सोमशर्मोवाच-
विश्वास-प्रस्तुतिः
पूर्वजन्मकृतं पापं त्वयाख्यातं च मे मुने
शूद्रत्वेन तु विप्रेन्द्र मयैव परिवर्जितम् ॥ १ ॥
मूलम्

विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम
तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपण्डित ॥ २ ॥

वसिष्ठ उवाच-
यत्त्वया चेष्टितं पूर्वं कर्मधर्माश्रितन्द्विज
तदहं सम्प्रवक्ष्यामि श्रूयतां यदि मन्यसे ॥ ३ ॥

ब्राह्मणः कश्चिदनघः सदाचारः सुपण्डितः
विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः ॥ ४ ॥

यात्राव्याजेन तीर्थानां भ्रमत्येकः समेदिनीम्
अटमानः समायातस्तव गेहं महामतिः ॥ ५ ॥

याचितं स्थानमेकं वै वासार्थं द्विजसत्तम
तवैव भार्यया दत्तं त्वया च सह पुत्रकैः ॥ ६ ॥

एयतामेयतां ब्रह्मन्सुखेन सुगृहे मम
वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः ॥ ७ ॥

सुखेन स्थीयतामत्र गृहोयं तव सुव्रत
अद्य धन्योस्म्यहं पुण्यमद्य तीर्थमहं गतः ॥ ८ ॥

अद्य तीर्थफलं प्राप्तं तवाङ्घ्रिद्वयदर्शनात्
गवां स्थानं वरं पुण्यं निवासाय निवेदितम् ॥ ९ ॥

अङ्गसंवाहनं कृत्वा पादौ चैव प्रमर्दितौ
क्षालितौ चपुनस्तोयैः स्नातः पादोदकेन हि ॥ १० ॥

सद्यो घृतं दधिक्षीरमन्नं तक्रं प्रदत्तवान्
तस्मै च ब्राह्मणायैव भवानित्थं महात्मने ॥ ११ ॥

एवं सन्तोषितो विप्रस्त्वया च सह भार्यया
पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपण्डितः ॥ १२ ॥

अथ प्रभाते सम्प्राप्ते दिने पुण्ये सुभाग्यदे
आषाढस्य तु शुद्धस्यैकादशी पापनाशनी ॥ १३ ॥

तस्मिन्दिने सुसम्प्राप्ता सर्वपातकनाशिनी
यस्यां देवो हृषीकेशो योगनिद्रां प्रगच्छति ॥ १४ ॥

तां प्राप्य च ततो लोकास्तत्यजुर्बुद्धिपण्डिताः
गृहस्य सर्वकर्माणि विष्णुध्यानरता द्विज ॥ १५ ॥

उत्सवं परमं चक्रुर्गीतमङ्गलवादनैः
स्तुवन्ति ब्राह्मणाः सर्वे वेदैः स्तोत्रैः सुमङ्गलैः ॥ १६ ॥

एवं महोत्सवं प्राप्य स च ब्राह्मणसत्तमः
तस्मिन्दिने स्थितस्तत्र सम्प्राप्तं समुपोषणम् ॥ १७ ॥

एकादश्यास्तु माहात्म्यं पठितं ब्राह्मणेन वै
भार्या पुत्रैः सुतैः सार्द्धं श्रुतं धर्ममनुत्तमम् ॥ १८ ॥

श्रुते तस्मिन्महापुण्ये भार्या पुत्रैस्तु प्रेरितः
संसर्गादस्य विप्रस्य व्रतमेतत्समाचर ॥ १९ ॥

तदाकर्ण्य महद्वाक्यं सर्वपुण्यप्रदायकम्
व्रतमेतं करिष्यामि इति निश्चितमानसः ॥ २० ॥

भार्या पुत्रैः समं गत्वा नद्यां स्नानं कृतं त्वया
हृष्टेन मनसा विप्र पूजितो मधुसूदनः ॥ २१ ॥

सर्वोपहारैः पुण्यैश्च गन्धधूपादिभिस्तथा
रात्रौ जागरणं कृत्वा नृत्यगीतादिभिस्तथा ॥ २२ ॥

ब्राह्मणस्य प्रसङ्गेन नद्यां स्नानं पुनः कृतम्
पूजितो देवदेवेशः पुष्पधूपादिमङ्गलैः ॥ २३ ॥

भक्त्या प्रणम्य गोविन्दं स्नापयित्वा पुनः पुनः
निर्वापं तादृशं दत्तं ब्राह्मणाय महात्मने ॥ २४ ॥

भक्त्या प्रणम्य तं विप्रं दत्ता तस्मै सुदक्षिणा
कृतवान्पारणं विप्र पुत्रैर्भार्यादिभिः समम् ॥ २५ ॥

प्रेषितो भक्तिपूर्वेण सद्भावेन त्वयैव सः
एवं व्रतं समाचीर्णं त्वया वै द्विजसत्तम ॥ २६ ॥

सङ्गत्या ब्राह्मणस्यैव विष्णोश्चैव प्रसादतः
भवान्ब्राह्मणतां प्राप्तः सत्यधर्मसमन्वितः ॥ २७ ॥

तस्य व्रतस्य भावेन त्वया प्राप्तं महत्कुलम्
भूसुराणां महाप्राज्ञं सत्यधर्मसमाविलम् ॥ २८ ॥

तस्मै तु ब्राह्मणायैव वैष्णवाय महात्मने
श्रद्धया सत्यभावेन दत्तमन्नं सुसंस्कृतम् ॥ २९ ॥

तस्य दानस्य भावेन मिष्टान्नमुपतिष्ठति
महामोहैः प्रमुग्धो हि तृष्णया व्यापितं मनः ॥ ३० ॥

पूर्वजन्मनि ते विप्र अर्थमेव प्रसञ्चितम्
न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया ॥ ३१ ॥

दारेषु पुत्रलोभेन म्रियमाणेन वै तदा
तस्य पापस्य भावेन दारिद्रं त्वामुपाविशत् ॥ ३२ ॥

पुत्रलोभं परित्यज्य स्नेहं त्यक्त्वा प्रदूरतः
अपुत्रवान्भवाञ्जातस्तस्य पापस्य वै फलम् ॥ ३३ ॥

सुपुत्रं च कुलं विप्र धनधान्यवरस्त्रियः
सुजन्ममरणं चैव सुभोगाः सुखमेव च ॥ ३४ ॥
मूलम्
सुपुत्रं च कुलं विप्र धनधान्यवरस्त्रियः
सुजन्ममरणं चैव सुभोगाः सुखमेव च ॥ ३४ ॥
विश्वास-प्रस्तुतिः
राज्यं स्वर्गश्च मोक्षश्च यद्यद्दुर्लभमेव च
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः ॥ ३५ ॥

तस्मादाराध्य गोविन्दं नारायणमनामयम्
प्राप्स्यसि त्वं परं स्थानं तद्विष्णोः परमं पदम् ॥ ३६ ॥

सुपुत्र त्वं धनं धान्यं सुभोगान्सुखमेव च
पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम् ॥ ३७ ॥

तन्मया कथितं विप्र तवाग्रे परिनिष्ठितम्
एवं ज्ञात्वा महाभाग नारायणपरो भव ॥ ३८ ॥
मूलम्
तन्मया कथितं विप्र तवाग्रे परिनिष्ठितम्
एवं ज्ञात्वा महाभाग नारायणपरो भव ॥ ३८ ॥
विश्वास-प्रस्तुतिः
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि
हर्षेणयुक्तः स महानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र ॥ ३९ ॥

आमन्त्र्य विप्रं स जगाम गेहं तां प्राप्य भार्यां सुमनां प्रहर्षः
सर्वं हि वृत्तं ममपूर्वचेष्टितं तेनैव विप्रेण तव प्रसादात् ॥ ४० ॥

भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहं परिनाशितं मे
आराधयिष्ये मधुसूदनं हि यास्यामि मोक्षं परमं पदं तत् ॥ ४१ ॥

आकर्ण्य वाक्यं परमं महान्तं सुमङ्गलं मङ्गलदायकं हि
हर्षेण युक्ता तमुवाच कान्तं पुण्योसि विप्रेण विबोधितोऽसि ॥ ४२ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे-
ऐन्द्रे सुमनोपाख्याने अष्टादशोऽध्यायः १८