सोमशर्मोवाच-
विश्वास-प्रस्तुतिः
सर्वं देवि समाख्यातं धर्मसंस्थानमुत्तमम्
कथं पुत्रमहं विन्द्यां सर्वज्ञं गुणसंयुतम् ॥ १ ॥
मूलम्

वद त्वं मे महाभागे यदि जानासि सुव्रते
दानधर्मादिकं भद्रे परत्रेह न संशयः ॥ २ ॥

सुमनोवाच-
वसिष्ठं गच्छ धर्मज्ञं तं प्रार्थय महामुनिम्
तस्मात्प्राप्स्यसि वै पुत्रं धर्मज्ञं धर्मवत्सलम् ॥ ३ ॥

सूत उवाच-
एवमुक्ते तया वाक्ये सोमशर्मा द्विजोत्तमः
एवं करिष्ये कल्याणि तव वाक्यं न संशयः ॥ ४ ॥

एवमुक्त्वा जगामाशु सोमशर्मा द्विजोत्तमः
वसिष्ठं सर्ववेत्तारं दिव्यं तं तपतां वरम् ॥ ५ ॥

गङ्गातीरे स्थितं पुण्यमाश्रमस्थं द्विजोत्तमम्
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् ॥ ६ ॥

राजमानं महात्मानं ब्रह्मण्यं च द्विजोत्तमम्
भक्त्या प्रणम्य विप्रेशं दण्डवच्च पुनः पुनः ॥ ७ ॥

तमुवाच महातेजा ब्रह्मसूनुरकल्मषः
उपाविशासने पुण्ये सुखेन सुमहामते ॥ ८ ॥
मूलम्
तमुवाच महातेजा ब्रह्मसूनुरकल्मषः
उपाविशासने पुण्ये सुखेन सुमहामते ॥ ८ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा स योगीन्द्रः पुनः प्राह तपोधनम्
गृहे पुत्रेषु ते वत्स दारभृत्येषु सर्वदा ॥ ९ ॥

क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु
निरामयोसि चाङ्गेषु धर्मं पालयसे सदा ॥ १० ॥

एवमुक्त्वा महाप्राज्ञः पुनः प्राह सुशर्मणम्
किं करोमि प्रियं कार्यं सुप्रियं ते द्विजोत्तम ॥ ११ ॥

एवं सम्भाषितं विप्रं विरराम स कुम्भजः
तस्मिन्नुक्ते महाभागे वसिष्ठे मुनिपुङ्गवे ॥ १२ ॥

स होवाच महात्मानं वसिष्ठं तपतां वरम्
भगवञ्छ्रूयतां वाक्यं सुप्रसन्नेन चेतसा ॥ १३ ॥

यदि मे सुप्रियं कार्यं त्वयैव मुनिपुङ्गव
मम प्रश्नार्थसन्देहं विच्छेदय द्विजोत्तम ॥ १४ ॥

दारिद्र्यं केन पापेन पुत्रसौख्यं कथं नहि
एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे ॥ १५ ॥

महामोहेन सम्मुग्धः प्रियया बोधितो द्विज
तयाहं प्रेषितस्तात तव पार्श्वं समातुरः ॥ १६ ॥

तत्सर्वं हि समाचक्ष्व सर्वसन्देहनाशकम्
मुक्तिदाता भवस्व त्वं ममसंसारबन्धनात् ॥ १७ ॥

वसिष्ठ उवाच-
पुत्रा मित्राण्यथ भ्राता अन्ये स्वजनबान्धवाः
पञ्चभेदास्तु सम्भेदात्पुरुषस्य भवन्ति ते ॥ १८ ॥

ते ते सुमनया प्रोक्ताः पूर्वमेव तवाग्रतः
ऋणसम्बन्धिनः सर्वे ते कुपुत्रा द्विजोत्तम ॥ १९ ॥

पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम्
पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा ॥ २० ॥

शुद्धिविज्ञानसम्पन्नस्तपस्वी वाग्विदां वरः
सर्वकर्मसुसन्धीरो वेदाध्ययनतत्परः ॥ २१ ॥

स सर्वशास्त्रवेत्ता च देवब्राह्मणपूजकः
याजकः सर्वयज्ञानां दाता त्यागी प्रियंवदः ॥ २२ ॥

विष्णुध्यानपरो नित्यं शान्तो दान्तः सुहृत्सदा
पितृमातृपरोनित्यं सर्वस्वजनवत्सलः ॥ २३ ॥

कुलस्य तारको विद्वान्कुलस्य परिपोषकः
एवं गुणैश्च संयुक्तः सपुत्रः सुखदायकः ॥ २४ ॥

अन्ये सम्बन्धसंयुक्ताः शोकसन्तापदायकाः
एतादृशेन किं कार्यं फलहीनेन तेन च ॥ २५ ॥

आयान्ति यान्ति ते सर्वे तापं दत्वा सुदारुणम्
पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम ॥ २६ ॥

पूर्वजन्मकृतं पुण्यं यत्त्वया परिपालितम्
तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः ॥ २७ ॥

भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा
कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः ॥ २८ ॥

एकभार्या सदा द्वेषी बहुपुत्रो ह्यदत्तवान्
धर्मं नैव विजानासि सत्यं नैव परिश्रुतम् ॥ २९ ॥

दानं नैव त्वया दत्तं शास्त्रं नैव प्रतिश्रुतम्
कृता नैव त्वया तीर्थे यात्रा चैव महामते ॥ ३० ॥

एवं कृतं त्वया विप्र कृषिमार्गं पुनः पुनः
पशूनां पालनं सर्व गवां चैव द्विजोत्तम ॥ ३१ ॥

महिषीणां तथाऽश्वानां पालनं च पुनः पुनः
एवं पू र्वङ्कृतं कर्म त्वयैव द्विजसत्तम ॥ ३२ ॥

विपुलं च धनं तद्वल्लोभेन परिसञ्चितम्
तस्य व्ययं सुपुण्येन न कृतं तु त्वया कदा ॥ ३३ ॥

पात्रे दानं न दत्तं तु दृष्ट्वा दुर्बलमेव च
कृपां कृत्वा न दत्तं तु भवता धनमेव च ॥ ३४ ॥

गोमहिष्यादिकं सर्वं पशूनां सञ्चितं त्वया
विक्रीय च धनं विप्र सञ्चितं विपुलं त्वया ॥ ३५ ॥

तक्रं घृतं तथा क्षीरं विक्रयित्वा ततो दधि
दुष्कालं चिन्तितं विप्र मोहितो विष्णुमायया ॥ ३६ ॥

कृतं महार्घमेवात्र अन्नं ब्राह्मणसत्तम
निर्दयेन त्वया दानं न दत्तं तु कदाचन ॥ ३७ ॥

देवानां पूजनं विप्र भवता न कृतं कदा
प्राप्य पर्वाणि विप्रेभ्यो द्रव्यं न च समर्पितम् ॥ ३८ ॥

श्राद्धङ्कालन्तुसम्प्राप्यश्रद्धयानकृतन्त्वया
भार्या वदति ते साध्वी दिनमेनं समागतम् ॥ ३९ ॥

श्वशुरस्य श्राद्धकालः श्वश्र्वाश्चैव महामते
त्वं श्रुत्वा तद्वचस्तस्या गृहं त्यक्त्वा पलायसे ॥ ४० ॥

धर्ममार्गं न दृष्टं ते श्रुतं नैव कदा त्वया
लोभो मातापिता भ्राता लोभः स्वजनबान्धवाः ॥ ४१ ॥

पालितं लोभमेवैकं त्यक्त्वा धर्मं सदैव हि
तस्माद्दुःखी भवाञ्जातो दरिद्रेणातिपीडितः ॥ ४२ ॥

दिनेदिने महातृष्णा हृदये ते प्रवर्द्धते
यदायदा गृहे द्रव्यं वृद्धिमायाति ते तदा ॥ ४३ ॥

तृष्णया दह्यमानस्तु तया त्वं वह्निरूपया
रात्रौ वा सुप्रसुप्तस्तु निश्चितो हि प्रचिन्तसि ॥ ४४ ॥

दिनं प्राप्य महामोहैर्व्यापितोसि सदैव हि
सहस्रं लक्षं मे कोटिः कदा अर्बुदमेव च ॥ ४५ ॥

भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे
एवं सहस्रं लक्षं च कोटिरर्बुदमेव च ॥ ४६ ॥

खर्वो निखर्वः सञ्जातस्तृष्णा नैव प्रगच्छति
तव कायं परित्यज्य वृद्धिमायाति सर्वदा ॥ ४७ ॥

नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया
खनितं भूमिमध्ये तु क्षिप्तं पुत्रानजानते ॥ ४८ ॥

अन्यमेवमुपायं तु द्रव्यागमनकारणात्
कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान् ॥ ४९ ॥

खनित्रमञ्जनं वादं धातुवादमतः परम्
पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः ॥ ५० ॥

स्पर्शञ्चिन्तयसेनित्यङ्कल्पान्सिद्धिप्रदायकान्
प्रवेशं विवराणां तु चिन्तमानः सु पृच्छसि ॥ ५१ ॥

तृष्णानलेन दग्धेन सुखं नैव प्रगच्छसि
तृष्णानलेन सन्दीप्तो हाहाभूतो विचेतनः ॥ ५२ ॥

एवं मुग्धोसि विप्रेन्द्र गतस्त्वं कालवश्यताम्
दारापुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया ॥ ५३ ॥

कथितं नैव वृत्तान्तं प्राणांस्त्यक्त्वा गतो यमम्
एवं सर्वं मया ख्यातं वृत्तान्तं तव पूर्वकम् ॥ ५४ ॥

अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान्
संसारे यस्य सत्पुत्रा भक्तिमन्तः सदैव हि ॥ ५५ ॥

सुशीला ज्ञानसम्पन्नाः सत्यधर्मरताः सदा
सम्भवन्ति गृहे तस्य यस्य विष्णुः प्रसीदति ॥ ५६ ॥

धनं धान्यं कलत्रं तु पुत्रपौत्रमनन्तकम्
स भुङ्क्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान् ॥ ५७ ॥

विना विष्णोः प्रसादेन दारापुत्रान्न चाप्नुयात्
सुजन्म च कुलं विप्र तद्विष्णोः परमं पदम् ॥ ५८ ॥

इति श्रीपद्मपुराणेभूमिखण्डेएन्द्रे सुमनोपाख्यानेसप्तदशोऽध्यायः १७