॥ ४० ॥
विश्वास-प्रस्तुतिः
उद्यमं विक्रमं तस्य स दृष्ट्वा सोमशर्मणः
आविर्भूय हृषीकेशस्तमुवाच प्रहृष्टवान् ॥ ४१ ॥
मूलम्
उद्यमं विक्रमं तस्य स दृष्ट्वा सोमशर्मणः
आविर्भूय हृषीकेशस्तमुवाच प्रहृष्टवान् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सोमशर्मन्महाप्राज्ञ श्रूयतां भार्यया सह
वासुदेवोस्मि विप्रेन्द्र वरं याचय सुव्रत ॥ ४२ ॥
मूलम्
सोमशर्मन्महाप्राज्ञ श्रूयतां भार्यया सह
वासुदेवोस्मि विप्रेन्द्र वरं याचय सुव्रत ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तेनोक्तो हि स विप्रेन्द्र उन्मील्य नयनद्वयम्
दृष्ट्वा विश्वेश्वरं देवं घनश्यामं महोदयम् ॥ ४३ ॥
मूलम्
तेनोक्तो हि स विप्रेन्द्र उन्मील्य नयनद्वयम्
दृष्ट्वा विश्वेश्वरं देवं घनश्यामं महोदयम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
सर्वाभरणशोभाङ्गं सर्वायुधसमन्वितम्
दिव्यलक्षणसम्पन्नं पुण्डरीकनिभेक्षणम् ॥ ४४ ॥
मूलम्
सर्वाभरणशोभाङ्गं सर्वायुधसमन्वितम्
दिव्यलक्षणसम्पन्नं पुण्डरीकनिभेक्षणम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
पीतेन वाससा युक्तं राजमानं सुरेश्वरम्
वैनतेयसमारूढं शङ्खचक्रगदाधरम् ॥ ४५ ॥
मूलम्
पीतेन वाससा युक्तं राजमानं सुरेश्वरम्
वैनतेयसमारूढं शङ्खचक्रगदाधरम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मादीनां सुधातारं जगतोस्य महायशाः
विश्वस्यास्य सदातीतं रूपातीतं जगद्गुरुम् ॥ ४६ ॥
मूलम्
ब्रह्मादीनां सुधातारं जगतोस्य महायशाः
विश्वस्यास्य सदातीतं रूपातीतं जगद्गुरुम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
हर्षेण महताविष्टो दण्डवत्प्रणिपत्य तम्
श्रियायुक्तं भासमानं सूर्यकोटिसमप्रभम् ॥ ४७ ॥
मूलम्
हर्षेण महताविष्टो दण्डवत्प्रणिपत्य तम्
श्रियायुक्तं भासमानं सूर्यकोटिसमप्रभम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
बद्धाञ्जलिपुटोभूत्वा तया सुमनया सह
जयजयेत्युवाचैनं जयमाधवमानद ॥ ४८ ॥
मूलम्
बद्धाञ्जलिपुटोभूत्वा तया सुमनया सह
जयजयेत्युवाचैनं जयमाधवमानद ॥ ४८ ॥
विश्वास-प्रस्तुतिः
जय योगीश योगीन्द्र जय नागाङ्गशायन
यज्ञाङ्ग जय यज्ञेश जय शाश्वतसर्वग ॥ ४९ ॥
मूलम्
जय योगीश योगीन्द्र जय नागाङ्गशायन
यज्ञाङ्ग जय यज्ञेश जय शाश्वतसर्वग ॥ ४९ ॥
विश्वास-प्रस्तुतिः
जय सर्वेश्वरानन्त यज्ञरूप नमोऽस्तु ते
जय ज्ञानवतां श्रेष्ठ जय त्वं ज्ञाननायक ॥ ५० ॥
मूलम्
जय सर्वेश्वरानन्त यज्ञरूप नमोऽस्तु ते
जय ज्ञानवतां श्रेष्ठ जय त्वं ज्ञाननायक ॥ ५० ॥
विश्वास-प्रस्तुतिः
जय सर्वदसर्वज्ञ जय त्वं सर्वभावन
जय जीवस्वरूपेश महाजीव नमोस्तुते ॥ ५१ ॥
मूलम्
जय सर्वदसर्वज्ञ जय त्वं सर्वभावन
जय जीवस्वरूपेश महाजीव नमोस्तुते ॥ ५१ ॥
विश्वास-प्रस्तुतिः
जय प्रज्ञादप्रज्ञाङ्ग जय प्राणप्रदायक
जय पापघ्न पुण्येश जय पुण्यपते हरे ॥ ५२ ॥
मूलम्
जय प्रज्ञादप्रज्ञाङ्ग जय प्राणप्रदायक
जय पापघ्न पुण्येश जय पुण्यपते हरे ॥ ५२ ॥
विश्वास-प्रस्तुतिः
जय ज्ञानस्वरूपेश ज्ञानगम्याय ते नमः
जय पद्मपलाशाक्ष पद्मनाभाय ते नमः ॥ ५३ ॥
मूलम्
जय ज्ञानस्वरूपेश ज्ञानगम्याय ते नमः
जय पद्मपलाशाक्ष पद्मनाभाय ते नमः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
जय गोविन्दगोपाल जय शङ्खधरामल
जय चक्रधराव्यक्त व्यक्तरूपाय ते नमः ॥ ५४ ॥
मूलम्
जय गोविन्दगोपाल जय शङ्खधरामल
जय चक्रधराव्यक्त व्यक्तरूपाय ते नमः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
जय विक्रमशोभाङ्ग जय विक्रमनायक
जय लक्ष्मीविलासाङ्ग नमो वेदमयाय ते ॥ ५५ ॥
मूलम्
जय विक्रमशोभाङ्ग जय विक्रमनायक
जय लक्ष्मीविलासाङ्ग नमो वेदमयाय ते ॥ ५५ ॥
विश्वास-प्रस्तुतिः
जय विक्रमशोभाङ्ग जय उद्यमदायक
जय उद्यमकालाय उद्यमाय नमोनमः ॥ ५६ ॥
मूलम्
जय विक्रमशोभाङ्ग जय उद्यमदायक
जय उद्यमकालाय उद्यमाय नमोनमः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
जय उद्यमशक्ताय उद्यमत्रयधारक
युद्धोद्यमप्रवृत्ताय तस्मै धर्माय ते नमः ॥ ५७ ॥
मूलम्
जय उद्यमशक्ताय उद्यमत्रयधारक
युद्धोद्यमप्रवृत्ताय तस्मै धर्माय ते नमः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
नमो हिरण्यरेताय तस्मै ते जायते नमः
अतितेजःस्वरूपाय सर्वतेजोमयाय च ॥ ५८ ॥
मूलम्
नमो हिरण्यरेताय तस्मै ते जायते नमः
अतितेजःस्वरूपाय सर्वतेजोमयाय च ॥ ५८ ॥
विश्वास-प्रस्तुतिः
दैत्यतेजोविनाशाय पापतेजोहराय च
गोब्राह्मणहितार्थाय नमोस्तु परमात्मने ॥ ५९ ॥
मूलम्
दैत्यतेजोविनाशाय पापतेजोहराय च
गोब्राह्मणहितार्थाय नमोस्तु परमात्मने ॥ ५९ ॥
विश्वास-प्रस्तुतिः
नमोस्तु हुतभोक्त्रे च नमो हव्यवहाय ते
नमः कव्यवहायैव स्वधारूपाय ते नमः ॥ ६० ॥
मूलम्
नमोस्तु हुतभोक्त्रे च नमो हव्यवहाय ते
नमः कव्यवहायैव स्वधारूपाय ते नमः ॥ ६० ॥
विश्वास-प्रस्तुतिः
स्वाहारूपाय यज्ञाय पावनाय नमोनमः
नमस्ते शार्ङ्गहस्ताय हरये पापहारिणे ॥ ६१ ॥
मूलम्
स्वाहारूपाय यज्ञाय पावनाय नमोनमः
नमस्ते शार्ङ्गहस्ताय हरये पापहारिणे ॥ ६१ ॥
विश्वास-प्रस्तुतिः
सदसच्चोदनायैव नमो विज्ञानशालिने
नमो वेदस्वरूपाय पावनाय नमोनमः ॥ ६२ ॥
मूलम्
सदसच्चोदनायैव नमो विज्ञानशालिने
नमो वेदस्वरूपाय पावनाय नमोनमः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
नमोस्तु हरिकेशाय सर्वक्लेशहराय ते
केशवाय परायैव नमस्ते विश्वधारिणे ॥ ६३ ॥
मूलम्
नमोस्तु हरिकेशाय सर्वक्लेशहराय ते
केशवाय परायैव नमस्ते विश्वधारिणे ॥ ६३ ॥
विश्वास-प्रस्तुतिः
नमः कृपाकरायैव नमो हर्षमयाय ते
अनन्ताय नमो नित्यं शुद्धाय क्लेशनाशिने ॥ ६४ ॥
मूलम्
नमः कृपाकरायैव नमो हर्षमयाय ते
अनन्ताय नमो नित्यं शुद्धाय क्लेशनाशिने ॥ ६४ ॥
विश्वास-प्रस्तुतिः
आनन्दाय नमो नित्यं शुद्धाय केवलाय ते
रुद्रैर्नमितपादाय विरञ्चिनमिताय ते ॥ ६५ ॥
मूलम्
आनन्दाय नमो नित्यं शुद्धाय केवलाय ते
रुद्रैर्नमितपादाय विरञ्चिनमिताय ते ॥ ६५ ॥
विश्वास-प्रस्तुतिः
सुरासुरेन्द्रनमित पादपद्माय ते नमः
नमोनमः परेशाय अजितायामृतात्मने ॥ ६६ ॥
मूलम्
सुरासुरेन्द्रनमित पादपद्माय ते नमः
नमोनमः परेशाय अजितायामृतात्मने ॥ ६६ ॥
विश्वास-प्रस्तुतिः
क्षीरसागरवासाय नमः पद्माप्रियाय ते
ॐकाराय च शुद्धाय अचलाय नमोनमः ॥ ६७ ॥
मूलम्
क्षीरसागरवासाय नमः पद्माप्रियाय ते
ॐकाराय च शुद्धाय अचलाय नमोनमः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
व्यापिने व्यापकायैव सर्वव्यसनहारिणे
नमोनमो वराहाय महाकूर्माय ते नमः ॥ ६८ ॥
मूलम्
व्यापिने व्यापकायैव सर्वव्यसनहारिणे
नमोनमो वराहाय महाकूर्माय ते नमः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
नमो वामनरूपाय नृसिंहाय महात्मने
नमो रामाय दिव्याय सर्वक्षत्रवधाय च ॥ ६९ ॥
मूलम्
नमो वामनरूपाय नृसिंहाय महात्मने
नमो रामाय दिव्याय सर्वक्षत्रवधाय च ॥ ६९ ॥
विश्वास-प्रस्तुतिः
सर्वज्ञानाय मत्स्याय नमो रामाय ते नमः
नमः कृष्णाय बुद्धाय नमो म्लेच्छप्रणाशिने ॥ ७० ॥
मूलम्
सर्वज्ञानाय मत्स्याय नमो रामाय ते नमः
नमः कृष्णाय बुद्धाय नमो म्लेच्छप्रणाशिने ॥ ७० ॥
विश्वास-प्रस्तुतिः
नमः कपिलविप्राय हयग्रीवाय ते नमः
नमो व्यासस्वरूपाय नमः सर्वमयाय ते ॥ ७१ ॥
मूलम्
नमः कपिलविप्राय हयग्रीवाय ते नमः
नमो व्यासस्वरूपाय नमः सर्वमयाय ते ॥ ७१ ॥
विश्वास-प्रस्तुतिः
एवं स्तुत्वा हृषीकेशं तमुवाच जनार्दनम्
गुणानां तु परं पारं ब्रह्मा वेत्ति न पावन ॥ ७२ ॥
मूलम्
एवं स्तुत्वा हृषीकेशं तमुवाच जनार्दनम्
गुणानां तु परं पारं ब्रह्मा वेत्ति न पावन ॥ ७२ ॥
विश्वास-प्रस्तुतिः
न चैव स्तोतुं सर्वज्ञस्तथा रुद्र सःहस्रदृक्
वक्तुं को हि समर्थस्तु कीदृशी मे मतिर्विभो ॥ ७३ ॥
मूलम्
न चैव स्तोतुं सर्वज्ञस्तथा रुद्र सःहस्रदृक्
वक्तुं को हि समर्थस्तु कीदृशी मे मतिर्विभो ॥ ७३ ॥
विश्वास-प्रस्तुतिः
निर्गुणं सगुणं स्तोत्रं मयैव तव केशव
क्षमशब्दापशब्दं मे तव दासोस्मि सुव्रत ॥ ७४ ॥
मूलम्
निर्गुणं सगुणं स्तोत्रं मयैव तव केशव
क्षमशब्दापशब्दं मे तव दासोस्मि सुव्रत ॥ ७४ ॥
विश्वास-प्रस्तुतिः
जन्मजन्मनि लोकेश दयां मे कुरु पावन ॥ ७५ ॥
मूलम्
जन्मजन्मनि लोकेश दयां मे कुरु पावन ॥ ७५ ॥
इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे-
एन्द्रे सुमनोपाख्याने एकोनविंशोऽध्यायः १९